शिविर (zivira)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiशिविरम्
- "शेरते राजबलानि अत्र - शी + किरच्, बुकागमः, ह्रस्वः"
तंबू
शिविरम्
- "शेरते राजबलानि अत्र - शी + किरच्, बुकागमः, ह्रस्वः"
"राजकीय तंबू, या ख़ेमा"
शिविरम्
- "शेरते राजबलानि अत्र - शी + किरच्, बुकागमः, ह्रस्वः"
सेना की रक्षा के लिए अकाट्य निवेश
शिविरम्
- "शेरते राजबलानि अत्र - शी + किरच्, बुकागमः, ह्रस्वः"
एक प्रकार का अन्न
L R Vaidya
Englishअभिधानरत्नमाला
Sanskritनिवेश
निवेश, शिविर
यात्रा प्रयाणं प्रस्थानं निवेशः शिविरं स्मृतम् ।
verse 2.1.1.452
page 0052
शब्दकल्पद्रुमः
Sanskritशिविरं, (शेरते राजबलान्यत्र । शीङ स्वप्ने +बाहुलकात् किरच्प्रत्ययेन साधु । इत्युणादि-वृत्तौ उज्ज्वलदत्तः । १ । ५४ ।) निवेशः । इत्य-मरः ॥
द्वे आगन्तुकसैन्यवासे । कटके इत्यन्ये ।नृपस्य मूलस्थाने इत्येके । इति भरतः ॥
“शिविरन्तु निवेशे च क्लीवन्तु युद्धवेश्मनि ॥
”इत्युणादिकोषः ॥
* ॥
अथ शिविरलक्षणम् ।श्रीभगवानुवाच ।“शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम् ।युक्तद्वादशद्वारञ्च सिंहद्वारपुरस्कृतम् ॥
युक्तं चित्रैव्विचित्रैश्च कृत्रिमैश्च कपाटकैः ।निषिद्धवृक्षरहितं प्रसिद्धेश्च पुरस्कृतम् ।सुलक्षणं चन्द्रवेधं प्राङ्गणञ्च तथैव च ॥
”तत्र विहितनिषिद्धकाष्ठे यथा, --विश्वकारुरुवाच ।“कस्य कस्य तरोः काष्ठं प्रशस्तं शिविरे प्रभो ।अमङ्गलञ्च केषां वा सर्व्वं मां वक्तुमर्हसि ॥
श्रीभगवानुवाच ।आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः ।शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः ॥
सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।रसालवृक्षः पूर्व्वस्मिन् नृणां सम्पत्प्रदस्तथा ॥
शुभप्रदश्च सर्व्वत्र सुरकारो निशामय ।विल्वश्च पनसश्चैव जम्बोरो वदरी तथा ॥
प्रजाप्रदञ्च पूर्व्वस्मिन् दक्षिणे धनदस्तथा ।सम्पत्प्रदश्च सर्व्वत्र यतो हि वर्द्धते गृही ॥
जम्बु वृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ।बन्धुप्रदश्च पूर्व्वस्मिन् दक्षिणे मित्रदस्तथा ॥
सर्व्वत्र शुभदश्चैव धनपुत्त्रशुभप्रदः ।हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ॥
ईशाने सुखदश्चैव सर्व्वत्रैवं निशामय ।सर्व्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ॥
अलावुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः ।खर्ज्जूरी कर्कटी चापि शिविरे मङ्गलप्रदाः ॥
वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदाः ।लताफलञ्च शुभदं सर्वं सर्वत्र निश्चितम् ॥
* ॥
प्रशस्तं कथितं कारो निसिद्धञ्च निशामय ।वन्यवृक्षो निषिद्धश्च शिविरे नगरेऽपि च ॥
वटो निसिद्धः शिविरे नित्यं चौरभयं ततः ।नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा ॥
हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्ज्जय ।शरेण धनहानिः स्यात् प्रजाहानिर्भवेत् ध्रुवम् ॥
शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च ।न निषिद्धः प्रषिद्धश्च नगरेषु तथा पुरे ॥
वाट्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्ज्जयेत् ।खर्ज्जूरश्च डहुश्चैव निषिद्धः शिविरे तथा ॥
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।वृक्षश्च चनकादीनां धान्यञ्च मङ्गलप्रदम् ॥
ग्रामेषु नगरे चापि शिविरे च तथैव च ।इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ॥
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।कच्ची हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा ॥
हरीतकी च शुभदा ग्रामेषु नगरेषु च ॥
न वाट्यां भद्रदा नित्यं तथा चामलकी ध्रुवम् ॥
गजानामस्थि शुभदमश्वानाञ्च तथैव च ।कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम् ॥
न शुभप्रदमन्ये षामुच्छन्नकारणं परम् ।वानराणां नराणाञ्च गर्द्दभानां गवामपि ॥
कुक्कुराणां शृगालानां मार्ज्जाराणामभद्रकम् ।भेटकानां शूकरानां सर्व्वेषाञ्चाशुभप्रदम् ॥
ईशाने चापि पूर्व्वस्मिन् पश्चिमे च तथोत्तरे ।शिविरस्य जलं भद्रमन्यत्राशुभमेव च ॥
* ॥
दीर्घे प्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः ।चतुरस्रे गृहे कारो गृहिणां धननाशनम् ॥
दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् ।शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम् ॥
प्रस्थे हस्तद्वयात् पूर्व्वं दीर्घे हस्तत्रयं तथा ।गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च ।न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम् ॥
चतुरस्रं चन्द्रवेधं शिविरं मङ्गलप्रदम् ।अभद्रं सूर्य्यवेधञ्च शिविरं मङ्गलाप्रदम् ।अभद्रदं सूर्य्यवेधं प्राङ्गनञ्च तथैव च ॥
शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाधनपुत्त्रप्रदात्री च पुण्यदा हरिभक्तिदा ॥
प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ।मालती यूथिका कुन्दमाधवी केतकी तथा ॥
नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् ।अपराजिता च सुभदा तेषामुद्यानमीप्सितम् ॥
पूर्व्वे च दक्षिणे चैव शुभदं नात्र संशयः ।ऊर्द्ध्वं षोडशहस्तेभ्यो नैवं कुर्य्याद्गृहं गृही ॥
ऊर्द्ध्वं विंशति हस्तेभ्यः प्राकारं न शुभप्रदम् ।सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् ॥
वाटीमूले ग्राममध्ये न कुर्य्यात् स्थापनं बुधः ।ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् ॥
भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥
*प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् ।परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥
सङ्केतपूर्वकञ्चैव परिखाद्वारमीप्सितम् ।शत्रीरगम्यं मित्रस्य गम्यमेव सुखेन च ॥
शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैवच ।निम्बानां सिन्धूवाराणां उडम्बराणामभद्रकम् ॥
धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम् ।एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम् ॥
वृक्षञ्च वज्रहतकं दूरतो वर्जयेद्बुधः ।पुत्त्रदारधनं हन्यादित्याह कमलोद्भवः ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः
वाचस्पत्यम्
Sanskritशिविर शो + किरच् वुक् च । कटके सैन्यनिवासस्थाने ।शिविरलक्षणमुक्तं यथा“शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम् । युक्तद्वादश-द्वारञ्च सिंहद्वारपुरस्कृतम् । युक्तं चित्रैर्विचित्रैश्चकृत्रिमैश्च कपाटकैः । निषिद्धवृक्षरहितं प्रसिद्धैश्चपुरस्कृतम् । सुलक्षणं चन्द्रवेधं प्राङ्गिणञ्च तथैव च” ।तत्र विहितनिषिद्धवृक्षादि यथा “आश्रमे नारिकेलश्चगृहिणाञ्च धनप्रदः । शिविरस्य यदीशाने पूर्वे पुत्र-प्रदस्तरुः । सर्वत्र मङ्गलार्हश्च तरुराजी मनोहरः ।रसालवृक्षः पूर्वस्मिन्नृणां सम्पत्प्रदस्तथा । शुभ-प्रदश्च सर्वत्र सुरकारो! निशामय । बिल्वश्च पन-सश्चैव जम्बीरो बदरी तथा । प्रजाप्रदश्च पूर्वस्मिन्दक्षिणे धनकस्तथा । सम्पत्प्रदश्च सर्वत्र यतो हि वर्द्धतेगृही । जम्बुवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ।बन्धुपदश्च पूर्वस्मिन् दक्षिणे मित्रदस्तथा । सर्वत्र शुभ-दश्चैव धनपुत्रशुभप्रदः । हर्षप्रदो गुवाकश्च दक्षिणेपश्चिमे तथा । ईशाने सुखदश्चैव सर्वत्रैव निशामय ।सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा । अलाबुश्चापिकुष्माण्डं मायाम्बुश्च सुकामुकः । खर्जुरी कर्कटीचापि शिविरे मङ्गलप्रदाः । वास्तूकः कारवेल्लश्च वार्त्ता-कुश्च शुभप्रदाः ॥
लताफद्धञ्च शुभदं सर्वं सर्वत्र निश्चि-तम् । प्रशस्तं कथितं कारो! निषिद्धञ्च निशामय ।वन्यवृक्षा निषिद्धश्च शिविरे नगरेऽपि च । वटो निषिद्धःशिविरे नित्यं चौरभयं ततः । नगरेषु प्रसिद्धश्च दर्श-नात् पुण्यदस्तथा । हे कारो! तिन्तिडीवृक्षो यत्नात्तंपरिवर्जय । शरेण धनहानिः स्यात् प्रजाहानिर्भवेत्ध्रुवम् । शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च । ननिषिद्धः प्रसिद्धश्च ग्रामेषु नगरषु च । वृक्षश्च चणका-दीनां धान्यञ्च मङ्गलप्रदम । ग्रामेषु नगरे चापिशिविरे च तथैव । इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ।अशाकश्च शिरीषश्च कदम्बश्च शुभप्रदाः । । कच्ची हरिद्राशुभदा शुभदश्चार्द्रकस्तथा । हरीतकी च शुभदा ग्रा-मेषु नगरेषु च । न वाठ्यां भद्रदा नित्यं तथा चाम-लकी ध्रुवम् । गजानामस्थि शुभदमश्वानाञ्च तथैव च ।कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम् । नशुभप्रदमन्येषामुच्छन्नकारणं परम् । वानराणां नरा-णाञ्च गर्दभानां गवामपि । कुक्कुराणां शृगालानांमार्ज्जाराणामभद्रकम् । भेटकानां शूकराणां सर्वेषाञ्चाशुभप्रदम् । ईशाने चापि पूर्वस्मिन् पश्चिमे च तथोत्तरे ।शिविरस्य जलं भद्रमन्यत्राशुभमेव च । दीर्घे प्रस्थेसमानञ्च न कुर्य्यान्मन्दिरं बुधः । चतुरस्रे गृहे कारो!गृहिणां धननाशनम् । दीर्घप्रस्थः परिमितो नेत्राङ्के-नापि संहृतः । शून्येन रहितं भद्रं शून्यं शून्यप्रदंनृणाम । प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयं तथा ।गृहिर्णा शुभदं द्वारं प्राकारस्य गृहस्य च । न मध्य-देशे कर्त्तव्य किञ्चिन्न्यूनाधिके शुभम् । चतुरस्रं चन्द्र-वेधं शिविरं मङ्गलप्रदम् । अभद्रं सूर्य्यवेधञ्च प्राङ्गणञ्चतथैव च । शिविराभ्यन्तरे भद्रा स्थापिता तुलसीनृणाम् । धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा ।प्रभात तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् । मालतीयूथिका कुन्दोमाधवी केतकी तथा । नागेश्वरं मल्लिकाच काञ्चनं वकुलं शुभम् । अपराजिता च शुभदा तेषा-मुद्यानमीप्सितम् । पूर्वे च दक्षिणे चैव शुभदं नात्र-संशयः । ऊर्द्ध्वं षोडशहस्तभ्यो नैवं कुर्य्याद् गृहंगृही । ऊर्द्ध्वं विशतिहस्तेभ्यः प्राकारं न शुभ-प्रदम् । सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् ।वाटीमूले ग्राममध्ये न कुर्य्यात् स्थायिनं बुधः । ब्राह्मणंक्षत्रियं वैश्यं सच्छूद्रं गणकं शुभम् । भट्टं वैद्यं पुष्प-कारं स्थापयेत् शिविरान्तिके! प्रस्थे च परिखामानंशतहस्तं प्रशस्तकम् । परितः शिविराणाञ्च गम्भीरंदशहस्तकम् । सङ्केतपूर्वकञ्चैव परिस्वाद्वारमीप्सितम् ।शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च । शाल्मलीनांतिन्तिडीनां हिन्तालानां तथैव च । निम्बानां सिन्धु-वाराणां उडम्बराणामभद्रकम् । धुस्तूराणां वटानाञ्चा-प्येरण्डानामवाञ्छितम् । एतेषामतिरिक्तानां शिविरेकाष्ठमीप्सितम् । वृक्षञ्च वज्रहेतकं दूरतो वर्जयेद्बुधः । पुत्रदारधनं हन्यादित्याह कसलोद्भवः” ब्रह्म-वै० ख० १०२ अ० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
