| YouTube Channel

शीक (zIka)

 
Yates
English
शीक (ऋ, ङ) शेकते 1.
d. To wet or
moisten. (क) शेकयति 10.
a. To
endure, touch, wet.
Wilson
English
शीक r. 1st cl. (ऋ) शीकृ (शेकते) To wet or moisten, to
sprinkle. r. 10th cl. (शेकयति)
1 To endure patiently, to be patient.
2 To touch.
3 To wet, to moisten.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शीक्
मूलधातुः:
शीक
धात्वर्थः:
आमर्षणे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
शीकयति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुः:
शीक्
मूलधातुः:
शीक
धात्वर्थः:
भाषायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
शीकयति-ते
धातुप्रदीपः
Sanskrit
शीकँ शीक मर्षणे
- शीकयति शीकति अन्यत्र शीकते 271
शब्दकल्पद्रुमः
Sanskrit
शीक, सेके सर्पे इति कविकल्पद्रुमः
(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अशिशीकत् ।ङ, शीकते इति दुर्गादासः
शीक, कि आमर्शे सेके इति कविकल्पद्रुमः
(चुरा०-पक्षे भ्वा०-सक०-सेट् ।) कि, शीक-यति शीकति आमर्शः स्पर्शः तथा ।“चन्द्रावतीतरङ्गार्द्रा शीकयन्ति यद्वपुः ।”इति हलायुधः
वायवः स्पृशन्ति इत्यर्थः भट्टमल्लस्तु आमर्षणइति मूर्द्ध्वन्यषमध्यं पठित्वा क्षमार्थमाह इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
शीक मेके सर्पणे
भ्वा०
आत्म०
सक०
सेट् शीकते अशी-किष्ट ऋदित् चङि ह्रस्वः
शीक आमर्षे सेके वा
चु०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् ।शीकयति ते शीकति अशीशिकत्--त अशीकीत्
क्षीरतरङ्गिणी
Sanskrit
शीकँ शीक आमर्षणे
- शीकयति, शीकति, अशीशिकत् भ्वादौ शीकृ सेचने (162)-शीकते, अशिशीकत् 272
धातुवृत्तिः
Sanskrit
शीकँ शीक (अर्थः) मर्षणे
( शीकयति शीकतिशीकिता ) सेचने शपि शीकते 285
कृदन्तरूपमाला
Sanskrit
1 {@“शीक आमर्षणे”@} 2 आधृषीयः।
‘शीकरः’ इत्यादिषु जलसेचनार्थकलाभार्थं वोपदेवप्रभृतिभिः धातुरयं ‘सेके आमर्षे च’ इति पठितः।
तत्तु ‘शीकृ सेचने’ इति भ्वादिधातोः सम्पद्यत इति व्यर्थमेव।
तथा चोक्तम्-- ‘मर्षणे शीकयेत् शीकेत्
सेचने शपि शीकते’ 3 इति देवेन।
आधृषीयत्वेन णिज्विकल्पः।
रूपाणि यथासम्भवं चौरादिकचीकयतिवत् 4 बोध्यानि।
चुरादिष्वेव ‘शीक भाषार्थः’ इति धात्वन्तरं अनाधृषीयं स्वामि- काश्यपादयः पठन्ति।
तस्य प्रायपाठविरलत्वात् नास्माभिरुल्लेखः कृतः।
प्रासङ्गिक्यः
01
=>
(१७१५)
02
=>
(१०-चुरादिः-१८२७। सक। सेट्। उभ।)
03
=>
(श्लो। ४२)
04
=>
(५२९)