| YouTube Channel

शिशर्धिषकः-षिका (zizardhiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शृधु प्रसहने”@} 2 ‘हिक्कादौ शर्धयत्यस्य शृधेः प्रसहने णिचि।।’ 3 इति देवः।
4 “‘शृध अप्रसहने’ अप्रसहनम् = अमर्षः।
‘प्रसहने = अभिभवे इत्येके” इति स्वामी।
उदित्त्वात् णिज्विकल्पः।
‘प्रहसनम् = विद्रवः’ इति गोविन्द- भट्टः इति शब्दकल्पद्रुमे।
‘-- प्रहसने’ इति शाकटायनकाशकृत्सनौ।
‘--प्रहसनम् = अभिभवः’ इति धा।
का।
व्याख्या 5।
शर्धकः-र्धिका, शिशर्धयिषकः-षिका, शर्धकः-र्धिका, शिशर्धिषकः-षिका, शरीशृधकः-धिका
शर्धयिता-त्री, शिशर्धयिषिता-त्री, शर्धिता-त्री, शिशर्धिषिता-त्री, शरीशृधिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकगृध्यतिवत् 6 ऊह्यानि।
निष्ठायाम्-शधितम्, शृद्धम्-शृद्धः, ल्युटि- 7 शर्धनम्, क्त्वायाम्-शर्धित्वा-शृद्ध्वा इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१७५०)
02
=>
(१०-चुरादिः-१७३५। सक। सेट्। उभ।)
03
=>
(श्लो। ११८)
04
=>
[पृष्ठम्१३१४+ ३१]
05
=>
(३-४०)
06
=>
(४२४)
07
=>
[[आ। ‘… तौ शर्धनाय समयातयतां नियुद्धम्।।’ धा। का। ३-४०।]]