| YouTube Channel

शिविरं (ziviraM)

 
Apte 1890
English
शिबि(वि)रं 1 A camp
धृष्ट्रद्युम्नः स्वशिबिरमयं याति सर्वे सहध्वं Ve. 3. 18
Śi. 5. 68.
2 A royal camp or residence.
3 An intrenchment for the protection of an army.
4 A kind of grain.
शब्दकल्पद्रुमः
Sanskrit
शिविरं,
क्ली,
(शेरते राजबलान्यत्र शीङ स्वप्ने +बाहुलकात् किरच्प्रत्ययेन साधु इत्युणादि-वृत्तौ उज्ज्वलदत्तः ५४ ।) निवेशः इत्य-मरः
द्वे आगन्तुकसैन्यवासे कटके इत्यन्ये ।नृपस्य मूलस्थाने इत्येके इति भरतः
“शिविरन्तु निवेशे क्लीवन्तु युद्धवेश्मनि
”इत्युणादिकोषः
*
अथ शिविरलक्षणम् ।श्रीभगवानुवाच ।“शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम् ।युक्तद्वादशद्वारञ्च सिंहद्वारपुरस्कृतम्
युक्तं चित्रैव्विचित्रैश्च कृत्रिमैश्च कपाटकैः ।निषिद्धवृक्षरहितं प्रसिद्धेश्च पुरस्कृतम् ।सुलक्षणं चन्द्रवेधं प्राङ्गणञ्च तथैव
”तत्र विहितनिषिद्धकाष्ठे यथा, --विश्वकारुरुवाच ।“कस्य कस्य तरोः काष्ठं प्रशस्तं शिविरे प्रभो ।अमङ्गलञ्च केषां वा सर्व्वं मां वक्तुमर्हसि
श्रीभगवानुवाच ।आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः ।शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः
सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।रसालवृक्षः पूर्व्वस्मिन् नृणां सम्पत्प्रदस्तथा
शुभप्रदश्च सर्व्वत्र सुरकारो निशामय ।विल्वश्च पनसश्चैव जम्बोरो वदरी तथा
प्रजाप्रदञ्च पूर्व्वस्मिन् दक्षिणे धनदस्तथा ।सम्पत्प्रदश्च सर्व्वत्र यतो हि वर्द्धते गृही
जम्बु वृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ।बन्धुप्रदश्च पूर्व्वस्मिन् दक्षिणे मित्रदस्तथा
सर्व्वत्र शुभदश्चैव धनपुत्त्रशुभप्रदः ।हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा
ईशाने सुखदश्चैव सर्व्वत्रैवं निशामय ।सर्व्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा
अलावुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः ।खर्ज्जूरी कर्कटी चापि शिविरे मङ्गलप्रदाः
वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदाः ।लताफलञ्च शुभदं सर्वं सर्वत्र निश्चितम्
*
प्रशस्तं कथितं कारो निसिद्धञ्च निशामय ।वन्यवृक्षो निषिद्धश्च शिविरे नगरेऽपि
वटो निसिद्धः शिविरे नित्यं चौरभयं ततः ।नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा
हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्ज्जय ।शरेण धनहानिः स्यात् प्रजाहानिर्भवेत् ध्रुवम्
शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव ।न निषिद्धः प्रषिद्धश्च नगरेषु तथा पुरे
वाट्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्ज्जयेत् ।खर्ज्जूरश्च डहुश्चैव निषिद्धः शिविरे तथा
निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु ।वृक्षश्च चनकादीनां धान्यञ्च मङ्गलप्रदम्
ग्रामेषु नगरे चापि शिविरे तथैव ।इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।कच्ची हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा
हरीतकी शुभदा ग्रामेषु नगरेषु
वाट्यां भद्रदा नित्यं तथा चामलकी ध्रुवम्
गजानामस्थि शुभदमश्वानाञ्च तथैव ।कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम्
शुभप्रदमन्ये षामुच्छन्नकारणं परम् ।वानराणां नराणाञ्च गर्द्दभानां गवामपि
कुक्कुराणां शृगालानां मार्ज्जाराणामभद्रकम् ।भेटकानां शूकरानां सर्व्वेषाञ्चाशुभप्रदम्
ईशाने चापि पूर्व्वस्मिन् पश्चिमे तथोत्तरे ।शिविरस्य जलं भद्रमन्यत्राशुभमेव
*
दीर्घे प्रस्थे समानञ्च कुर्य्यान्मन्दिरं बुधः ।चतुरस्रे गृहे कारो गृहिणां धननाशनम्
दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् ।शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम्
प्रस्थे हस्तद्वयात् पूर्व्वं दीर्घे हस्तत्रयं तथा ।गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य ।न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम्
चतुरस्रं चन्द्रवेधं शिविरं मङ्गलप्रदम् ।अभद्रं सूर्य्यवेधञ्च शिविरं मङ्गलाप्रदम् ।अभद्रदं सूर्य्यवेधं प्राङ्गनञ्च तथैव
शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाधनपुत्त्रप्रदात्री पुण्यदा हरिभक्तिदा
प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ।मालती यूथिका कुन्दमाधवी केतकी तथा
नागेश्वरं मल्लिका काञ्चनं वकुलं शुभम् ।अपराजिता सुभदा तेषामुद्यानमीप्सितम्
पूर्व्वे दक्षिणे चैव शुभदं नात्र संशयः ।ऊर्द्ध्वं षोडशहस्तेभ्यो नैवं कुर्य्याद्गृहं गृही
ऊर्द्ध्वं विंशति हस्तेभ्यः प्राकारं शुभप्रदम् ।सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम्
वाटीमूले ग्राममध्ये कुर्य्यात् स्थापनं बुधः ।ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम्
भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके
*प्रस्थे परिखामानं शतहस्तं प्रशस्तकम् ।परितः शिविराणाञ्च गम्भीरं दशहस्तकम्
सङ्केतपूर्वकञ्चैव परिखाद्वारमीप्सितम् ।शत्रीरगम्यं मित्रस्य गम्यमेव सुखेन
शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैवच ।निम्बानां सिन्धूवाराणां उडम्बराणामभद्रकम्
धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम् ।एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम्
वृक्षञ्च वज्रहतकं दूरतो वर्जयेद्बुधः ।पुत्त्रदारधनं हन्यादित्याह कमलोद्भवः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः