| YouTube Channel

शिशरिषिता-शिशरीषिता-शिशीर्षिता-त्री (zizariSitA-zizarISitA-zizIrSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शॄ हिंसायाम्”@} 2 प्वादिः, ल्वादिश्च।
‘श्रॄञ्--’ इति क्षीरस्वामी।
अयं धातुः दैवादिकोऽपि इति प्रयोगात् ऊह्यते।
यथा ‘… विशीर्यन्तीं नावमिव’ 3
‘स्रवत्यनोंकृतं पूर्वं पुरस्ताच्च विशीर्यति।।’ 4 इति।
शारकः-रिका, शारकः-रिका, 5 शिशरिषकः-शिश- रीषकः-शिशीर्षकः-र्षिका, 6 शोशिरकः-रिका
7 शरिता-शरीता-त्री, शारयिता-त्री, शिशरिषिता-शिशरीषिता-शिशीर्षिता-त्री, शेशिरिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि कृणातिवत् 8 ज्ञेयानि।
9 शृणन्, 10 शरः, 11 नीशारः, 12 शरारुः, 13 14 शारुकः, 15 शशृवान्-शशर्वान्, 16 शीर्णिः, 17 विशरणम्-शरणम्, 18 आशरः, 19 पराशरः, 20 किंशारुः, 21 शरुः, 22 शरीरम्, 23 शरत्, 24 परशुः, 25 इति गन्प्रत्ययः, धातोर्ह्रस्वश्च।
शृङ्गम् = विषाणम्।]] शृङ्गम्, 26 निपातनात् शृङ्गारशब्दः साधुः।]] शृङ्गारः, 27 शिशिरः, 28 शर्वः, 29 शर्वा-शर्वरी, 30 शिरीषम्, 31 32 शर्म, 33 शिरः, 34 शारिः-शारिका, 35 शरभः, 36 शरण्यः, इतीमानि धातोरस्माद् भवन्ति।
प्रासङ्गिक्यः
01
=>
(१७५१)
02
=>
(९-क्र्यादिः-१४८८। सक। सेट्। पर।)
03
=>
(म। भा। ३-१५७-१३)
04
=>
(मनुस्मृतिः २-७४)
05
=>
[[१। सन्नन्ते ‘इट् सनि वा’ (७-२-४१) इतीड्विकल्पः। ‘वॄतो वा’ (७-२-३८) इतीटो दीर्घविकल्पः। तेन रूपत्रयं सन्नन्ते सर्वत्र बोध्यम्।]]
06
=>
[[२। यङ्निमित्तकं इत्वम्, अभ्यासे गुणश्च। एवं यङन्ते सर्वत्र बोध्यम्।]]
07
=>
[[३। तृजादिषु सर्वत्र ‘वॄतो वा’ (७-२-३८) इति इटो दीर्घविकल्पः।]]
08
=>
(२५८)
09
=>
[[४। शतरि, श्नाप्रत्यये, ‘प्वादीनाम्--’ (७-३-८०) इति ह्रस्वे, ‘श्नाभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपे, ‘ऋवर्णान्नस्य--’ (वा। ८-४-१) इति णत्वे रूपमेवम्।]]
10
=>
[[५। शीर्यतेऽनेनेति शरः बाणः। ‘ॠदोरप्’ (३-३-५७) इत्यप्प्रत्ययः।]]
11
=>
[[६। ‘शॄ वायुवर्णनिवृतेषु’ (वा। ३-३-२१) इति घञ्। अचोऽपवादः। ‘उपसर्गस्य घञि--’ (६-३-१२२) इति दीर्घः। नीशारः वायुविशेषः। नीशारः = चित्रवर्णः। नीशारः = आवरणम्-यथा-- ‘गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः’ इति। निवृतम् इत्यस्य आवरणमर्थः। निवृत्तमिति वार्तिके क्वाचित्क अपपाठः।]]
12
=>
[[७। ‘शॄवन्द्योः--’ (३-२-१७३) इत्यारुप्रत्ययस्ताच्छीलिकः। शरारुः = हिंसकः।]]
13
=>
[पृष्ठम्१३१५+ २९]
14
=>
[[१। ‘लषपतपदस्थाभूवृषहनकमगमशॄभ्यः--’ (३-२-१५४) इत्युकञ्प्रत्ययस्ताच्छीलिकः। ‘किंशारुकं तीक्ष्णमाहुः’ इति काशिका (३-२-१५४)।]]
15
=>
[[२। क्वसौ ‘शॄदृप्रां--’ (७-४-१२) इति ह्रस्वविकल्पः। ह्रस्वपक्षे शशृवान्, ह्रस्वाभाव- पक्षे शशर्वान् इति रूपम्। केचित् सूत्रमेतत् प्रत्याचक्षते, तेषां मते तु शशर्वान् इत्येकमेव रूपम्। विस्तरस्तु काशिकायां (७-४-१२) द्रष्टव्यः।]]
16
=>
[[३। क्तिनि, ‘ॠत इत्--(७-१-१००) इतीकारः। दीर्घः, ल्वादित्वात् क्तिनस्तकारस्य नकारः, णत्वम्।]]
17
=>
[[४। ल्युटि रूपमेवम्। विशरणम् = विनाशः। ‘शरणं गृहरक्षित्रोः’ इत्यमरः।]]
18
=>
[[५। आशृणातीति आशरः। पचाद्यचि रूपमेवम्।]]
19
=>
[[६। परा शृणातीति पराशरः। अत्रापि पचाद्यच्। पराशरः ऋषिः।]]
20
=>
[[७। किम्शब्द उपपदे औणादिकः (द। उ। १-८९) ञुण् प्रत्ययो भवति। किंशारुः = सस्यशूकम्।]]
21
=>
[[८। ‘शॄस्वृ--’ (द। उ। १-९५) इति उप्रत्ययः। शरुः = क्रोधः।]]
22
=>
[[९। औणादिके (द। उ। ८-७२) ईरन्प्रत्यये रूपमेवम्। शीर्यत इति शरीरम् = देहः।]]
23
=>
[[१०। ‘शॄदॄभसोऽदिः’ (द। उ। ६-४२) इति अदिप्रत्यये रूपमेवम्। शीर्यन्तेऽस्यां गुल्मवनस्पतीनां तेजांसीति शरत् = ऋतुः।]]
24
=>
[[११। परशब्द उपपदे धातोः औणादिके (द। उ। १-११८) कुप्रत्यये रूपमेवम्। परान् शृणातीति परशुः = कुठारः।]]
25
=>
[[१२। ‘शृणातेर्ह्रस्वश्च’ [द। उ। ३-६४]
26
=>
[[१३। तुषारादिषु [द। उ। ८-६९]
27
=>
[[१४। शीर्यन्तेऽस्मिन् तृणगुल्मवनस्पतीनां तेजांसीति शिशिरः = ऋतुविशेषः। ‘अजिर- शिशिर--’ (द। उ। ८-२७) इत्यत्र निपातनात् धातोः द्विर्वचनम्, सन्वद्भावः, ऋवर्णलोपः, इत्वं च।]]
28
=>
[[१५। औणादिके वन्प्रत्यये शर्वः। शृणातीति शर्वः = शिवः।]]
29
=>
[[१६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति वनिप्प्रत्यये रूपमेवम्। स्त्रियाम् ‘वनो च’ (४-१-७) इति ङीब्रेफौ। शर्वरी = रात्रिः।]]
30
=>
[[१७। ‘शॄपॄभ्यां--’ (द। उ। ९-१०) इति ईषन्प्रत्ययः। प्रत्ययस्य कित्त्वात् इत्वम्। शिरीषम् = वृक्षविशेषः।]]
31
=>
[पृष्ठम्१३१६+ २८]
32
=>
[[१। शृणाति दुःखम् इति शर्म। औणादिके (द। उ। ६-७३) मनिन्प्रत्यये रूपमेवम्।]]
33
=>
[[२। शृणातेरौणादिकेऽसुन्प्रत्यये, प्रत्ययस्य कित्त्वे रूपमेवम्। शिरः मूर्धा।]]
34
=>
[[३। ‘शरः शकुनौ’ (द। उ। १-५६) इति इञ्प्रत्यये, वृद्धौ रूपम्। शारिः शकुनिविशेषः। शारिरेव शारिका। शकुनिभिन्ने तु शरिः शूलम्।]]
35
=>
[[४। ‘कॄगॄशॄ--’ (द। उ। ७-१८) इति अभच्प्रत्यये रूपमेवम्। शरभः हिंस्रः। शरभमूर्तिः इति ख्यातः।]]
36
=>
[[५। औणादिके (द। उ। ८। ८) अन्यप्रत्यये णत्वे रूपमेवम्। शृणात्यर्थिनो भयमिति शरण्यः = आर्त्तिहरः।]]