| YouTube Channel

शिवचतुर्दशी (zivacaturdazI)

 
शब्दसागरः
English
शिवचतुर्दशी
f.
(-शी) A festival held in honour of ŚIVA, on the fourteenth
of the dark-half of Māgha.
E.
शिव, चतुर्दशी fourteenth.
Yates
English
शिव-चतुर्दशी (शी) 3.
f.
Festival to
Shiva, on the 14th of the dark
half of
Māgha.
Spoken Sanskrit
English
शिवचतुर्दशी zivacaturdazI
f.
14th day of the dark half of the month mAgha kept as a festival in honour of skanda
Wilson
English
शिवचतुर्दशी
f.
(-शी) A festival in honour of ŚIVA, on the
fourteenth of the dark half of Māgha.
E.
शिव, and चतुर्दशी fourteenth.
Monier Williams Cologne
English
शिव—चतुर्दशी
f.
the 14th day of the dark half of the month Māgha kept as a festival in honour of (= शिव-रात्रि, q.v.),
Pañcar.
शब्दकल्पद्रुमः
Sanskrit
शिवचतुर्दशी,
स्त्री,
(शिवप्रिया चतुर्द्दशी ।)चतुर्दशीकर्त्तव्यशिवव्रतविशेषः यथा, --नन्दिकेश्वर उवाच ।“शृणुष्वावहितो ब्रह्मन् वक्ष्ये माहेश्वरं व्रतम्त्रिषु लोकेषु विख्याता नाम्ना शिवचतुर्द्दशी
मार्गशीर्षे त्रयोदश्यां सितायामेकभक्तकम् ।प्राथयेद्देवदेवेशं त्वामहं शरणं गतः
चतुर्द्दश्यां निराहारः समभ्यर्च्च्य शङ्करम् ।सुवर्णवृषभं दत्त्वा भोक्ष्यामीति परेऽहनि
एवं नियमकृत् सुप्त्वा प्रातरुत्थाय मानवः ।कृतस्नानजपः पश्चादुमया सह शङ्करम्
पूजयेत् कमलैः शुक्लैर्गन्धधूपानुलेपनैः ।पादौ नमः शिवायेति शिरः सर्व्वात्मने नमः
ललाटं वामदेवाय नेत्राणि हरये नमः ।मुखमिन्दुमुखायेति श्रीकण्ठायेति कन्धरम्
सद्योजाताय कर्णौ तु वामदेवाय वै भुजौ ।अघोरहृदयायेति हृदयञ्चापि पूजयेत्
स्तनौ तत्पुरुषायेति तथेशायेति चोदरम् ।पार्श्वे चानन्तधर्म्माय ज्ञानभूताय वै कटिम्
ऊरू चानन्तवैराजसिंहायेति पूजयेत् ।अनन्तैश्वर्य्यनाथाय जानुनी चार्च्चयेद्बुधः
प्रधानाय नमो जङ्घेगुल्फौ व्योमात्मने नमः ।व्योमकेशात्मरूपाय पृष्ठमभ्यर्च्चयेन्नरः
नमः पुष्ट्यै नमस्तुष्टै पार्व्वतीञ्चापि पूजयेत् ।ततस्तु वृषभं हैममुदकुम्भसमन्वितम्
शुक्लमाल्याम्बरयुतं पञ्चरत्नपरिष्कृतम् ।भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मनाय निवेदयेत्
प्रीयतां देवदेवोऽत्र सद्योजातः पिनाकधृक् ।ततस्तु विप्रानन्नेन तर्पयेच्छक्तितः शुभान्
पृषदाज्यञ्च संप्राश्य स्वपेद्भूमावुदड्मुखः ।पञ्चदश्यां ततः पूज्य विप्रान् भूञ्जीत वाग्यतः
तद्वत् कृष्णचतुर्द्दश्यामेतत् सर्व्वं समाचरेत् ।चतुर्द्दशीषु सर्व्वासु कुर्य्यात् पूर्व्ववदर्च्चनम्
ये तु मासविशेषाः स्युस्तान्निबोध क्रमादिह ।मार्गशीर्षादिमासेषु स्तवमेतदुदीरयेत्
शङ्कराय नमम्तुभ्यं नमस्ते करवीरकम् ।त्र्यम्बकाय नमस्तेऽस्तु महेश्वर नमः परम्
नमस्तेऽस्तु महादेव स्थाणवे ततः परम् ।नमः पशुपते नाथ नमस्ते शम्भवे पुनः
नमस्ते परमानन्द नमः सोमार्द्धधारिणे ।नमो भीमाय इत्येवं त्वामहं शरणं गतः
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।पञ्चगव्यं तथा विल्वं यवान् गोशृङ्गवारि
तिलांश्च कृष्णान् विधिवत् प्राशनं क्रमशःस्मृतम् ।प्रतिमासं चतुर्द्दश्योरेकैकं प्राशनं स्मृतम्
मन्दारैर्म्मालतीभिश्च तथा धुस्तूरकैरपि ।सिन्धूवारैरशोकैश्च मल्लिकाभिश्च पाटलैः
अर्कपुष्पकदम्बैश्च शतपत्रैस्तथोत्पलैः ।एकैकेन चतुर्द्दश्यामर्च्चयेत् पार्व्वतीपतिम्
पुनश्च कार्त्तिके मासि संप्राप्ते तर्पयेत् द्विजान् ।अन्नैर्नानाविधैर्भक्षैर्वस्त्रमाल्यविभूषणैः
कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः ।उमामहेश्वरं हैमं वृषभञ्च गवा सह
मुक्ताफलाष्टकयुतं सितनेत्रत्रयावृतम् ।सर्व्वोपस्करयुक्तायां शय्यायामुदकुम्भयोः
ताम्रपात्रोपरि पुनः शालितण्डुलसंयुतम् ।स्थाप्य विप्राय शान्ताय वेदव्रतपराय
ज्येष्ठसामविदे देयं वकव्रतिने क्वचित् ।गुणज्ञे श्रोत्रिये दद्यादाचार्ये तत्त्ववेदिनि
अव्यङ्गाङ्गाय सौम्याय सदाकल्याणकारिणि ।सपत्नीकाय संपूज्य माल्यवस्त्रविभूषणैः
गुरौ सति गुरोर्देयं तदभावे द्विजातये ।न वित्तशाठ्यं कुर्व्वीत कुर्व्वन् मोहात् पतत्यधःअनेन विधिना यस्तु कुर्य्यात् शिवचतुर्द्दशीम् ।सोऽश्वमेधसहस्रस्य फलमाप्नोति मानवः
ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम् ।पितृभिर्भ्रातृभिश्चैव तत् सर्व्वं नाशमाप्नुयात्
दीर्घायुरारोग्यकुलाभिवृद्धि-रत्राक्षयामुत्र चतुर्भुजत्वम् ।गणाधिपत्यं दिवि कल्पकोटि-शतं वसित्वा पदमेति शम्भोः
बृहस्पतिरप्यनन्तमस्याःपहल्मिन्द्रो पितामहोऽपि वक्तुम् ।न सिद्धगणोऽप्यलं चाहंयदि जिह्वायुतकोटयोऽपि वक्त्रे
भवत्यमरवल्लभः पठति यः स्मरेद्वा सदाशृणोति विमत्सरः सकलपापविध्वंसिनीम् ।इमां शिवचतुर्द्दशीममरकामिनीकोटयःस्तुवन्ति तमनिन्दितं किमु समाचरेद्यः सदा
या वाथ नारी कुरुते भक्त्याभर्त्तारमापृच्छ सुतं गुरुं वा ।सापि प्रसादात् परमेश्वरस्यपरं पदं याति पिणाकपाणैः
”इति मात्स्ये शिवचतुर्द्दशीव्रतं ८० अध्यायः
*
फाल्गुनी कृष्णा चतुर्द्दशी तत्र शिवव्रतं कर्त्त-व्यम् तस्य विवरणं शिवरात्रिशब्दे द्रष्टव्यम्
माघ फाल्गुन-चैत्र-वैशाख-श्रावण-भाद्रेषुदिवादण्डा यथा
वाचस्पत्यम्
Sanskrit
शिवचतुर्दशी स्त्री शिवप्रिया चतुर्दशी फाल्गुनकृष्णचतु-दस्याम् व्रतशब्दे शिवचतुर्दशीव्रतं दृश्यम्