| YouTube Channel

शिशत्सिता-त्री (zizatsitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शदॢ शातने”@} 2 ज्वलादिः।
‘-- अवशातने’ इति जैनः।
शातनम्-तनूकरणमिति क्षीरस्वामी।
‘-- शातनम्-तीक्ष्णीभावः।
विशीर्णतायामित्येके।
3 गतावप्यस्ति’ इति धा।
का।
व्याख्यायाम् 4।
“‘-- विशातने’ विशीर्णतायां वर्तते, शातनं-विषयभावेन निर्दिश्यते प्रसिद्धत्वात्” इति मैत्रेयः-इति मा।
धा।
वृत्तिः।
शादकः-दिका, शादकः-दिका, पुष्पाणां 5 शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः-दिका
शत्ता-शत्री, शादयिता-शातयिता-त्री, शिशत्सिता-त्री, शाशदिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगत्यर्थकपतॢ 6 धातुवत् ऊह्यानि।
7 शादः, शदः, शाद्वलम्, 8 शद्रुः, 9 शत्रुः।
10 शीयमानः।
प्रासङ्गिक्यः
01
=>
(१६८१)
02
=>
(१-भ्वादिः-८५५। सक। अनि। पर।)
03
=>
[[२। ‘शदेरगतौ तः’ (७-३-४२) इति गतिभिन्नार्थे तकारविधानाज्ज्ञाप्यते, धातोरस्य गतिरप्यर्थ इति।]]
04
=>
(२-२४)
05
=>
[[३। णिजन्ते सर्वत्र ‘शदेरगतौ तः’ (७-३-४२) इति दकारस्य तकारः। गत्यर्थकत्वे तु ‘गाः शादयन् गोपालकः’ इत्यादिप्रयोगे तकारः। ‘पुष्पाणि शातयन्’ इत्यादिषु तु भवत्येव। एवं सर्वत्र ज्ञेयम्।]]
06
=>
(९६८)
07
=>
[[४। संज्ञायां घञ्। शादः = तृणविशेषः। शद इति तु आयुधविशेषः। संज्ञायामत्र घः। शाद्वलम् इति तु शादाः सन्त्यस्मिन् देशे इत्यर्थे ‘नडशादाद् ड्वलच्’ (४-२-८८) इति मत्वर्थीयो ड्वलच्प्रत्ययः। प्रत्ययस्य डित्त्वात् टिलोपः।]]
08
=>
[पृष्ठम्१२८५+ २८]
09
=>
[[२। शातयतीति शत्रुः = अरिः। णिजन्तात् गतिभिन्नार्थे तकारान्तात् धातोः ‘रुशदिभ्यां त्रुन्’ (द। उ। १-१५९) इति त्रुन्प्रत्ययः
\n\n बाहुलकात् णेर्लोपः, वृद्ध्य- भावश्च। प्रत्ययलक्षणेन णिजाश्रिता वृद्धिः
\n\n इत्यादिकमूह्यम्।]]
10
=>
[[३। ‘शदेः शितः’ (१-३-६०) इति आत्मनेपदम्। शिद्भावी यः शदिधातुः तङं लभते इति निष्कृष्टोऽर्थः। विस्तरस्तु न्यासपदमञ्जर्योर्द्रष्टव्यः। ‘पाघ्राघ्मास्था- म्नादाण्दृश्यर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः’ (७-३-७८) इति शिति प्रत्यये परे प्रकृतेः ‘शीय’ इति सर्वादेशः। एवञ्चास्य धातोः शता नेति अवधेयम्।]]