शिवलिङ्गं (zivaliGgaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritशिवलिङ्गं, (शिवस्य लिङ्गम् ।) महादेवस्यशेफः । तस्योत्पत्तिर्यथा, --“तत्रापि गत्वा मदनो ददर्श वृषकेतनम् ।दृष्ट्वा प्रहर्त्तुकामोऽस्य ततः स प्राद्रवद्धरः ॥
ततो दारुवनं घोरं मदनाभिसृतो हरः ।विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः ॥
ते चापि ऋषयः सर्व्वे दृष्ट्वा मूर्ध्ना नताभवन् ।ततस्तान् प्राह भगवान् भिक्षां मे प्रतिदीयताम्ततस्ते मौनिनस्तस्थुः सर्व्व एव महर्षयः ।तदाश्रमाणि पुण्यानि परिचक्राम नारद ! ॥
तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः ।प्रक्षोभमगमन् सर्व्वा हीनसत्त्वाः समन्ततः ॥
ऋते त्वरुन्धतीमेनामनसूयाञ्च भाविनीम् ।एताभ्यां भर्त्तृपूजासु कृतं वै सुस्थिरं मनः ॥
ततः संक्षुभिताः सर्व्वा यत्र याति महेश्वरः ।तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः ॥
त्यक्त्वाश्रमाणि शून्यानि खानि ता मुनियोषितः ।अनुजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम् ॥
ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने ।क्रोधान्विताब्रुवन् सर्व्वे लिङ्गोऽस्य पततां भुविततः पपात देवस्य लिङ्गं पृथ्वीं विदारयत् ।अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः ॥
ततस्तत्पतितं लिङ्गं विभिद्य वसुधातलम् ।रसातलं विवेशाशु ब्रह्माण्डं चोर्द्ध्वतोऽभिनत् ॥
ततश्चचाल पृथिवी गिरयः सरितो नगाः ।पातालभुवनाः सर्व्वे जङ्गमाजङ्गमाः स्थिताः ॥
संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पिता-महः ।जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम् ॥
तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः ।उवाच देव भुवनाः किमर्थं क्षुभिता विभो ॥
अथोवाच हरिर्ब्रह्मन् शार्व्वं लिङ्ग महर्षिभिः ।पातितन्तस्य भारार्त्ता सञ्चचाल वसुन्धरा ॥
ततस्तदद्भुतमयं श्रुत्वा देवः पितामहः ।तत्र गच्छामि देवेश एवमाह पुनः पुनः ॥
ततः पितामहो देवः केशवश्च जगत्पतिः ।आजगाम तमुद्देशं यत्र लिङ्गं भवस्य तत् ॥
ततोऽनन्तं हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम् ।पातालं प्रविवेशाथ विस्मयात्त्वरितो विभुः ॥
ब्रह्मा पद्मविमानेन ऊर्द्ध्वमाक्रम्य सर्व्वगः ।नैवान्तमलभद्ब्रह्मा विस्मितः पुनरागतः ॥
विष्णुर्गत्वाथ पातालं सप्तलोकपरायणः ।चक्रपाणिर्विनिष्क्रान्तो लेभेऽन्तं न महामुने ॥
विष्णुं पितामहश्चाह हरिर्ब्रह्माणमाह च ।नमोऽस्तु ते शूलपाणे नमोऽस्तु वृषभध्वज ।जीमूतवाहन कवे सर्व्वत्र्यम्बक शङ्कर ॥
महेश्वर हरेशान सुवर्णाक्ष वृषाकपे ।दक्षयज्ञक्षयकर काल रुद्र नमोऽस्तु ते ॥
त्वमादिरस्य जगतस्त्वं मध्यं परमेश्वरः ।भवानन्तश्च भगवान् सर्व्वगस्त्वं नमोऽस्तु ते ॥
पुलस्त्य उवाच ।एवं संस्तूयमानस्तु तस्मिन् दारुवने हरः ।सुरूपी ताविदं वाक्यमुवाच वदतां वरः ॥
हर उवाच ।किमर्थं देवतानाथौ परिभूतक्रमन्त्विह ।मां स्तुवाते भृशासुस्थं कामतापितविग्रहम् ॥
देवावूचतुः ।तवाङ्गपातितं लिङ्गं यदेतद्भुवि शङ्कर ।एतत् प्रगृह्यतां भूयस्ततो देव वदावहे ॥
हर उवाच ।यद्यर्च्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ ।तदेतत् प्रतिगृह्णीयात् नान्यथेति कथञ्चन ॥
ततः प्रोवाच भगवानेवमस्त्विति केशवः ॥
ब्रह्मा स्वयञ्च जग्राह लिङ्गं कनकपिङ्गलम् ।ततश्चकार भगवांञ्चातुर्वर्ण्यं हरार्च्चने ॥
शास्त्राणि चैषां मुख्यानि नानोक्तिविदि-तानि च ।आद्यं शैवं परिख्यातमन्यत् पाशुपतं मुने ॥
तृतीयं कालवदनं चतुर्थञ्च कपालिनम् ।शैव आसीत् स्वयं शक्त्रिर्वशिष्ठस्य प्रियः सुतः ॥
तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः ।महापाशुपतस्त्वासीद्भारद्वाजस्तपोधनः ॥
तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः ।कालास्यो भगवानासीदापस्तम्बस्तपोधनः ॥
तस्य शिष्यो वको वैश्यो नाम्ना क्राथेश्वरोमुने ।महाव्रती च धनदस्तस्य शिष्यश्च वीर्य्यवान् ॥
कुन्दोदर इति ख्यातो जात्या शूद्रो महातपाःएवं स भगवान् ब्रह्मा पूजनाय शिवस्य च ॥
कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ।गते ब्रह्मणि सर्व्वोऽपि तपः संहृत्य तं तदा ॥
लिङ्गं चित्रवने सूक्ष्मं प्रतिष्ठाप्य चचार ह ॥
”इति वामनपुराणे ६ अध्यायः ॥
* ॥
अपिच ।“ततः सृष्टिं चिन्तयतो ब्रह्मणो मोहितस्य च ।बालिखिल्याः समुत्पन्नास्तपस्तप्तं समारभन् ॥
दिव्यं वर्षसहस्रं वै तेपुस्ते दुश्चरं तपः ।ततः कालेन महता पार्व्वती च पतिव्रता ॥
तेषां तपः समालोक्य चाति देवी सुदुःखिता ।प्रसाद्य देवदेवेशं शङ्करं प्राह सुव्रता ॥
क्लिश्यन्ति बालिखिल्याश्च प्रसादार्थं तव प्रभो ।एतेभ्योऽपि प्रियं देव विधिवत् कुरु सेवया ॥
तच्छ्रुत्वा वचनं देव्याः पिनाकी परचिन्तकः ।प्रोवाच कान्ते कालञ्च वचनं प्रियया सह ॥
न वेत्सि देवि तत्त्वेन धर्म्मस्य गहना गतिः ।नैते धर्म्मं विजानन्ति यथार्थं धर्म्मचारिणः ॥
न दास्यामि वरं तेभ्यो यस्मात्ते मूढबुद्धयः ।एतत् श्रुत्वाब्रवीत् देवी मा मैवं शंसितव्रताः ॥
ततो रुद्र उवाचेदं देवी देवः स्मिताननः ।तिष्ठ त्वमत्र यास्यामि यत्रैते मुनिसत्तमाः ॥
इत्युक्ता तु ततो देवी शङ्करेण महात्मना ।गच्छस्वे त्याह मुदिता भर्त्तारं भुवनेश्वरी ॥
यत्र ते मुनयः सर्व्वे काष्ठलोष्टसमाश्रिताः ।तान् विलोक्य ततो देवो नग्नः सर्व्वाङ्गसुन्दरः ॥
वनमालाकृतापीडो युवा भिक्षाकपालभृत् ।आश्रमे पर्य्यटन् भिक्षां मुनीनां नियतात्मनाम् ॥
देहि भिक्षां ततश्चोक्त्वा स भ्रमन्नाश्रमं ययौ ।तं विलोक्याश्रमगतं योषितो ब्रह्मवादिनाम् ॥
सकौतुकस्वभावेन तस्य रूपेण मोहिताः ।प्रोचुः परस्परं कार्य्यमस्ति पश्याम भिक्षुकम् ॥
परस्परमितीवोक्त्वा गृह्य मूलफलं बहु ।गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः ॥
तस्मै दत्त्वैव तां भिक्षां पप्रच्छुस्ताः स्मरातुराःनार्य्य ऊचुः ।कौऽसौ नाम व्रतविधिस्तया तापस सेव्यते ।यत्र नग्नेन लिङ्गेन वनमालाविभूषितः ॥
भवान् वै तापसो हृद्यो हृद्याः स्मो यदिमन्यसे ।इत्युक्तस्तापसस्ताभिः प्रोवाच हसिताननः ॥
इदं मम व्रतं किञ्चिन्न रहस्यं प्रकाशते ।शृण्वन्ति बहवो यत्र तत्र तत्र न विद्यते ॥
तस्य व्रतस्य सुभगा इति मत्वा भविष्यथ ।एवमुक्तास्तदा तेन ताः प्रत्यूचुस्तदा मुनिम् ॥
ततोऽभ्येत्य गमिष्यामो मुने नः कौतुकं महत्इत्युक्त्वा तास्तदातीव जगृहुः पाणिपल्लवैः ॥
काचिच्चकर्ष बाहुभ्यां काचित् कामपरा तथाजानुभ्यामपरा नाभ्यां कचेषु ललनापरा ॥
अपरा तु कटीबन्धे चापरा पादयोरपि !क्षोभं विलोक्य मुनय आश्रमेषु स्वयोषिताम् ॥
हन्यतामिति संभाष्य काष्ठपाषाणपाणयः ।पातयन्ति च देवस्य लिङ्गमुद्बुध्य भीषणम् ॥
पातिते तु ततो लिङ्गे गतोऽन्तर्द्धानमीश्वरः ।देव्या स भगवान् रुद्रः कैलासं नगमाश्रितः ॥
पतिते देवदेवस्य लिङ्गे नष्टे चराचरे ।क्षोभो बभूव सुमहानृषीणां भावितात्मनाम् ॥
उवाचैको मुनिवरस्तत्र बुद्धिमतां वरः ।विरिञ्चिं शरणं यामः स हि ज्ञास्यति चेष्टि-तम् ॥
एवमुक्त्वा सर्व्व एव ऋषयो लज्जिता भृशम् ।ब्रह्मणः सदनं जग्मुर्देवैः सह निषेवितम् ॥
ऋषय ऊचुः ।अज्ञानाच्च कृतं ब्रह्मन्नस्माभिर्ज्ञानदुर्ब्बलैः ।तस्योपशमने यत्नं कुरु सर्व्वोपकारक ॥
ब्रह्मोवाच ।गच्छामः शरणं देवं शूलपाणिं त्रिलोचनम् ।प्रसादाद्देवदेवस्य भविष्यथ यथा पुरा ॥
इत्युक्त्वा ब्रह्मणा सार्द्धं कैलासं गिरिमुत्तमम् ।ददृशुस्ते समासीनमुमया सहितं हरम् ॥
ततः स्तोतुं समारब्धो ब्रह्मा लोकपितामहः ।अनन्ताय नमस्तुभ्यं वरदाय पिनाकिने ॥
एवं स्तुतो महादेवो ब्रह्मणा ऋषिभिस्तथा ।उवाच मां मा व्रजतु लिङ्गं भोः पुरतः पुनः ॥
क्रियतां मद्वचः शीघ्रं येन मे प्रीतिरुत्तमा ।भविष्यति प्रकृष्टा या लिङ्गस्यात्र न संशयः ॥
ये लिङ्गं पूजयिष्वन्ति मम भक्तिसमाश्रिताः ।न तेषां दुर्लभं किञ्चित् भविष्यति हितंफलम् ॥
”इति वामने ४२ अध्यायः ॥
* ॥
कुरुक्षेत्रस्थितानि लिङ्गानि यथा, --सनत्कुमार उवाच ।“वटस्य दक्षिणे भागे चक्रतीर्थं प्रकीर्त्तितम् ।स्थाणोर्वटस्य पूर्व्वेण मम तीर्थं प्रकीर्त्तितम् ॥
स्थाणोर्वटस्योत्तरतस्तीर्थं गाणेश्वरं मतम् ।स्थाणोटर्वस्य पश्चिमतः स्कन्दतीर्थं प्रकीर्त्तितम् ॥
इमानि पुण्यतीर्थानि मध्ये रुद्रवटः स्थितः ।महादेवं समभ्यर्च्च्य प्राप्नोति परमं पदम् ॥
वटस्य चोत्तरे पार्श्वे तक्षकेण महात्मना ।प्रतिष्ठितं महालिङ्गं सर्व्वकामप्रदायकम् ॥
वटस्य पूर्व्वदिग्भागे विश्वकर्म्मकृतं महत् ।लिङ्गं प्रत्यङ्मुखं दृष्ट्वा सिद्धिमाप्नोति मानवः ॥
तत्रैव लिङ्गरूपेण संस्थिता या सरस्वती ।तां प्रणम्य प्रयत्नेन बुद्धिं मेधाञ्च विन्दति ॥
वटपार्श्वस्थितं लिङ्गं ब्रह्मणा तत् प्रतिष्ठितम् ।दृष्ट्वा वटेश्वरं देवं प्रयाति परमं पदम् ॥
ततः स्थाणुवटं दृष्ट्वा कृत्वा चापि प्रदक्षिणम् ।प्रदक्षिणीकृता तेन सप्त द्वीपा वसुन्धरा ॥
स्थाणोः पश्चिमदिग्भागे नकुलीशो गणःस्मृतः ।तमभ्यर्च्च्य प्रयत्नेन सर्व्वपापैः प्रमुच्यते ॥
तस्य दक्षिणदिग्भागे तीर्थं रुद्राकरं स्मृतम् ।तस्मिन् स्नातः सर्व्वतीर्थस्नातो भवति मानवः ॥
तस्य चोत्तरदिग्भागे रावणेन महात्मना ।प्रतिष्ठितं महालिङ्गं गोकर्णं नाम नामतः ॥
आषाढमासे या कृष्णा भविष्यति चतुर्दशी ।तस्यां पश्यति गोकर्णं तस्य पुण्यफलं शृणु ॥
कामतोऽकामतो वापि यत् पापं तेन सञ्चि-तम् ।तस्माद्विमुच्यते पापात् पूजयित्वा हरं शुचिः ॥
कौमारब्रह्मचर्य्येण यत् पुण्यं प्राप्यते नरैः ।तत् पुण्यं सकलं तेषामष्टम्यां योऽर्च्चयेच्छिवम्यदिच्छेत् परमं रूपं सौभाग्यं धनसम्पदम् ।कुमारेश्वरमाहात्म्यात् सिध्यते नात्र संशयः ॥
तस्य चोत्तरदिग्भागे लिङ्गपूजां विभीषणः ।अजरश्चामरश्चैव कल्पयित्वा बभूव ह ॥
आषाढस्य तु मासस्य शुक्ला या चाष्टमीभवेत् ।तस्याम्पूज्य सोपवासश्चामृतत्वमवाप्नुयात् ॥
पूर्व्वैश्च पूजितं लिङ्गं तस्मिन् स्थाने द्विजोत्तम ।पूजयित्वा प्रयत्नेन सर्वकाममवाप्नुयात् ॥
दूषणस्त्रिशिराश्चैव तत्र पूज्य महेश्वरम् ।यथाभिलषितान् कामानवापतुर्मुदान्वितौ ॥
चैत्रे मासि सिते पक्षे यो नरस्तत्र पूजयेत् ।तस्य तौ वरदौ देवौ प्रयच्छेतां हि वाञ्छितम् ॥
स्थानोर्वटस्य पूर्व्वेण हस्तिपादेश्वरः स्थितः ।तं दृष्ट्वा मुच्यते पापैरन्यजन्मसमुद्भवैः ॥
तस्य दक्षिणतो लिङ्गं हारीतस्य ऋषेःस्थितम् ।यं प्रणम्य प्रयत्नेन सिद्धिमाप्तोति मानवः ॥
तस्य दक्षिणपार्श्वे तु हारितस्य महात्मनः ।लिङ्गं त्रैलोक्यविख्यातं सर्व्वपापहरं शिवम् ॥
कङ्कालरूपिणा चापि रुद्रेणाशु महात्मना ।प्रतिष्ठितं महालिङ्गं सर्व्वपापविनाशनम् ॥
भुक्तिमुक्तिप्रदं प्रोक्तं सर्वकिल्विषनाशनम् ।तल्लिङ्गस्पर्शनादेव अग्निष्टोमफलं लभेत् ॥
तस्य पश्चिमदिग्भागे लिङ्गं सिद्धप्रतिष्ठितम् ।सिद्धेश्वरं भुवि ख्यातं सर्व्वसिद्धिप्रदायकम् ॥
तद्दर्शनात् पूजनाच्च सर्व्वसिद्धिं हि बिन्दति ।तस्य दक्षिणदिग्भागे मृकण्डेन महात्मना ॥
प्रतिष्ठितं यत्तु लिङ्गं दर्शनात् सिद्धिदायकम् ।तस्य पूर्व्वे च दिग्भागे आदित्येन महात्मना ॥
प्रतिष्ठितं लिङ्गवरं सर्व्वकिल्विषनाशनम् ।चित्राङ्गदस्तु गन्धर्व्वो रम्भा चाप्सरसां वरा ॥
परस्परं सानुरागौ स्थाणुदर्शनकाङ्क्षिणौ ।दृष्ट्वा स्थाणुं पूजयित्वा सानुरागौ परस्परम् ॥
आगम्य वरदं देवं प्रतिष्ठाप्य महेश्वरम् ।चित्राङ्गदेश्वरं दृष्ट्वा तथा रम्भेश्वरं हिज ॥
सुभगो दर्शनीयश्च कुले जन्म समाप्नुयात् ।तस्य दक्षिणतो लिङ्गं शक्त्रिणा स्थापितं पुरा ॥
तस्य प्रसादात् सम्प्राप्तं मनसाचिन्तितं फलम् ।पराशरेण मुनिना तथैवाराध्य शङ्करम् ॥
प्राप्तं कवित्वं परमं दर्शनाच्छङ्करस्य च ।वेदव्यासेन मुनिना चाराध्य परमेश्वरम् ॥
सर्व्वज्ञत्वं ब्रह्मज्ञानं प्राप्तं देवप्रसादतः ।स्थाणोः पश्चिमदिग्भागे वायुना जगदायुना ॥
प्रतिष्ठितं महालिङ्गं दर्शनात् पापनाशनम् ।तस्यापि दक्षिणे भागे लिङ्गं हैमवतेश्वरम् ॥
प्रतिष्ठितं पुण्यकृता दर्शनात् सिद्धिदायकम् ।तस्यापि पश्चिमे भागे कार्त्तवीर्य्येण स्थापिम् ॥
लिङ्गं पापहरं सद्यो दर्शनात् पुण्यमाप्नुयात् ।तस्याप्युत्तरदिग्भागे तत्पार्श्वे स्थापितं पुनः ॥
आराध्य हनुमांश्चाप सिद्धिं देवप्रसादतः ।तस्यैव पूर्व्वदिग्भागे विष्णुना प्रभविष्णुना ॥
आराध्य वरदं देवं चक्रं लब्धं सुदर्शनम् ।तस्यापि पूर्व्वदिग्भागे इन्द्रेण वरुणेन च ॥
प्रतिष्ठितौ लिङ्गवरौ सर्व्वकामप्रदायकौ ।एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तथा ॥
सेवितानि प्रयत्नेन सर्व्वपापहराणि वै ।स्थाणुलिङ्गस्य परितः ऋषिभिस्तत्त्वदर्शिभिः ॥
प्रतिष्ठितानि लिङ्गानि येषां संख्या न विद्यते ।तथाह्युत्तरतश्चैव यावदोघवती नदी ॥
सहस्रमेकं लिङ्गानां देवपश्चिमतः स्थितम् ।तस्यापि पूर्वदिग्भागे बालिखिल्यैर्म्महर्षिभिः ॥
प्रतिष्ठिता रुद्रकोटिर्यावत् सन्निहितं सरः ।दक्षिणेन तु देवस्य गन्धर्व्वैर्यक्षकिन्नरैः ॥
प्रतिष्ठितानि लिङ्गानि तेषां संख्या न विद्यते ।तिस्रः कोट्यर्द्धकोटी च लिङ्गानां वायुरब्रवीत् ॥
असंख्याताः सहस्राणि ये रुद्रा स्थाणु-माश्रिताः ।एतज्ज्ञात्वा श्रद्दधानः स्थाणुलिङ्गं समाश्रयेत् ॥
यस्य प्रमादात् प्राप्नोति मनसा चिन्तितं फलम्अकामो वा सकामो वा प्रतिष्ठ्य स्थाणु-मन्दिरम् ॥
विभुक्तः पातकैर्घोरैः प्राप्नोति परमं पदम् ।चैत्रमासे त्रयोदश्यां दिने पुण्यतमे शुभे ॥
प्रतिष्ठितं स्थाणुलिङ्गं ब्रह्मणा लोकधारिणा ।ऋषिभिर्देवसंघैश्च पूजितं शाश्वतीः समाः ॥
तस्मिन् काले निराहारा मानवाः श्रद्धया-न्विताः ।पूजयन्ति शिवं ये वै ते यान्ति परमं पदम् ॥
स्थाणुतीर्थमिदं ज्ञात्वा ये कुर्वन्ति प्रदक्षिणम् ।प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वमुन्धरा ॥
”इति वामणपुराणे ४३ अध्यायः ॥
* ॥
एकगृहे लिङ्गद्वयार्च्चननिषेधो यथा, --“गेहे लिङ्गद्वयं नार्च्च्यं शालग्रामद्वयं तथा ।द्वे चक्रे द्वारकायास्तु नार्च्च्यं सूर्य्यद्वयं तथा ॥
”तन्निर्म्माल्यभक्षणविधिनिषेधो यथा, --“अभक्ष्यं शिवनिर्म्माल्यं पत्रं पुष्पं फलं जलम् ।शालग्रामशिलायोगात् पावनं तद्भवेत् सदा ॥
”इति वाराहे रौप्यसौवर्णार्च्चास्थापननामा-ध्यायः ॥
* ॥
लिङ्गपूजां विनान्यपूजाकरणनिषेधोयथा, --“लिङ्गपूजां विना देवि ! अन्यपूजां करोति यःविफला तस्य पूजा स्यादन्ते नरकमाप्लुयात् ।तस्माल्लिङ्गं महेशानि प्रथमं परिपूजयेत ॥
” * ॥
तत्पूजनप्रशंसा यथा, --“यद्राष्ट्रं लिङ्गपूजायां रहितं सततं प्रिये ।तद्राष्ट्रं पतितं मन्ये विष्ठाभूमिसमं स्मृतम् ॥
ब्रह्मक्षत्त्रियविट् देवि यदि लिङ्गं न पूजयेत् ।तत्क्षणात् परमेशानि त्रयश्चाण्डालतां व्रजेत् ॥
शूद्रश्च परमेशानि सदा शूकरवत् प्रिये ।पूजयेत् परमेशानि चत्वारो ब्राह्मणादयः ॥
शिवार्च्चनन्तु पूजासु यद्गृहे वर्ज्जितं सदा ।विष्ठागर्त्तसमं देवि तद्गृहं विद्धि पार्व्वति ॥
शाक्तो वा वैष्णवो वापि शैवो वा परमेश्वरि ।आदौ लिङ्गं समभ्यर्च्च्य विल्वपत्रैर्वरानने ॥
पश्चादन्यं महेशानि शिवं प्रार्थ्य प्रपूजयेत् ।शिवपूजां विना देवि ! अन्यपूजां करोति यः ॥
स एव रसनाहीनः कुम्भीरो जायते प्रिये ।निर्म्माय पार्थिवं लिङ्गं रुद्रं संहाररूपिणम् ॥
आशुतोषं महादेवं शङ्करं वृषमध्वजम् ।निर्म्माय पार्थिवं लिङ्गं विधिवत् पूजयेत्शिवम् ॥
शिवपूजा महेशानि यद्गृहे सततं प्रिये ।काशीपुरं महेशानि तद्गृहं वरवर्णिनि ।शिवलिङ्गं प्रपूज्याथ सर्व्वपूजाफलं लभेद् ॥
” * ॥
चतुर्विधलिङ्गं यथा, --“चतुर्द्धा पार्थिवं लिङ्गं मृत्स्नाभेदेन पार्व्वति ।शुक्लं रक्तं तथा पीतं कृष्णञ्च परमेश्वरि ॥
शुक्लन्तु ब्राह्मणे शस्तं क्षत्त्रिये रक्तमिष्यते ।हरितं वैश्यजातौ तु कृष्णं शूद्रे प्रकीर्त्तितम् ।चन्दनञ्च महेशानि सर्व्वजातिषु शस्यते ॥
”इति लिङ्गार्च्चनतन्त्रे १ । २ । ३ पटलाः ॥
* ॥
अस्य पञ्चवक्त्राणि यथा, --“तत् सर्व्वं शृणु चार्व्वङ्गि पार्थिवस्य मुखं प्रिये ।विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि ॥
सद्योजातं वामदेवमघोरञ्च ततः परम् ।तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्त्तितम् ॥
सद्योजातञ्च वै शुक्लं शुद्धस्फटिकसन्निभम् ।पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥
कृष्णवर्णमघोरञ्च समं भीमविवर्द्धनम् ।रक्तं तत्पुरुषं देवं दिव्यमूर्त्तिमनोहरम् ॥
श्यामलञ्च तथेशानं सर्व्वदेवशिवात्मकम् ।चिन्तयेत् पश्चिमे चाद्यं द्वितीयन्तु तथोत्तरे ॥
अघोरं दक्षिणे देवं पूर्व्वे तत्पुरुषं तथा ।ईशानं मध्यतो ध्येयं चिन्तयेत् भक्तितत्परः ॥
”इति तत्रैव ६ पटलः ॥
* ॥
अस्य पूजायां मुखवाद्यकरणावश्यकत्वं यथा, “संपूज्य पार्थिवं लिङ्गं परं ब्रह्म स्वयं प्रिये ।ततस्तु लिङ्गकवचं पठित्वा कमलानने ॥
मुखवाद्यं सनृत्यं हि कृत्वा तु परमेश्वरि ।मातृकामन्त्रसहितं मुखवाद्यं सुदुर्ल्लभम् ॥
अकारादिक्षकारान्तं अनुलोमविलोभतः ।उच्चार्य्य परमेशानि मुखवाद्यं श्रुचिस्मिते ॥
सबिन्दुवर्णमुच्चार्य्य पञ्चाशन्मातृकां प्रिये ।अनुलोमविलोमेन सर्व्वेण च वरानने ॥
अनेनैव विधानेन मुखवाद्यं करोति यः ।स सिद्धः सगणः सोऽपि स शिवो नात्र संशयः ॥
मृत्युञ्जयोऽहं देवेशि मुखवाद्यप्रसादतः ।यस्मिन् काले महेशानि असुरो बलवद्भवेत ॥
तस्मिन् काले महेशानि मुखवाद्यं करोम्यहम्तत् श्रुत्वा परमेशानि असुरा राक्षशाश्च ये ॥
पलायन्ते महेशानि तत् श्रुत्वा परमेश्वरी ।ये नरा भवि तिष्ठन्ति मखवाद्यं विना प्रिये ॥
स सर्व्वयातना भोगी अन्ते कुम्भिरतां व्रजेत् ॥
”इति च तत्रैव ८ पटलः ॥
* ॥
अस्य निर्म्माल्यभोजनदोषकारणम् यथा, --देव्युवाच ।“दुर्लभं तव निर्माल्यं ब्रह्मादीनां कृपानिधे ।तत्कथं परमेशान निर्माल्यं तव दूषितम् ॥
ईश्वर उवाच ।मध्यस्थानस्थितं यत्तु तन्मुखं परमेश्वरि ।श्यामलं तत्तु ईशानं सदा उर्द्ध्वं शुचिस्मिते ॥
कालाग्निरूपिणं तत्तु सर्व्वशक्तिमयं सदा ।तेजोमयं महेशानि मुखमूर्द्ध्वं वरानने ॥
क्षीरोदमथने देवि उत्थितं गरलं महत् ।ततः करतलीकृत्य तद्विषं परमेश्वरि ॥
निपीतं तद्विषं सूक्ष्मं तीक्ष्णं ब्रह्माण्डनाशनम् ।तद्विषं कण्ठदेशे तु स्थितं हि सर्वदा मम ॥
ततःप्रभृति देविशि मुखं ज्वालायते सदा ।पत्रं वा यदि वापुष्पं फलं वा वरवणिनि ॥
अन्यं हि परमेशानि उपचारं मनोहरम् ।यो दद्यात् परमेशानि मन्मुखोपरि पार्व्वति ॥
अग्राह्यं तत्तु निर्म्माल्यं साक्षाद्ब्रह्ममयं यतःएतत्तु परमेशानि निर्म्माल्यं यस्तु धारयेत् ॥
म भ्रष्टोजायते देवि निष्कृ तिर्नास्ति तत्र वै ।अग्राह्यं मम निर्म्माल्यं अतएब वरानने ॥
यद्दत्तं सम्मुखे देवि षुष्पं वा पत्रमुत्तमम् ।तन्निर्म्माल्यं महेशान्ति गृह्नीयात् शिरसा सदाप्रथमं विष्णवे दत्त्वा विष्णुमन्त्रेण पार्व्वति ।निर्म्माल्यं मम देवेशि विष्णोर्ग्राह्यं वरानने ॥
देवासुरमनुष्याश्च गन्धर्व्वा किन्नरादयः ।ते सर्व्वे परमेशानि वराकाः क्षुद्रबुद्धयः ।निर्म्माल्येषु च देवेशि अधिकारी कथं भवेत् ॥
”इति च तत्रैव १३ । १४ पटलौ ॥
* ॥
“चतुर्द्दश्यां महेशानि शुक्लायां वरवर्णिनि ।कृष्णायां वा महेशानि अमावास्यां विशेषतः ।निर्माय च चतुर्द्दश्यां लिङ्गं भक्त्या च पूजयेत् ।एकहस्ते महेशानि निर्माय पार्थिवं शिवम् ॥
दक्षिणे वामहस्ते वा निर्माय ये च पार्थिवम् ।तत्फल परमेशानि लक्षलिङ्गसमं भवेत् ॥
”इति लिङ्गार्च्चनतन्त्रम् ॥
* ॥
बाणलिङ्गलक्षणादिकं बाणलिङ्गशब्देद्रष्टव्यम् ॥
अथ रौद्रलिङ्गलक्षणम् । वीरमित्रोदयधृतम् ।“नदी समुद्भवं रौद्रमन्योन्यस्य विघषणात् ।नदीवेगात् समं स्निग्धं सजातं रौद्रमुच्यते ॥
”ममुच्चयेऽपि ।“सरित्प्रवाहसंस्थानं बाणलिङ्गसमाकृति ।तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम् ॥
नदीसारनर्म्मदायां बाणलिङ्गसमाकृति ।तदन्यदपि बोद्धव्यं लिङ्गं रौद्रं भविष्यति ॥
रौद्रलिङ्गं तथाख्यातं बाणलिङ्गसमाकृति ।श्वेतरक्तं तथा पित्तं कृष्णं विप्रादिपूजितम् ॥
स्वभावात् कृष्णवर्णं वा सर्व्वजातिषु सिद्धिदम् ।नर्म्मदासम्भवं रौद्रं बाणलिङ्गवदीरितम् ॥
”इति रौद्रलिङ्गलक्षणम् ॥
शिवनाभिलक्षणणं तच्छब्दे द्रष्टव्यम् ॥
* ॥
अथदैवलिङ्गलक्षणम् । दैवलिङ्गमधिकृत्य सिद्धान्त-शेखरे ।“करसंपुटसंस्पर्शं शूलटङ्केन्दुभूषितम् ।रेखाकोटरसंयुक्तं निम्नोन्नतसमन्नितम् ।दीर्घाकारञ्च यल्लिङ्गं ब्रह्मभागादिवर्ज्जितम् ॥
”अथ गोललिङ्गलक्षणम् ।“लिङ्गं गोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना ।कुष्माण्डस्य फलाकारं नागरङ्गफलोपमम् ।काकडिम्बफलाकारं गोललिङ्गमितीरितम् ॥
”इति गोललिङ्गलक्षणम् ॥
* ॥
अथार्षलिङ्गलक्षणम् । तत्रैव ।“नानाकोलफलाकारं ब्रह्मसूत्रविवर्त्तनम् ।मूले स्थूलञ्च यल्लिङ्गं कपित्थफलसन्निभम् ॥
नालस्य वा फलाकारं मध्ये स्थूलञ्च यद्भवेत् ।मध्ये स्थूलं वरं लिङ्गमृषिवाणमुदीरितम् ॥
”इत्यर्घलिङ्गलक्षणम् ॥
* ॥
लिङ्गं हि द्विविधमकृत्रिमं कृत्रिमञ्च । अकृ-त्रिमं स्वयम्भूतं स्वयम्भु बाणलिङ्गादि । कृत्रिमंनिर्म्मितं धातुलिङ्गादि । सिद्धान्तशेखरे ।“तल्लिङ्गं द्विविघं ज्ञेयमचलञ्च चलं तथा ।प्रत्थेकं त्रिविधं ज्ञेयं लिङ्गं तदुभयात्मकम् ॥
प्रासादे स्थापितं लिङ्गमचलं तच्छिलादिजम् ।स्थापितं अचलं गेहे स्थिरं लिङ्गमयोजिते ॥
पञ्चधा तत् स्थितं लिङ्गं स्वयम्भु दैवपालकम् ।आर्षञ्च मानसं लिङ्गं तेषां लक्षणमुच्यते ॥
सिद्धान्तशेखरे ।“नानाच्छ्रिद्रसुसंयुक्तं नानावर्णसमन्वितम् ।अदृष्टमूलं यल्लिङ्गं कर्कशं भुवि दृश्यते ॥
तत् लिङ्गन्तु स्वयम्भतमपरं लक्षणाच्युतम् ।स्वयम्भु लिङ्गमित्युक्तं तच्च नानाविधं मतम् ॥
शङ्खाभमस्तकं लिङ्गं वैष्णवं तदुदाहृतम् ।पद्माभमस्तकं ब्राह्मं छत्राभं शाक्रमच्यते ॥
शिरोयुग्मं तथाग्नेयं त्रिपदं याम्यमीरितम् ।खङ्गाभं नैरृतं लिङ्गं वारुणं कलसाकृति ॥
वायव्यं ध्वजवाँल्लिङ्गं कौबेरन्तु गदान्वितम् ।ईशानस्य त्रिशूलाभं लोकपालादिनिःसृतम् ।स्वयम्भु लिङ्गमाख्यातं सर्व्वशास्त्रविशारदेः ॥
”इति स्वयम्भुलिङ्गलक्षणम् ॥
* ॥
मत्स्यसूक्ते ।“दृष्ट्वा लिङ्गं महेशस्य स्वयम्भूतस्य पार्व्वति ।सर्व्वपापविनिर्मुक्तः परे ब्रह्मणि लीयते ॥
” * ॥
एतेषां पूजाफलन्तु तत्रैव ।“विशेषाच्छैलजं मुक्त्यै भुक्तये चानुषङ्गतः ।पार्थिवं भुक्तये शस्तं मुक्तये चानुषङ्गतः ॥
एवं वै दारुजं ज्ञेयं चिह्नलिङ्गं तथा पुनः ।स्थिरलक्ष्मीप्रद ज्ञेयं हैमं राज्यप्रदञ्च तत् ।पुत्त्रवृद्धिकरं ताम्रं राङ्गमायुःप्रवर्द्धनम् ॥
”पद्मपुराणम् ।“पारदञ्च महाभूत्यै सौभाग्याय च मौक्ति-कम् ।चन्द्रकान्तं मृत्युजित् स्याद्घाटकं सर्व्वकामदम् ॥
”वीरमित्रोदयधृतकल्पोत्तरेऽपि ।“सर्व्वा फलप्रदा भूमिर्मणयस्तद्वदेव हि ।अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः ॥
रात्रौ प्रकाशकाः सर्व्वे विषाद्याघातकारिणः ।नानावर्णास्तु विज्ञेया रसैर्गन्धैश्च रूपतः ॥
वज्राद्याः स्फाटिकाद्याश्च गुडान्नादिविनि-र्म्मितम् ।सर्व्वकामप्रदं पुंसां लिङ्गं तात्कालिकं मतम् ॥
”लक्षणसमुच्चये ।“गान्धं सौभ्याग्यदं लिङ्गं पौष्पं मुक्तिप्रदाय-कम् ।”तथा ।“नानागुणोद्भवं लिङ्गं नानाकामप्रदायकम् ।सैकतं गुणदं लिङ्गं सौभ्याग्याय च लावणम् ॥
उच्चाटने तु पाशाप्तं मौलं शत्रुक्षयावहम् ।तात्कालिकं दरिद्रश्च कृत्वा भक्त्या समर्च्चयेत् ॥
तथा ।“कस्तुरिकया द्वौ भागौ चत्वारश्चन्दनस्य च ।कुङ्कुमस्य त्रयश्चैव शशिना च चतुःसमम् ॥
एतद्वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः ।शिवसायुज्यमाप्नोति बन्धुभिः सहितो नरः ॥
कार्य्यं पुष्पमयं लिङ्गं हयगन्धसमन्वितम् ।नवखण्डां धरां भुक्तां गणेशोऽधिपतिर्भवेत् ॥
रजोभिर्निर्म्मितं लिङ्गं यः पूजयति भक्तितः ।विद्याधरपदं प्राप्य पश्चात् शिवसमो भवेत् ॥
श्रीकामो गोशकृल्लिङ्गं कृत्वा भक्त्या प्रपूजयेत्स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत् ॥
कार्य्यं यष्टिक्रमं लिङ्गं यवगोधूमशालिजम् ।श्रीकामः पुष्टिकामश्च पुत्त्रकामस्तदर्च्चयेत् ॥
सिताखण्डमयं लिङ्गं कार्य्यमारोग्यवर्द्धनम् ।वश्ये लवणजं लिङ्गं तालत्रिकटुकान्वितम् ॥
गव्यधृतमयं लिङ्गं संपूज्य बुद्धिवर्द्धनम् ।लवणेन च सौभाग्यं पार्थिवं सर्व्वकामदम् ॥
कामदं तिलपिष्टोत्थं तुषोत्थं मारणे स्मृतम् ।भस्मोत्थं सर्व्वफलदं गुडोत्थं प्रीतिवर्द्धनम् ॥
गन्धोत्थं गुणदं भूरि शर्करोत्थं सुखप्रदम् ।वंशाङ्कुरोत्थं वशकरं गोमयं सर्व्वरोगदम् ॥
केशास्थिसम्भव लिङ्गं सर्व्वशत्रुविनाशनम् ।क्षोभणे मारणे पिष्टसम्भवं लिङ्गमुत्तमम् ॥
दारिद्य्रदं द्रुमोद्भूतं पिष्टं सारस्वतप्रदम् ।दधिदुग्धोद्भवं लिङ्गं कीर्त्तिलक्ष्मीसुखप्रदम् ।धान्यदं धान्यज लिङ्गं फलोत्थं फलदं भवेत् ॥
पुष्पोत्थं दिव्यभोगायुर्मुक्त्यै धावीफलोद्भवम् ।नवनीतोद्भवं लिङ्गं कीर्त्तिसौभाग्यवर्द्धनम् ॥
दूर्वाकाण्डसमुद्भूतमपमृत्युविनाशनम् ।कर्पूरसम्भवं लिङ्गं चला वै भुक्तिमुक्तिदा ।अयस्कान्तं चतुर्द्धा तु ज्ञेयं सामान्यसिद्धिषु ॥
”इति गरुडपुराणम् ॥
“सर्व्वं मणिभवं श्रेष्ठं तत्र वज्रमरिच्छिदि ।यमलिङ्गं महाभूत्यै सौभाग्याय च मौक्तिकम् ॥
पुष्टिमूलं महानोलं ज्योतिस्तीरसमुद्भवम् ।स्पशक कुलसन्नसत्यै तैजसं सूर्य्यकान्तजम् ॥
चन्द्रापीडं मृत्युजितं स्फाटिकं सर्व्वकामटम् ।शूलाख्यमणिजं शत्रुक्षयाथं मौक्तिकं तथा ॥
आपत्यं हीरकं ज्ञेय रोगहृन्मौक्तिकोद्भवम् ।शुभकृत् पुष्कलं तीर्थे वैदुर्य्यं शत्रुदर्पहृत् ।नीलं लक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्व्वकामदम् ॥
”इति सारसंग्रहः ॥
“महामुक्तिप्रदं हैमं राजतं भूतिवर्द्धनम् ।आरकूटं तथा कांस्यं शृणु सामान्यमुक्तिदम् ॥
त्रपुसीसायसं लिङ्गं शत्रूणां नाशने हितम् ।कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुत्त्रवर्द्वनम् ॥
पैत्तलं भुक्तिमुक्त्यर्थं मिश्रजं सर्व्वसिद्धिदम् ॥
”इति कालोत्तरतन्त्रम् ॥
तत्रैव शिवनारदसंवादे ।“पितॄणां मुक्तये लिङ्गं पुज्यं रजतसम्भवम् ।हैमजं सत्यलोकस्य प्राप्तये पूजयेत् पुमान् ।पूजयेत्ताम्रजं लिङ्गं पुष्टिकामो हि मानवः ॥
”मत्स्यसूक्ते ।“ताम्रलिङ्गं कलौ नार्च्चेत् रैत्यस्य सीसकस्य चरक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं तथा ॥
” * ॥
मातृकाभेदतन्त्रे १२ पटले ।“पार्थिवे शिवपूजायां सर्व्वसिद्धियुतो भवेत् ।पाषाणे शिवपूजायां द्विगुणं फलमीरितम् ॥
स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् ।सर्व्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम् ॥
ताम्रे पुष्टिं विजानीयात् कांस्ये च धनसंक्षयःगङ्गायाञ्च लक्षगुणं लाक्षायां रोगवान् भवेत् ॥
स्फाटिके सर्व्वसिद्धिः स्यात्तथा मरकते प्रिये ।लौद्वलिङ्गे रिपोर्नाशं कामदं भस्मलिङ्गकम् ॥
वालुकायां काम्यसिद्धिर्गोमये रिपुहिंसनम् ।सव्वलिङ्गस्य माहात्म्यं धर्म्मकामार्थमोक्षदम्संस्कारेण विना देवि पाषाणादौ न पूजयेत् ॥
”तत्संस्कारस्तत्रै यथा, --“रौप्यञ्च स्वर्णलिङ्गञ्च स्वर्णपात्रे निधाय च ।तस्मादुत्तोल्य तल्लिङ्गं दुग्धमध्ये दिनत्रयम् ॥
त्र्यम्बकेण स्नापयित्वा कालरुद्रं प्रपूजयेत् ।वोडशेनोपचारेण वेद्यान्तु पार्व्वतीं यजेत् ॥
तस्मादुत्तोल्य तल्लिङ्ग गङ्गातोये दिनत्रयम् ।ततो वेदोक्तविधिना संस्कारमाचरेत् सुधीः ॥
”लक्षणहीनलिङ्गपूजने दोषो यथा, --“लिङ्ग सुलक्षण कुर्य्यात् त्यजेल्लिङ्गमलक्षणम् ।दैर्घ्यहोने भवेद्व्याधिरधिके शत्रुवर्द्धनम् ॥
मानहीने विनाशः स्यादधिके च शिशुक्षयः ।विस्तारे चाधिके हीने राष्ट्रनाशो भवेत् ध्रुवम् ॥
पीठहीने तु दारिद्र्यं शिरोहोने कुलक्षयः ।ब्रह्मसूत्रविहीने च राज्ञां राष्ट्वञ्च नश्यति ।तस्मात् सर्व्वप्रयत्नेन लिङ्गं कुर्य्यात् सुलक्षणम् ॥
”अथ लिङ्गप्रमाणम् ।देव्युवाच ।“लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो ।पार्थिवे च शिलादौ च विशेषो यत्र यद्भवेत् ॥
श्रीशिव उवा च !मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् ।एतदन्यन्न कुर्व्वोत कदाचिदपि पार्व्वति ! ॥
”इति मातृकाभेदतन्त्रे ७ पटलः ॥
अपि च ।“मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् ।त्रिसूत्रस्य प्रमाणेन घटनं कारयेद्बुधः ।अङ्गु ष्ठपर्व्व मानन्तु कृत्वा लिङ्गं प्रपूजयेत् ॥
”इति षट्कर्म्मदीपिकाधृतविश्वसारतन्त्रम् ॥
* ॥
त्रिसूत्रीकरणमुक्तं कालोत्तरे ।“लिङ्गे वेद्यां तथा पीठे समसूत्रनिपातनात् ।समञ्चैव विजानीयात् त्रिसूत्रीकरणन्त्विदम् ॥
”मृत्तिकाभदेन ब्राह्मणादीनां पूजाफलस्य प्रश-स्तत्वमुक्तं तत्रैव ।“शुक्लं हि पार्थिवं लिङ्गं निर्म्माय यस्तु पूजयेत् ।स एव परमेशानि त्रिवर्गफलभाग्भवेत् ॥
क्षत्त्रियस्तु वरारोहे रक्तं निर्म्माय पार्थिवम् ।पूजयेत् सततं यस्तु त्रिवगफलभाग्भवेत् ॥
हरितं पार्थिवं देवि निर्म्माय यस्तु पूजयेत् ।स च वैश्यो महेशानि त्रिवर्गफलभाग्भवेत् ॥
कृष्णं हि पार्थिवं लिङ्गं निर्म्माय यस्तु पूजयेत्स शूद्रः परमेशानि त्रिवर्गफलभाग्भवेत् ॥
शिलादौ च महेशानि स्थूलञ्च फलदायकम् ।अङ्गुष्ठमानं देवेशि यद्वा हेमाद्रिमानकम् ॥
क्रमेण देवदेवेशि फलं बहुविधं लभेत् ।स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि ।पूजनाङ्गारणाद्देवि फलं बहुविधं स्मृतम् ॥
”स्थूलात् स्थूलतरमिति पार्थिवलिङ्गे तरपरम् ।मृत्तिकातोलकं ग्राह्यमित्यादिवचनात् ॥
* ॥
शिलास्फाटिकमरकतादीनां पञ्चसूत्रीकरण-मुक्तम् । यथा, --“शिवलिङ्गस्य यन्मानं तन्मानं दक्षसव्ययोः ।योन्यग्रमपि यन्मानं तदधोऽपि तथा भवेत् ॥
”इति लैङ्गम् ॥
“लिङ्गस्य यादृग्विस्तारः परिणाहोऽपि तादृशःलिङ्गस्य द्विगुणा वेदी योनिस्तदर्द्धसम्मिता ॥
कुर्व्वोताङ्गष्ठतो ह्रस्वं न कदाचिदपि क्वचित् ।रत्नादिशिवनिर्म्माणे मानमिच्छावशाद्भवेत् ॥
”इति तन्त्रान्तरम् ॥
लिङ्गशब्दव्युत्प्रत्तिर्यथा, --“आकाशं लिङ्गमित्याहुः पृथिवी तस्यपीठिका ।आलयः सर्व्वदेवानां लयनाल्लिङ्गमुच्यते ॥
”इति स्कन्दपुराणम् ॥
* ॥
लिङ्गमहिमा यथा, --शिव उचाच ।“न तुष्याम्यर्च्चितोऽर्च्चायां पुष्पधूपनिवेदनैः ।लिङ्गेऽर्च्चिते तथात्यर्थं परं तुष्यामि पार्व्वति ॥
एष देवि पुरा कृत्ये जीनाऽहं सर्व्वदैवतैः ॥
लिङ्गत्वाल्लिङ्गमित्युक्तं सदेवासुरकिन्नरैः ॥
प्रयच्छामि दिवं देवि यो मल्लिङ्गार्च्चने रतः ।त्यक्त्वा सर्व्वाणि पापानि निर्गदो दग्धकल्पषः ।मन्मना मन्नमस्कारो मामेव प्रतिपद्यते ॥
”इति वीरमित्रोदयधृतस्कन्दपुराणम् ॥
* ॥
द्रव्यविशेषेण पूजादिफलमपि तत्रैव ।“वस्त्रपूतजलैर्लिङ्गं स्नपित्वा मम मानवाः ।लक्षाणाञ्चाश्वमेधानां फलमाप्नोति सत्तमः ॥
सुगन्धिचन्दनरमैर्लिङ्गमालिप्य भक्तितः ।आलिप्यते सुरस्त्रीभिः सुगन्धैयक्षकर्द्दमैः ॥
” * ॥
लिङ्गपूजनाकरणे दोषस्तत्पूजाफलञ्च तत्रैवशिवनारदसंवादे ।“विना लिङ्गार्च्चनंयस्य कालो गच्छति नित्यशः ।महाहानिभवेत्तस्य दुर्गतस्य दुरात्मनः ॥
एकतः सर्व्वदानानि व्रतानि विविधानि च ।तीर्थानि नियमा यज्ञा लिङ्गाराधनमेकतः ॥
न लिङ्गाराधनादन्यत् पुरा वेदे चतुर्ष्वपि ।विद्यते सर्व्वशास्त्राणामेष एव सुनिश्चितः ॥
भुक्तिमुक्तिप्रदं लिङ्गं विविधापन्निवारणम् ।पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नु यात् ॥
सर्व्वमन्यत् परित्यज्य क्रियाजालमशेषतः ।भक्त्या परमया विद्वान् लिङ्गमेकं प्रपूजयेत् ॥
”इति स्कन्दपुराणम् ॥
* ॥
“अश्वमेधसहस्राणि वाजपेयशतानि च ।महेशार्च्च नपुण्यस्य कलां नार्हन्ति षोडशीम् ॥
”इति मत्स्यसूक्ते १६ पटलः ॥
* ॥
“स्वयं नारायणः प्रोक्तो यदि शम्भुं प्रपूजयेत् ।स्वर्गे मर्त्ये च पाताले ये देवाः संस्थिताः सदा ।तेषां पूजा भवेद्देवि शम्भुनाथस्य पूजनात् ॥
”इति मातृकाभेदतन्त्रम् ॥
* ॥
षट्कर्म्मदीपिकायाम् ।“असारे खलु संसारे सारमेतच्चतुष्टयम् ।काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्भु-सेवनम् ॥
* ॥
अथ पारदशिवलिङ्गमाहात्मम् ।“ज्योतिर्म्मयं महालिङ्गं कैलाशनगरे प्रिये ।तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः ॥
पूर्णलिङ्गं महेशानि शिवबीजं न चान्यथा ।शिलामध्ये यथा चक्रं लक्ष्मीनारायणः परम् ॥
पारदस्य शतांशैको लक्ष्मीनारायणो न हि ।पकारं विष्णुरूपञ्च आकारं कालिका स्वयम् ॥
रेफं शिवं दकारञ्च ब्रह्मरूपं न चान्यथा ।पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् ।यो यजेत् पारदं लिङ्गं स एव शम्भुरव्ययः ॥
”इति मातृकाभेदतन्त्रे ८ पटलः ॥
तस्य निर्म्माणविधानं पारदशब्दे द्रष्टव्यम् ॥
* ॥
प्रकारान्तरशिवलिङ्गोत्पत्तिर्यथा --“ततो विवाहं निर्व्वर्त्त्य कृतकृत्या यथागताः ।गताः सर्व्वे महेशोऽपि सत्या सह तदा गृहम् ।जगाम रेमे सत्या च चिरं निर्भरमानसः ॥
अथ काले कदाचित्तु सत्या सह महेश्वरः ।रेमे न शेके तं सोढुं सती श्रान्ताभवत्तदा ।उवाच दीनया वाचा देवदेवं जगद्गुरुम् ॥
भगवन्न हि शक्नोमि तव भारं सुदुःसहम् ।क्षमस्व मां महादेव कृपां कुरु जगत्पते ॥
निशम्य वचनं तस्या भगवान् वृषभध्वजः ।निभरं रमणं चक्रे गाढं निर्द्दयमानसः ॥
कृत्वा संपूर्णरमणं सती च त्यक्तमैथुना ।उत्थानाय मनश्चक्रे उभयोस्तेज उत्तमम् ।पपात धरणीपृष्ठे तैर्व्याप्तमखिलं जगत् ॥
पाताले भूतले स्वर्गे शिवलिङ्गास्तदाभवन् ।तेन भूता भविष्याश्च शिवलिङ्गाः सयोनयः ॥
यत्र लिङ्गं तत्र योनिर्यत्र योनिस्ततः शिवः ।उभयोश्चैव तेजोभिः शिवलिङ्गं व्यजायत ॥
”इति नारदपञ्चरात्रे ३ रात्रम् ॥
* ॥
कामनाभेदे पार्थिवलिङ्गसंख्या यथा, --“संख्या पार्थिवलिङ्गस्य यथाकामं निगद्यते ।मृल्लिङ्गं पार्थिवं नाम भुक्तिमुक्तिकरं परम् ॥
देशकालादिकं ज्ञात्वा कुर्य्यात् लिङ्गं फलप्रदम्न करोति यदा ज्ञात्वा न कार्य्यं तस्य सिध्यतिविद्यार्थी शतसाहस्रं धनार्थी च तदर्द्धकम् ।पुत्त्रार्थी सार्द्धसाहस्रं कन्यार्थी च शतत्रयम् ॥
विद्वान् लिङ्गायुतं कुर्य्यात् सर्व्वपापहरं परम् ।राज्यार्थी शतसाहस्रं कान्तार्थी शतपञ्चकम् ॥
मोक्षार्थी कोटिगुणितं भूतिकामः सहस्रकम् ।रूपार्थी त्रिसहस्रन्तु तीर्थार्थी द्विसहस्रकमम् ।सुहृत्कामः सहस्रन्तु वस्वार्थं शतमष्टकम् ॥
मारणार्थं सप्तशतं मोहनार्थं शताष्टकम् ॥
उच्चाटनवशश्चैव सहस्रन्तु यथोक्ततः ।स्तम्भने च सहस्रन्तु दारणे च तदर्द्धकम् ॥
महाराजभये पञ्चशतञ्चापदि सङ्कटे ।सहस्रमयुतं सर्व्व कामदं परिकीर्त्तितम् ॥
एकं पापहरं प्रोक्तं द्विलिङ्गञ्चार्थसिद्धिदम् ।त्रिलिङ्गं सर्व्वकामानां कारणं परमीरितम् ॥
”तथा ।“लिङ्गानामयुतं कृत्वा पूजा राजभयं हरेत् ।सहस्राणि च लिङ्गानां निगडान्मोचयेद्ध्रुवम् ॥
कारागृहविमुक्त्यर्थमयुतं कारयेद्बुधः ।डाकिन्यादिभये पञ्चसहस्रं कारयेत्तथा ।सहस्राणाञ्च पञ्चाशदपुत्त्रो हि प्रकारयेत् ॥
”इति वीरमित्रोदयधृतम् ॥
“अनेन च क्रमाद्देवि लक्षं यस्तु प्रपूजयेत् ।सर्व्वाभीष्टफलं देवि लभते नात्र संशयः ॥
” * ॥
एकीकृत्य लिङ्गपूजाविधिनिषेधौ यथा, --“एकीकृत्य महेशानि युगलं न तु पूजयेत् ।एकीकृत्य महेशानि दश पञ्चशतानि च ॥
प्रत्येकेनाथवा देवि विल्वपत्रैः प्रपूजयेत् ।एकैकं पूजयेल्लिङ्गं युगलं न तु पूजयेत् ।दरिद्रो जायते देवि युगलस्य च पूजनात् ॥
”इति लिङ्गार्च्चनतन्त्रम् ॥
* ॥
शिवलिङ्गमृत्तिकादिनिरूपणं यथा, --“तीर्थमृत्स्नां समाहृत्य निर्म्माय लिङ्गमद्भुतम्तीर्थाभावे महेशानि क्षुद्रस्य मृत्तिकां प्रिये ॥
पर्व्वतप्रभवा देवि नदीनाम्रेत्युदाहृतम् ।एतद्भिन्ना महेशानि नदी क्षुद्रा इति प्रिये ॥
निर्झरस्य च देवेशि नदी सम्पत्प्रदायिनी ।सर्व्वाभावे महेशानि गोष्पदस्थाञ्च मृत्तिकाम ।अथवा परमेशानि यत्र चित्तं प्रसीदति ॥
सुपीनं सुन्दरं रम्यं शर्करारहितं सदा ॥
निर्म्माय पार्थिवं लिङ्गं कुण्डलीसहितं प्रिये ॥
या लिङ्गं परमेशानि स रुद्रः परमेश्वरः ।कुण्डली वेष्टनी तस्य सा देवी परमेश्वरी ॥
शिवस्य पूजनात् देवि देवीदेवौ च पूजितौ ॥
”इति मत्स्यसूक्तम् ॥
* ॥
बाणलिङ्गनिर्म्माल्यग्रहणे प्रतिप्रसवो यथा, --“बाणलिङ्गे न चाशौचं न च निर्म्माल्यकल्पनासर्व्वं बाणार्पितं ग्राह्यं भक्त्या भक्तैश्च नान्यथा ॥
ग्राह्याग्राह्यविचारोऽयं बाणलिङ्गे न विद्यते ।तदर्पितं जलं पत्रं ग्राह्यं प्रसादसंज्ञया ॥
बाणलिङ्गे स्वयम्भूते चन्द्रकान्तेन्द्रसंस्थिते ।चान्द्रायणसमं ज्ञेयं शम्भोर्नैवेद्यभक्षणैः ॥
”इति शिवनारदसंवादः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
