| YouTube Channel

शिवावलिः (zivAvaliH)

 
शब्दकल्पद्रुमः
Sanskrit
शिवा(ब)वलिः,
पुं,
(शिवाभ्यो दीयमानो वलिः ।)रात्रौ शिवादेयमांसप्रधाननैवेद्यम् यथा ।अथ शिवावलिः कुलचूडामणौ ।“विल्वमूले प्रान्तरे वा श्मशाने वापि साधकःमांसप्रधाननैवेद्यं सन्ध्याकाले निवेदयेत्
कालि कालीति वक्तव्ये तत्रोमा शिवरूपिणी ।पशुरूपधरायाति परिवारगणैः सह
भुक्त्वा रौति यदैश्यान्यां मुखमुत्तोल्य सुस्वरम् ।तदैव मङ्गलं तस्य नान्यथाकुल भूषण
अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् ।नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम्
तथैव कुलसेव्यानां नित्यता कुलपूजने ।पशुरुपां शिवां देवीं यो नार्च्चयति निर्ज्जने
शिवारावेण तस्याशु सर्व्वं नश्यति निश्चितम् ।जपपूजाविधानानि यत्किञ्चित् सुकृतानि
गृहीत्वा शापं दत्त्वा शिवा रोदिति निर्ज्जने ।एकया भुज्यते यत्र शिवया देव भैरव
तत्रैव सर्व्व शक्तीनां प्रीतिः परमदुर्ल्लभा ।पशुशक्तिः पक्षिशक्तिर्नरशक्तिर्यथाक्रमात्
पूजनात् द्विगुणं कर्म्म मङ्गलं साधयेत्ततः ।तेन सर्व्व प्रयत्नेन कर्त्तव्यं पूजनं महत्
*
राजादिभयमापन्ने देशान्तरभयादिके ।शुभाशुभानि कर्म्माणि विचिन्त्य बलिमाहरेत्
गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि ।शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव
एवमुच्चार्य्य दातव्यो वलिः कुलजनप्रियः ।यदि भुज्यते वत्स तदा नैव शुभं भवेत्
शुभं यदि भवेत्तत्र भुज्यते तदशेषतः ।एवं ज्ञात्वा महादेव शान्तिस्वस्त्ययनं चरेत्
नैवेद्योपरि मूलमन्त्रमष्टोत्तरशतं जप्त्वा वलिंदद्यादिति शेषः
इति तन्त्रसारः