शिवरात्रिः (zivarAtriH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiशिवरात्रिः
शिव-रात्रिः -
फाल्गुनकृष्ण चतुर्दशी
Wordnet
Sanskrit महाशिवरात्रिः, शिवरात्रिः
माघमासस्य चतुर्दशी।
"महाशिवरात्र्यां सङ्गमे स्नानं कृत्वा भगवतः शिवस्य पूजनेन सुखं समृद्धिः च लभते।"
शिवरात्रिः
प्रत्येकस्य मासस्य कृष्णपक्षस्य चतुर्दशी।
"अहं शिवरात्रौ उपवासं करोमि।"
शब्दकल्पद्रुमः
Sanskritशिवरात्रिः, (शिवप्रिया रात्रिः ।) शिव-चतुर्द्दशी । यथा, कालमाधवीये स्कान्दे नागर-खण्डम् ।“माघमासस्य शेषे या प्रथमे फाल्गुणस्य च ।कृष्णा चतुर्द्दशी सा तु शिवरात्रिः प्रकीर्त्तिता ॥
”अत्रैकस्यास्तिथेर्म्माघीयत्वफाल्गुनीयत्वे मुख्य-गौणवृत्तिभ्यां अविरुद्धे । ततस्तु माघ्यनन्तराचतुर्द्दशी शिवरात्रिः तस्यामुपवासः प्रधानम् ।“न स्नानेन न वस्त्रेन न धूपेन न चार्च्चया ।तुष्यामि न तथा पुष्पैर्यथा तत्रोपवासतः ॥
”इति शङ्करोक्तेः ॥
* ॥
स्कान्दे ।“ततो रात्रौ प्रकर्त्तव्यं शिवप्रीणनतत्परः ।प्रहरे प्रहरे स्नानं पूजाञ्चैव विशेषतः ॥
”अत्र वीप्सया प्रहरचतुष्टयसाध्यं व्रतं प्रतीयतेनरसिंहाचार्य्यधृतेश्वरसंहितायाम् ।“शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः ।सर्व्वं पूजाफलं हन्ति शिवरात्रिबहिर्म्म खः ॥
* ॥
संवत्सरप्रदीपे ।“दुग्धेन प्रथमं स्नानं दध्ना चैव द्वितीयके ।तृतीये च तथाज्येन चतुर्थे मधुना तथा ॥
”ईशानसंहितायाम् ।“माघे कृष्णचतुर्द्दश्यां रविवारो यदा भवेत् ।भौमो वापि भवेद्देवि कर्त्तव्यं व्रतमुत्तमम् ॥
शिवयोगस्य यौगेन तद्भवेदुत्तमोत्तमम् ।शिवरात्रिव्रतं नाम सर्व्वपापप्रणाशनम् ।आचाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम् ॥
”नागरखण्डे ।“उपवासप्रभावेण बलादपि च जागरात् ।शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया ।अक्षयान्लभते लोकान् शिवसायुज्यमाप्नुयात् ॥
”पाद्मे ।“वर्षे वर्षे महादेवि नरो नारी पतिव्रता ।शिवरात्रौ महादेवं कामं भक्त्या प्रपूजयेत् ॥
”ईश्वानसंहितायाम्“एवमेव व्रतं कुर्य्यात् प्रति संवत्सरं व्रती ।द्वादशाब्दिकमेतद्धि चतुर्व्विंशाब्दिकं तथा ।सर्व्वान् कामानवाप्नोति प्रेत्यचेह च मानवः ॥
”हेमाद्रिधृता स्मृतिः ।“प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्द्दशी ॥
”प्रदोषमाह वत्सः ।“प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिष्यते ॥
”ऊर्द्ध्वमनन्तरम् । वायुपुराणे ।“त्रयोदश्यस्तगे सूर्य्ये चतसृष्वपि नाडिषु ।भूतविद्धा तु या तत्र शिवरात्रिव्रतञ्चरेत् ॥
”ईशानसंहितायाम् ।“माघे कृष्णचतुर्द्दश्यामादिदेवो महानिशि ।शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभः ॥
तत्कालव्यापिनी ग्राह्या शिवरात्रिव्रते तिथिः ।अर्द्धरात्रादधश्चोर्द्ध्वं युक्ता यत्र चतुर्द्दशी ॥
व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रतंनरः ॥
”अत्र ।“महानिशा द्वे घटिके रात्रर्मध्यमयामयोः ॥
”इति देवलोक्ता महानिशा ग्राह्या ॥
घटिकाएकदण्डः । एवञ्च यद्दिने प्रदोषनिशिथो-भयव्यापिनी चतुर्दशी तद्दिने व्रतं उभय-व्याप्त्यनुरोधात् । कालमाधवीयेऽप्येवम् । एतेनपरदिने उभयव्यापित्वेऽपि पूर्व्वदिवसीयरात्रि-द्वितीययामप्रभृतिचतुर्दशीसत्त्वे बहुप्रहरव्या-पित्वेन पूर्व्वदिन एव व्रतमिति निरस्तम् । यदातु पूर्व्वेद्युर्निशीथमात्रव्याप्तिः परेद्युः प्रदोष-मात्रव्याप्तिस्तदा पूर्व्वेद्युर्व्रतम् । प्रधानकाल-व्याप्त्यनुरोधात् ।“पूर्व्वेद्युरपरेद्युर्व्वा महानिशि चतुर्दशी ।व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्याद्व्रतंनरः ॥
”इतीशानसंहितावचनाच्च ॥
एतद्विषय एव भविष्यपुराणम् ।“अर्द्धरात्रात् पुरस्तात्तु जयायोगो भवेद्यदि ।पूर्व्वविद्धैव कर्त्तव्या शिवरात्रिः शिवप्रियैः ॥
”विष्णुधर्म्मोत्तरे ।“जयन्ती शिवरात्रिश्च कार्य्ये भद्रजयान्विते ।कृत्वोपवासं तिथ्यन्ते तदा कुर्य्याच्च पारणम् ॥
”तिथ्यन्ते पारणं जयन्तीमात्रपरं अत्र चतुर्दश्या-मेव तत् ।“ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वैपूजितानि भवन्तीह भूतायां पारणे कृते ॥
”इति स्कान्दात् ।“दिनमानप्रमाणेन या तु रात्रौ चतुर्द्दशी ।शिवरात्रिस्त सा ज्ञेया चतुर्दश्यान्तु पारणम् ॥
”इति गौतमीयाच्च ।यदा तु पूर्व्वदिने न निशीथव्याप्तिः परदिनेप्रदोषमात्रव्यापिनी तदा परा ग्राह्या । प्रदोष-व्यापिनीति प्रागुक्तत्वात् तिथेस्त्रिसन्ध्यव्यापि-त्वाच्च । एतद्विषय एव लिङ्गपुराणम्“शिवरात्रिन्रते भूतां कामविद्धां विवर्जयेत् ।एकेनैवोपवासेन ब्रह्महत्यां व्यपोहति ॥
”अत्रामावास्यायामेव पारणम् ।“शिवा घोरा तथा प्रेता सावित्री च चतु-र्दशी ।कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम् ॥
”इति वचनात् ॥
* ॥
तदयं संक्षेपः । यद्दिने प्रदोषनिशीथोभय-व्यापिनी चतुर्दशी तद्दिने व्रतम् । यदा तु पूव्व-द्युर्निशीथव्यापिनी परेद्युः प्रदोषमात्रव्यापिनीतदा पूर्व्वेद्युर्व्रतम् । यदा तु न पूर्व्वेद्युर्निशीथ-व्याप्तिः परेद्युः प्रदोष व्यापिनींतदा परदिने ।पारणन्तु परदिने चतुर्दशीलाभे चतुर्दश्यां तद-लाभे अमावस्यायाम् । तत्र प्रयोगः ॥
* ॥
प्रातरुदङ्मुखः तत् सदित्युच्चार्य्य सूर्य्यः सोमइति पठित्वा जलादीन्यादाय सङ्कल्पयेत् ।“मन्त्रेणानेन गृह्नीयान्नियमं भक्तिमान्नरः ।शिवरात्रिव्रतं ह्येतत् करिष्येऽहं महाफलम् ।निर्विघ्नमस्तु मे चात्र त्वत्प्रसादाज्जगत्पते ॥
”इति शिवरहस्यात् शिवरात्रि इत्यादिना-नियम्य ।“चतुर्दश्यां निराहारो भूत्वा शम्भो परेऽहनिभोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥
”इति गरुडपुराणीयं पठेत् ।रात्रौ प्रथमप्रहरे प्रतिष्ठिते लिङ्गे अप्रतिष्ठितेवा प्रतिष्ठां विधाय पूजां कुर्य्यात् । हौँ अस्त्रायफडिति पादघातत्रयेण विघ्नान्निःसार्य्य तेनैवतालत्रयेण करच्छोटिकया च दशदिग्बन्धनंकृत्वा भूतशुद्धिं विधाय हां हृदयाय नम इत्या-दिना षडङ्गानि न्यस्य हौँ इति मन्त्रेण प्राणा-यामं विधाय पूजयेत् । पार्थिवलिङ्गे चेत्तदावक्ष्यमाणपूजाविधिना पूजयेत् । तत्रायं विशेषःहौँ ईशानाय नम इति प्रथमप्रहरे दुग्धेनस्नापयित्वा पुनर्जलेन स्नापयित्वा ।“शिवरात्रिव्रतं देव पूजाजपपरायणः ।करोमि विधिवद्दत्तं गृहाणार्घ्यं महेश्वर ॥
”इत्यनेनार्घ्यं दत्त्वा गन्धादिभिः संपूज्यमूलमन्त्रजपित्वा प्रणम्य गीतनृत्यादिभिस्तं प्रहरं नयेत् ॥
“तद्ध्यानं तज्जपः स्नानं तत्कथाश्रवणादिकम् ।उपवासकृतौ ह्येते गुणाः प्रोक्ता मनीषिभिः ॥
”इति देवीपुराणे सामान्यतः श्रवणात् अत्रापितथा ॥
* ॥
द्वितीयप्रहरे तु विशेषः । हौँअघोराय नम इति दध्ना स्नानम् । अर्घ्यमन्त्रस्तु ॥
“नमः शिवाय शान्ताय सर्व्वपापहराय च ।शिवरात्रौ ददाम्यर्घ्यं प्रसीद उमयां सह ॥
” * ॥
तृतीयप्रहरे तु । हौँ वामदेवाय नम इतिघृतेन स्नानम् । अर्घ्यमन्त्रस्तु ।“दुःखदारिद्य्नशोकेन दग्धोऽहं पार्व्वतीश्वर ।शिवरात्रौ ददाम्यर्घ्यमुमाकान्त गृहाण मे ॥
* ॥
चतुर्थप्रहरे तु । हौँ सद्योजाताय नम इतिमधुना स्नानम् । अर्घ्यमन्त्रस्तु ।“मया कृतान्यनेकानि पापानि हर शङ्कर ।शिवरात्रौ ददाम्यर्घ्यं उमाकान्त गृहाण मे ॥
”ततो नमः शिवाय इति मूलमन्त्रं जपित्वाप्रभातेऽविघ्नेन इत्यादिवक्ष्यमानमन्त्रान् पठेत् ॥
तथा च गरुडपुराणम् ।“मूलमन्त्रं ततो जप्त्वा प्रभाते तत् समापयेत् ।अविघ्नेन व्रतं देव त्वत्प्रसादात् समर्पितम् ॥
क्षमस्व जगतां नाथ त्रैलोक्याधिपते हर ।यन्मयाद्य कृतं पुण्यं तद्रुद्रस्य निवेदितम् ॥
त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् ।प्रसन्नो भव मे श्रीमन् मद्भूतिं प्रतिपद्यताम् ।त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः ॥
”परदिने ब्राह्मणान् भोजयित्वा चतुर्दशीलाभेतत्र तदलाभे अमावस्यायां पारणं कुर्य्यात् ।तत्र मन्त्रः ।“संसारक्लेशदग्धस्य व्रतेनानेन शङ्कर ।प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥
” * ॥
तत्र पार्थिवशिवलिङ्गपूजाविधिः । तत्र शिव-वाक्यं स्कान्दे ।“विप्रस्य तु सदैवाहं शुचेरप्यशुचेरपि ।गृह्वन् वलिं प्रहृष्यामि विप्राणामिव दर्शनात् ॥
वलिं पूजाम् । तथा, “शूद्रः कर्म्माणि यो नित्यं स्वीयानि कुरुतेप्रिये ।तस्याहमर्च्चां गृह्वामि चन्द्रखण्डविभूषिते ॥
”तथा, “नमोऽन्तेन शिवेनैव स्त्रीणां पूजा विधीयते ॥
”एवकारेण प्रणवनिवृत्तिः । एवं शूद्रस्यापि ।तथा नृसिंहतापनीये । “सावित्रीं प्रणवं यजु-र्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति । सावित्रीं प्रणवंयजुर्लक्ष्मीं स्त्री शूद्रो यदि जानीयात् समृतोऽधो गच्छति इति ।” नेच्छन्ति पर्य्यन्तंपराशरभाष्येऽपि लिखितम् । गोविन्दभट्ट-धृतम् ।“स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्द्विजः ।शूद्रो निरयमाप्नोति ब्राह्मणः शूद्रतामियात् ॥
”गौतमः ।“रात्रावुदङ्मुखः कुर्य्यात् दैवकार्य्यं सदैव हि ।शिवार्च्चनं सदाप्येवं शुचिः कुर्य्यादुदङ्मुखः ॥
”सदा दिवारात्रौ । अत्र हेतुमाह रुद्रयामले ।“न प्राचीमग्रतः शम्भोर्नोदीचीं शक्ति-संस्थिताम् ।न प्रतीचीं यतः पृष्ठमतो दक्षं समाश्रयेत् ॥
”यजमानः शम्भोः प्राचीमवस्थितये न समा-श्रयेत् शम्भोर्जगत्संहारकस्याग्रतः सांमुख्यात्पञ्चवक्त्रपक्षे प्रधानं वक्त्रं प्राच्यवस्थितम् ॥
एकवक्त्रपक्षे सुतरां तथा । तद्रूपमाह भविष्य-पुराणम् ।“सौम्यं मौलीन्दुभृत् त्र्यक्षं एकवक्त्रं चतुर्भुजम्शिवरूपं गृहे कुर्य्यात् प्रासादे वाप्यनिन्दितम् ॥
अत्राग्रे पुजानिषेधात् देवाग्रे स्वस्य चाप्यग्रेप्राची प्रोक्ता गुरुक्रमैः । इत्यस्य न विषयः ।किन्त्वभिधानादिप्रसिद्धा प्राची ग्राह्या । एत-दनुसाराद्वक्ष्यमाणपूर्व्वाद्याग्नेय्यन्तपूजा । अत-एव तन्त्रान्तरम् ।“यत्रैव भानुस्तु वियत्युदेतिप्राचीति तां वेदविदो वदन्ति ।तथा पुरः पूजकपूज्ययोश्चसदागमज्ञाः प्रवदन्ति तान्तु ॥
”एवञ्च देवतान्तरपूजा पूर्व्वाह्वे प्राङ्मुखेन सायंपपिमाभिमुखेन रात्राबुदङ्मुखेन कार्य्या ।“प्राक्पश्चिमोदगास्यस्तु प्रातः सायं निशासुच ॥
”इति वचनात् ॥
इति वाचस्पतिमिश्राः । मैवं पूजा रत्नाकरोक्त-भविष्यपुराणीयसप्ताक्षरसूर्य्यमन्त्रप्रस्ताव एवप्रागादिदिङ्नियमाभिधानात् । व्यवहारोऽपिअत्र न तथेति ॥
* ॥
लिङ्गपुराणे ।“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ।तस्मान्मृदापि कर्त्तव्यं ललाटेऽपि त्रिपुण्ड्रकम् ॥
नन्दिपुराणे ।“आयुष्मान् बलवान् श्रीमान् पुत्त्रवान् धन-वान् सुखी ।वरमिष्टं लभेल्लिङ्गं पार्थिवं यः समार्च्चयेत् ।तस्मात्तु पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् ॥
”भविष्ये ।“मृद्भस्मगोशकृत्पिण्डं ताम्रकांस्यमयं तथा ।कृत्वा लिङ्गं सकृत् पूज्य वसेत् कल्पायुतं दिवि ॥
वार्क्षं वित्तप्रदं लिङ्गं स्फाटिकं सर्वकामदम् ।नर्म्मदागिरिजं श्रेष्ठमन्यदपि हि लिङ्गवत् ॥
”लिङ्गवत् लिङ्गाकारम् । कालकौमुद्याम् ।“अक्षादल्पपरीमाणं न लिङ्गं कुत्रचिन्नरः ।कुर्व्वीताङ्गुष्ठतो ह्रस्वं न कदाचित् समाचरेत् ॥
अक्षोऽशीतिरक्तिका । अङ्गुष्ठतः बृहत्पर्व्व-ग्रन्थितः ।“अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदिश्यते ।तत्र तत्र बृहत्पर्व्वग्रन्थिभिर्मिनुयात् सदा ॥
”इति छन्दोगपरिशिष्टात् ॥
शिवधर्म्मे ।“सहस्रमर्च्चयेल्लिङ्गं निरयं स न गच्छति ।रुद्र्लोकमवाप्नोति भुक्त्वा भोगाननुत्तमान् ॥
”तथा ।“वालुकानि च लिङ्गानि सहस्राणि च कारयेत्सहस्रमर्च्चनात् सोऽपि लभते वाञ्छितं फलम् ॥
”ततश्चामुकतिथावारभ्यामुकलाभकामः सहस्र-मितपार्थिवशिवलिङ्गपूजनमिति यथास्थानेवाक्ये देयम् ॥
* ॥
ब्रह्मपुराणे ।“यावन्न दीयते चार्घ्यं भास्कराय निवेदितम् ।तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम् ॥
”राघवभट्टधृतम् ।“सर्व्वत्रैव प्रशस्तोऽब्जः शिवसूर्य्यार्च्चनं विना ॥
”अब्जः शङ्खः । अग्निपुराणे ।“तल्लिङ्गैः पूजयेन्मन्त्रैः सर्व्वदेवान् पृथक् पृथक् ।ध्यात्वा प्रणवपूर्वन्तु तन्नाम्ना सुसमाहितः ।नमस्कारेण मन्त्रेण पुष्पाणि विन्यसेत् पृथक् ॥
”देवीपुराणे ।“मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।स्नपनं पूजनञ्चैव विसर्ज्जनमतः परम् ॥
हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् ।पशुपतिः शिवश्चैव महादेव इति क्रमात् ॥
”अत्र पूर्व्वोक्तसप्तकर्म्माणि परवचनोक्तसप्त-नामभिः क्रियानुरूपविभक्तिमद्भिर्यथायथंकार्य्याणि । अदृष्टार्थयोरर्थक्रमासम्भवेन पांठ-क्रमादेव आवाहनात् प्राक् प्रतिष्ठा श्राद्धकुशासनदानवत् ॥
* ॥
तत्रानुष्ठानम् । हरायनम इति मृदाहरणम् । महेश्वराय नम इतिसंघट्टनम् । शूलपाणे इह सुप्रतिष्ठितो भव इतिप्रतिष्ठा । ध्यायेन्नित्यमित्यादिना ध्यात्वा पिनाकघृक् इहागच्छ इत्याद्यावाहनम् । पशुपतये नमइति स्नपनम् । एतत् पाद्यं नमः शिवाय नमएवमर्घ्यादिना पूजयेत् । विसर्ज्जनात् पूर्व्वंभविष्यपुराणोक्तं स्वभावसिद्धप्राच्यैशान्यादि-दिक्षु वामावर्त्तेन पूजनम् । यथा । सर्वायक्षितिमूर्त्तये नमः । भवाय जलमूर्त्तये नमः ।रुद्राय अग्निमूर्त्तये नमः । उग्राय वायुमूर्त्तयेनमः । भीमाय आकाशमूर्त्तये नमः । पशुपतयेयजमानमूर्त्तये नमः । महादेवाय सोममूर्त्तयेनमः । ईशानाय सूर्य्यमूर्त्तये नमः ।“मूर्त्तयोऽष्ठौ शिवस्यैताः पूर्वादिक्रमयोगतः ।आग्ने य्यन्ताः प्रपूज्यास्ता वेद्यां लिङ्गे शिवंयजेत् ॥
”ततो महादेव क्षमस्व इति संहारमुद्रया विस-र्ज्जयेत् ॥
* ॥
नन्दिपुराणे ।“गोभूतिलहिरण्यादिवलिपुष्पनिवेदने ।ज्ञेयो नमः शिवायेति मन्त्रः सर्व्वार्थसाघकः ॥
सर्व्वमन्त्राधिकश्चायमोङ्काराद्यः षडक्षरः ।तन्मन्त्रजापी तत्कर्म्मरतस्तद्गतमानसः ।निष्कामः पुरुषो राजन् स रुद्रपदमश्नुते ॥
”भविष्ये पञ्चाक्षरमुपक्रम्य ।“अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा ।महापातकयुक्तो वा मन्त्रस्यास्य जपे यथा ।अधिकारी भवेत् सर्व्व इति देवोऽब्रवीच्छिवः ॥
”इति तथेत्यर्थः ॥
पूर्व्वोक्तयथापदानुरोधात् ।तेन यथाधिकारी भवेत्तथाब्रवीदित्यर्थः । तथा, “सर्व्वेषामेव पात्राणां परं पात्रं महेश्वरः ।पतन्तं त्रायते यस्मादतीव नरकार्णवात् ॥
शिवमुद्दिश्य यद्दत्तं सर्व्व कारणकारणम् ।तदनन्तफलं दातुर्भवतीह किमद्भुतम् ॥
दत्त्वा नैवेद्यवस्त्रादि नाददीत कदाचन ।त्यक्तव्यं शिवमुद्दिश्य तदादाने न तत्फलम् ॥
”आदाने ग्रहणे । शिवधर्मे ।“तस्मात् पुष्पैः फलैः पत्रैस्तोयैरपि च यत्फलम्तदनन्तफलं ज्ञेयं भक्तिरेवात्र कारणम् ॥
”भविष्ये ।“लिङ्गानुलेपनं कार्य्यं दिव्यगन्धैः सुगन्धिभिः ।वर्षकोटिशतं दिव्यं शिवलोके महीयते ॥
”शिवधर्म्मे ।“तस्मात् पुष्पप्रदानेन लिङ्गेषु प्रतिमासु च ।अशीतिवर्षकोटीनां दुर्गतिं न नरो व्रजेत् ॥
”स्कान्दे ।“शुष्काण्यपि च पत्राणि श्रीवृक्षस्य सदैव हि ॥
”दातव्यानीति शेषः । भविष्ये ।“धुस्तूरकैश्च यो लिङ्गं सकृत् पूजयते नरः ।स गोलक्षफलं प्राप्य शिवलोके महीयते ॥
विल्वपत्रैरखण्डैश्च यो लिङ्गं पूजयेत् सकृत् ।सर्व्वपापैर्विनिर्मुक्तः शिवलोके महीयते ॥
”तंथा ।“सर्व्वकामप्रदं विल्वं दारिद्रस्य प्रणाशनम् ।विल्वपत्रात् परं नास्ति येन तुष्यति शङ्करः ॥
”तथा ।“केशकीटापबिद्धानि निशि पर्य्युषितानि च ।स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥
”तथा ।“देवदारुममेतञ्च सर्ज्जश्रीवासकुन्दुरुम् ।श्रीफलं चाज्यमिश्रन्तु दत्त्वाप्नोति परां गतिम्”सर्ज्जः शालरसः । श्रीवासः सरलद्रवः । कुन्दुरुःशैलेयम् ।“एभ्यः सौगन्धिकं धूपं षट्सहस्रगुणोत्तरम् ।अगुरुं शतसाहस्रं द्विगुणञ्चासितागुरुम् ।गुग्गुलुं घृतसंयुक्तं साक्षात् गृह्वाति शङ्करः ॥
”तथा ।“तैलेनापि हि यो दद्यात् घृताभावेन मानवः ।तेन दीपप्रदानेन शिववद्राजते भुवि ॥
”नन्दिकेश्वरे ।“अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् ।यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् ॥
”शालितण्डुलप्रस्थस्य कुर्य्यादन्नं सुसंस्कृतम् ।शिवाय तं चरुं दद्यात् चतुर्दश्यां विशेषतः ॥
”प्रस्थमानं प्रागुक्तम् । शिवसर्व्वस्वे स्कान्दम् ।एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् ।वर्षाणामयुतं भोगैः क्रीडते स शिवे पुरे ॥
एकं मोचाफलं पक्वं यः शिवाय निवेदयेत् ।वर्षलक्षं तथाभोगैः शिवलोके महीयते ॥
”शिवपुराणे ।“नैवेद्यं घृतसंयुक्तं मधुपर्कं निवेदयेत् ।अग्निष्टोमस्य यज्ञस्य फलमाप्नोति मानवः ॥
”शिवसर्व्वस्वे स्कान्दम् ।“परिपक्वं सुसंमृष्टमाज्यसिक्तं सुसंस्कृतम् ।शिवाय मांसं दत्त्वा तुंशृणु यत् फलमाप्नुयात् ॥
अशेषफलदानेन यत् फलं परिकीर्त्तितम् ।तत् फलं प्राप्नु यान्नित्यं सर्व्वं मांसनिवेदनात् ॥
”शिवधर्म्मे ।“लिङ्गवेदी भवेद्देवी लिङ्गं साक्षात् महेश्वरः ।तयोः संपूजनात् स्यातां देवी देवश्च पूजितौ ॥
”देवीपुराणे ।“सव्यं व्रजेत्ततोऽसव्यं प्रणालं नैव लङ्घयेत् ।एकीभूतमना रुद्रे यः कुर्य्यात् त्रिः प्रदक्षिणम् ॥
छिन्नस्तेन भवग्रन्थिर्न तस्य पुनरुद्भवः ॥
”भविष्ये ।“जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ।कृत्वा प्रणामं देवेशे सर्व्वान् कामानवाप्नुयात् ॥
”लिङ्गपुराणे ।“गन्धपुष्पनमस्कारैर्मुखवाद्यैश्च सर्व्वशः ।यो मामर्च्चयते तत्र तदा तुष्याम्यहं सदा ॥
”महाभारते ।“सर्व्वलक्षणहीनोऽपि युक्तो वा सर्व्वपातकैः ।सर्व्वं तरति तत् पापं भावयन् शिवमात्मना ।राघवभट्टधृतम् ।“अधोमुखे वामहस्ते ऊर्द्ध्वास्यं दक्षहस्तकम् ।क्षिप्त्वाङ्गुलीरङ्गुलीभिः संगृह्य परिवर्त्तयेत् ।प्रोक्ता संहारमुद्रेयमर्पणे तु प्रशस्यते ॥
”अर्पणे आत्मनीति शेषः । स्कान्दे ।“निर्म्माल्यं यो हि मद्भक्त्या शिरसा धारयि-ष्यति ।अशुचिर्भिन्नमर्य्यादो नरः पापसमन्वितः ॥
नरके पच्यते घोरे तिर्य्यग्योनौ च जायते ।ब्रह्महापि शुचिर्भूत्वा निर्म्माल्यं यस्तु धारयेत्तस्य पापं महच्छीघ्रं नाशयिष्ये महाव्रते ॥
”शुचिः स्नानादिनेति शेषः । एवञ्च ।“स्पृष्ट्वा रुद्रस्य निर्म्माल्यं सवासा आप्लुतःशुचिः ॥
”इति कालिकापुराणीयमशुचिविषयम् ॥
अनुपनीतविषयमिति श्रीदत्तः । बह्वृचगृह्य-परिशिष्टम् ।“अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।शालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रताम् ॥
कालिकापुराणे ।“यो यद्देवार्च्चनरतः स तन्नैवेद्यभक्षकः ।केवलं सौरशैवे तु वैष्णवो नैव भक्षयेत् ॥
”इति तिथ्यादितत्त्वम् ॥
* ॥
अन्यच्च ।ब्रह्मोवाच ।“शिवरात्रिव्रतं वक्ष्ये कथाञ्च सर्व्वकामदाम् ।यथा च गौरी भूतेशं पृच्छति स्म परं व्रतम् ॥
श्रीमहादेव उवाच ।माघफाल्गुनयोर्म्मध्ये या च कृष्णा चतुर्दशी ।तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः ॥
कामयुक्तो हरः पूज्यो द्वादश्यामेव केशवः ।उपोषितैः पूजितः सन्नरकात्तारयेत्तथा ॥
निषादश्चार्व्वुदे राजा पापी सुन्दरसेनकः ।स कुक्कुरैकसंयुक्तो मृगान् हन्तुं वनं गतः ॥
मृगादिकमसंप्राप्य क्षुत्पिपामार्दितो गिरौ ।रात्रौ तडागतीरे स निकुञ्जे जाग्रदास्थितः ॥
तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः ।पर्णानि चापतन्मूर्द्ध्नि लिङ्गस्यैवं न जानतः ॥
तेन धूलिनिरोधाय क्षिप्तं नीरञ्च लिङ्गके ।शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात् ॥
जानुभ्यामवनीं गत्वा लिङ्गं स्पृष्ट्वा गृहीतवान्एवं स्नानं स्पर्शनञ्च पूजनं जागरोऽभवत् ॥
प्रातर्गृहागतो भार्य्यादत्तान्नं भुक्तवान् स च ।काले मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते ॥
तदा मम गणैर्युद्धे जित्वा मुक्तीकृतः स च ।कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगोऽमलः ॥
एवमज्ञानतः पुण्यं ज्ञानात् पुण्यमथाक्षयम् ।त्रयोदश्यां शिवं पूज्य कुर्य्यात्तन्नियमं व्रती ॥
प्रातर्देव चतुर्द्दश्यां जागरिष्याम्यहं निशि ।पूजां दानं जपं होमं करिष्याम्यात्मशक्तितः ॥
चतुर्द्दश्यां निराहारो भूत्वा शम्भो परेऽहनि ।भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥
पञ्चगव्यामृतैः स्नात्वा अन्तकाले गुरुं श्रितः ।ओँ नमो नमः शिवाय गन्धाद्यैः पूजयेद्धरम् ॥
तिलतण्डुलव्रीहींश्च जुहुयात् स्वशृतं चरुम् ।हुत्वा पूर्णाहुतिं दद्यात् शृणुयाद्गीतसत्कथाम् ॥
अर्द्धरात्रे त्रियामे च चतुर्थे च पुनर्यजेत् ।मूलमन्त्रं तथा जप्त्वा प्रभाते च क्षमापयेत् ॥
अविघ्नेन व्रतं देव त्वत्प्रसादात् समर्पितम् ।क्षमस्व जगतां नाथ त्रैलोक्याधिपते शिव ॥
यन्मयाद्य कृतं पुण्यं तच्छिवस्य निवेदितम् ।त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् ॥
प्रसन्नो भव मे श्रीमन् मद्गृहं प्रतिगम्यताम् ।तदालोकनमात्रेण पवित्रोऽस्मि न संशयः ।भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् ॥
देवादिदेव भूतेश लोकानुग्रहकारक ।यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः ॥
इति क्षमाप्य च यतीन् कुर्य्यात् द्वादशवार्षिकम्कीर्त्तिश्रीपुत्त्रराज्यादि प्राप्य शैवं पुरं व्रजेत् ॥
द्वादशस्वपि मासेषु प्रकुर्य्यादिह जागरम् ।यतीन् द्वादश संपूज्य दीपदः स्वर्गमाप्नुयात् ॥
”इति गारुडे शिवरात्रिव्रतकथा १२४ अध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
