शिविः (ziviH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishशिविः [śiviḥ], 1 A beast of prey.
The birch tree.
Apte 1890
EnglishApte Hindi
Hindiशिविः
- शि + वि
शिकारी जानवर
शिविः
- शि + वि
भूर्जवृक्ष
शिविः
ब* व* - -
एक देश का नाम
शिविः
- -
एक राजा का नाम
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritशिविः, हिंस्रपशुः । इति त्रिकाण्डशेषः ॥
भूर्ज्जवृक्षः । राजविशेषः । स च उशीनरराज-पुत्त्रः । इति मेदिनी ॥
तस्य चरित्रं यथा, --मैत्रेय उवाच ।“शृणु राजन् ! प्रवक्ष्यामि स्वमांसं शिविना यथासमांशं दत्त्ववान् सत्यं पुरा ह्यौशीनरो युवा ॥
सत्यदानरतं ज्ञात्वा शिविमिन्द्राशुशुक्षणी ।जिज्ञासार्थं समेयातां वर्त्तमाने महाध्वरे ॥
वह्निर्भुत्वा कपोतस्तु हरिश्येनपुरःसरः ।शरणार्थो महीपालं निनिन्ये भयविह्वलः ॥
त्राहि मां पृथिवीपालेत्यवदत् श्येनजाद्भयात् ।स तमाश्वासयामास कपोतं शरणागतम् ॥
राजानमुपगम्याथ श्येनः प्रोवाच संसदि ।वचनं शृणु मे राजन् ! क्षुधार्त्तस्य कुटुम्बिनः ॥
धर्म्मात्मानं त्वामाहुर्वै पृथिव्यां सर्व्वपार्थिवाः ।तद्विरुद्धं कथं कर्म्म कर्त्तुमिच्छसि पार्थिव ॥
सर्व्वस्य सम्पदः स्वार्थाः स्वपरार्थास्तु कस्यचित् ।परार्था भवतो नित्यं सफलस्य तरोरिव ॥
नोपकारपरेऽप्ये वमुपकारपरो जनः ।अपकारपरेऽपि त्वमुपकारपरः सदा ॥
ममैव विहितो धात्रा भक्ष्योऽयं त्वं समुत्सृज ।स श्येनमाह संप्राप्तस्त्राणार्थो सन्निधा मम ॥
तस्मात्तवाहं न समर्पयिष्येकपोतकं श्येन यदत्र युक्तम् ।त्वं मन्यसे तत् करवाणि सर्व्व-मृते कपोतात् खलु सत्यमत्र ॥
तुभ्यं हि सुमहद्राज्यं प्रयच्छामि विहङ्गम ।यथा कामयसे चान्यद्वर्ज्जयित्वा कपोतकम् ॥
श्येनः प्राह किमेतत्ते प्रीतिरासीत् खगे दृढा ।कथञ्चिदस्य तुल्यानि स्वमांसानि प्रयच्छ मे ॥
राजा तमब्रवीद्धृष्टो यन्मे मांसानि याचसे ।एतद्यच्छामि ते सद्यः स्वमांसं तुलया धृतम् ॥
एवमुक्त्वा स्वमांसानि कपोतेन समं नृपः ।उत्कृत्य तोलयामास प्रहृष्टो मनसा ततः ॥
तुलया ध्रियमाणस्तु कपोतो व्यतिरिच्यते ।पुनश्चोत्कृत्य मांसानि ततः प्रादात् स पार्थिवःन विद्यते यदा मांसं कपोतेन समं क्वचित् ।ततः प्रक्षीणमांसोऽपि साधुः सुखयते परम् ॥
यदा तेन न तुल्यं तत् स तुलामारुहत् स्वयम् ।अन्तःपुरस्त्रीषु न राज्ये न च जीविते ॥
करुणासक्तचित्तेन तेनापेक्षा कृता क्वचित् ।परदुःखातुरा नित्यं स्वसुखानि महन्त्यपि ॥
नापेक्षन्ते महात्मानः सर्व्वभूतहिते रताः ।पराथमुद्यताः सन्तः सन्तः किं किं न कुर्वते ॥
तादृगप्यम्बुधेर्व्वारि जलदैस्तत् प्रपीयते ।एक एव सतां मार्गो यदङ्गीकृतपालनम् ॥
दहन्तमकरोत् क्रोडे पावकं यदपां पतिः ।आत्मानं पीडयित्वापि साधुः सुखयते परम् ॥
ह्लादयन् तापितान् वृक्षो दुःखञ्च सहते स्वयम्अथ तस्मिन् समारूढे पुष्पवर्षं पपात च ॥
देवदुन्दुभयो नेदुस्तुलामौशीनरे नृपे ।ततस्तस्य तदा ज्ञात्वा वाक्यं चैतदभाषत ॥
शक्रः स्वरूपमास्थाय धर्म्मे राज्ञः परिस्थितिम् ।इन्द्रोऽहमस्मि भद्रं ते कपोतो हव्यवाहनः ॥
जिज्ञासमानौ त्वां राजन्निमं यज्ञमुपागतौ ।महाकारुणिकेनेह यत् कृतं तत् सुदुष्करम् ॥
नैव पूर्व्वे नृपाश्चक्रुनं करिष्यन्ति चापरे ।यत्ते मांसानि गात्रेभ्यः समुत्कृत्तानि पार्थिव ॥
एषा ते शाश्वती कीर्त्तिर्लोकाननुभविष्यति ।दिष्यरूपधरश्चैव पालयित्वा महीं चिरम् ॥
सर्व्वान् लोकानतिक्रम्य ब्रह्मलोकं गमिष्यति ।एव मुक्त्वा तमिन्द्राग्नी जग्मतुस्त्रिदशालयम् ।राजा तु क्रतुमिष्टा तं मुमुदे देवतां तदा ॥
”इति वह्निपुराणे शिवेरुपाख्याननामाध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
