| YouTube Channel

शिष (ziSa)

 
Wilson
English
शिष r. 1st cl. (शेषति) To hurt, to injure or kill. r. 1st and 10th
cls. (शेषति शेषयति)
1 To leave a residue, not to use the whole.
2 (usually with षि prefixed, ) To excel. (ऌ and with षि
prefixed) विशिष्टृ r. 7th cl. (विषिनष्टि) To assign attributes or
qualities to, to distinguish, to individualize, to specify.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शिष्
मूलधातुः:
शिष
धात्वर्थः:
हिंसायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
शेषति
धातुः:
शिष्
मूलधातुः:
शिष
धात्वर्थः:
असर्वोपयोगे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
शेषयति-ते, शेषति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
शिषँ शिष असर्वोपयोगे
- शेषयति शेषति पर्य्यशेषयत् पर्य्यशेषत् अन्यत्र शिनष्टि विपूर्वोऽतिशये विशेषयति विशेषति विशेष्यते 261
शब्दकल्पद्रुमः
Sanskrit
शिष, वधे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) शेषति इति दुर्गादासः
शिष, विशेषे इति कविकल्पद्रुमः
(रुधा०-पर०-सक०-अनिट् ।) विशेष उप-रञ्जनम् ऌ, अशिषत् ध, विशिनष्टि स्मरंमूर्त्त्या यः इति हलायुधः मूर्त्तिविशिष्टंकरोति इत्यर्थः औ, शेष्टा इति दुर्गादासः
शिष, कि असर्व्वोपयोगे इति कविकल्पद्रुमः
(चुरा०-पक्षे-भ्वा०-सक०-सेट् असर्व्वोप-योगः परिशेषीकरणम् कि, शेषयति शेषतियशोराशिं लोकः अवशिष्टं करोति इत्यर्थः ।वेरतिशायने शिष किरनुवर्त्तते कि, विशेषयतिविशेषति सम्पत्त्या भूपं विधिः इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
शिष बधे
भ्वा०
पर०
सक०
सेट् शेषति अशेषीत्
शिष परिशेषीकरणे वा
चु०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् ।शेषयति ते शेषति अशिशीषत् अशेषीत्
शिष विशेषे रुधा०
पर०
सक०
अनिट् शिनष्टि ऌदितशिषत् शेष्टा
क्षीरतरङ्गिणी
Sanskrit
शिषँ शिष असर्वोपयोगे
- (अर्थविवरणम्) असर्वोपयोगोऽनुपयुक्तत्त्वम्
शेषयति, शेषति विपूर्वोऽतिशये अतिशय उत्कर्षः विशेषयति, विशेषति, व्यशेषीत् रुधादौ शिष्लृ विशेषणे (719) विशिनष्टि, व्यशिषत् 263
धातुवृत्तिः
Sanskrit
शिषँ शिष (अर्थः) असर्वोपयोगे
( शेषयति शेषति शेष्टा ) शिषिम्पिषिमित्यनिट्कारिकासु पाठादनिट्त्त्वम् अत एव लुङ्यशिक्षदिति क्सो भवति लुङ्यडो1ZBAvAxaSERIxiwi देवेनयदुक्तं तदस्यानिट्त्त्वादयुक्तमिति पुरुषकार एव दूषितम् शिनष्टीति विशेषणे श्नमि विपूर्वोऽतिशये ( विशेषयति विशेषति ) 276
कृदन्तरूपमाला
Sanskrit
1 {@“शिष हिंसार्थः”@} 2 ‘शिषोऽसर्वोपयोगे यौ शेषयेत् शेषतीत्युभे।।
लुङ्यभावादङोऽशेषीत् शिनष्टीति विशेषणे।’ 3 इति देवः।
‘शिषिं पिषिं श्लिष्यतिपुष्यती त्विषिम्’ इति व्याघ्रभूतिवचनात् 4 अनिट्त्वं धातोरस्य बोध्यम्।
शेषकः-षिका, शेषकः-षिका, शिशिक्षकः-क्षिका, शेशिषकः-षिका, 5 शिष्पः, 6 शेषः, इत्यादीनि समस्तान्यपि रूपाणि रौधादिकपिनष्टिवत् 7 बोध्यानि।
‘शिष्यति’ ‘तल्लोकं शिंषति’ 8 इत्यादयः प्रयोगाः यथासम्भवं दिवादिषु तुदादिगणेऽवसाने मुचाद्यन्तर्गणे छान्दसत्वेन पठित्वा साधुत्वसम्भावनार्हाः।
अतो तदर्थं तुदादिपाठावश्यकतेति बोध्यम्।
प्रासङ्गिक्यः
01
=>
(१७१२)
02
=>
(१-भ्वादिः-६८७। सक। अनि। पर।)
03
=>
(श्लो। १७८-९)
04
=>
(काशिका ७-२-१०)
05
=>
[[१। “‘खष्पशिष्प--’ (द। उ। ७-७) इति निपातनात् पप्रत्ययः। शिष्पः = कलायोगः” इति माधवः। (द। उ। वृत्तौ ७-७) उपधाया अत्वे शष्पम् = घासः इति दृश्यते।]]
06
=>
[[२। शेषति = हिनस्तीति शेषः = नागः। कर्तरि बाहुलकात् घञ्।]]
07
=>
(१००२)
08
=>
(गोपथब्राह्मणम् ३-८२-२)
1 {@“शिष असर्वोपयोगे”@} 2 ‘शिषोऽसर्वोपयोगे यौ शेषयेत् शेषतीत्युभे।
3 लुङ्यभावादङोऽशेषीत् शिनष्टीति विशेषणे।।’ 4 इति देवः।
विपूर्वोऽयमतिशये वर्तते--यथा--विशेषः।
आधृषीयत्वेन णिजभावपक्षे अनिट्त्वमस्यापि धातोरिति माधवीये स्पष्टम्।
5 शष्पम्।
सर्वाण्यपि रूपाणि यथासम्भवं चेतयतिवत् 6, पूर्वलिखितधातुवच्च स्वयमेवोह्यानि।
आधृषीय- त्वात् णिज्विकल्पः।
प्रासङ्गिक्यः
01
=>
(१७१३)
02
=>
(१०-चुरादिः-१८१८। अक। सेट्। उभ।)
03
=>
[आधृषीयः। [पृष्ठम्१२९८+ २५]
04
=>
(श्लो। १७८-९)
05
=>
[[१। औणादिके (द। उ। ७-७) पप्रत्यये उपधाया अकारे रूपमेवम्। शष्पम् = बालतृणम्।]]
06
=>
(५२२)