| YouTube Channel

शिशण्डिषिता-त्री (zizaNDiSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शडि रुजायां संघाते च”@} 2 ‘-- हिंसागत्योः’ इति काशकृत्स्नः।
किंच भ्वादौ इत उत्तरत्र ‘-- रुजायाम्’ इति पृथक् धातुत्वेन पठितः।
शण्डकः-ण्डिका, शण्डकः-ण्डिका, शिशण्डिषकः-षिका, शाशण्डकः-ण्डिका
शण्डिता-त्री, शण्डयिता-त्री, शिशण्डिषिता-त्री, शाशण्डिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककण्ठतिवत् 3 ऊह्यानि।
शण्डः- असुरपुरोहितः, शण्डिलः, ल्युटि 4 शण्डनम्।
इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६७९)
02
=>
(१-भ्वादिः-२७९। सक। सेट्। आत्म।)
03
=>
(१४९)
04
=>
[[B। ‘अभुण्डितोच्चण्डगतीनशण्डनान्…।’ धा। का। १-३७]]