| YouTube Channel

शिशेविषकः-षिका (zizeviSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शेवृ सेवने”@} 2 क्षीरस्वामिमैत्रेयादयः एवं पठन्ति।
‘शेवृ--’ इत्यप्येके’ इति माधव- बालमनोरमाकारादयः।
स्वतन्त्रेण नामुं धातुं पठन्ति माधवप्रभृतयः।
‘अयं सोपदेशोऽपि इति न्यासकारादयः 3।
तत् भाष्यविरुद्धम्’ इति बालमनोरमायाम्।
शेवकः-विका, शेवकः-विका, शिशेविषकः-षिका, शेशेवकः-विका
शेविता-त्री, शेवयिता-त्री, शिशेविषिता-त्री, शेशेविता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि केलतिवत् 4 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१७५३)
02
=>
(१-भ्वादिः-५०६। सक। सेट्। पर।)
03
=>
(८-३-७०)
04
=>
(२६२)