| YouTube Channel

शिल्पशास्त्रं (zilpazAstraM)

 
शब्दकल्पद्रुमः
Sanskrit
शिल्पशास्त्रं,
क्ली,
(शिल्पस्य शास्त्रम् ।) शिल्प-कर्म्मग्रन्थः तच्छास्त्राणि बहूनि सन्ति तन्मध्येवास्तुशास्त्रैकं लिख्यते यथा, --“स्त्रीपुत्त्रादिकभोगसौख्यजनकं धर्म्मार्थकाम-प्रदंजन्तूनां लयनं सुखास्पदमिदं शीताम्बु घर्म्मा-पहम् ।वापीदेवगृहादिपुण्यमखिलंगेहात् समुत्पद्यतेगेहं पूव्वमुशन्ति तेन विबुधाः श्रीविश्वकर्म्मा-दयः
मिद्ध्यै गृहारम्भमुशन्ति वृद्धायथोदिते मामि वलक्षपक्षे ।शशाङ्कवीर्य्ये सुदिने निमित्तेशुभं रवौ सीम्यगते प्रवेशम्
चैत्रे शोककरं गृहादि रचितं स्यान्माधवेऽर्थ-प्रदंज्यैष्ठे मृत्युकरं शुचौ पशुहरं तद्वृद्धिदंश्रावणे ।शून्यं भाद्रपदेऽश्विने कलिकरं भृत्यक्षयं कार्त्तिकेधान्यं मार्गसहस्ययोर्दहनभोर्माघे श्रियःफाल्गुने
आदित्ये हरिकर्कनक्रघटगे पूर्व्वापरास्यं गृहंकर्त्तव्यं तुलमेषवृश्चिकवृषे याम्योत्तरास्यं तथा ।द्वारं भिन्नतथा करोति कुमती रोगार्थनाश-स्तदाकन्यामीनधनुर्गते मिथुनगे चास्मिन्न कार्य्यंगृहम्
कन्यादित्रिषु पूर्वतो यमदिशि त्याज्यञ्च चापा-दितोद्वारं पश्चिमतस्त्रिके जलचरात् सीम्येरवौयुग्मतः ।यस्माद्वत्समुखं दिशासु भवनं द्वारादिकंहानिकृत्सिंहं वापि वृषञ्च वृश्चिकघटं वाते हितंसर्वतः
प्राची मेषतुलारवावुदयति स्याद्वैष्णवे वह्निभेचित्रास्वात्रिभमध्यगा निगदिता प्राची बुधैःपञ्चधा ।प्रासादो भवनं करोति नगरं दिङ्मूढमर्थक्षयंहर्म्येदेवगृहे पुरे चनितरामायुर्धनं दिङ्मुखे
तारे मार्कटिके ध्रुवस्य समतां नीते बले वैनतेदीपाग्रेण तदैक्यतश्च कथिता सूत्रेण सौम्यादिशा ।शङ्कोर्नेत्रगुणेन ३६ मण्डलवरे छाया तयो-र्मत्स्ययो-र्जाता पत्रयुतिस्तु शङ्कुतलतो याम्योत्तरैस्तत्-त्रुटेः
राशोनामलिमीनसिंहभवनं पूर्व्वामुखं शोभनंकन्याकर्कटनक्रराशिगृहिणां याम्याननंमन्दिरम् ।राशेर्धन्वितुलायुगस्य सदनं शस्तं प्रतीचीमुखंपुंसां कुम्भवृषाजराशिभजतां सौम्याननंस्याद्गृहम्
*
अथ भूपरिग्रहः ।“श्वेता ब्राह्मणभूमिका घृतवद्गन्धा शुभ-स्वादिनीरक्ता शोणितगन्धिनी नृपतिभूः स्वादे कषायाच सा ।स्वादेऽम्ला तिलतैलगन्धिरुदिता पीता वैश्यामहीकृष्णा मत्स्यसगन्विनी कटुका शूद्रेतिभूलक्षणम्
स्वादे भवेद्या मधुरा सिताभाचतुर्षु वर्णेषु मही प्रशस्ता ।स्नेहान्विता बभ्रु भुजङ्गयोर्यासौहार्दवत्याखुविडालयोर्व्वा
*
परीक्षितायां भुवि विघ्नराजंसमर्च्चयेत् चण्डिकया समेतम् ।क्षेत्राधिपं चाष्टदिशाधिनाथान्सुपुष्पधूपैर्बलिभिः सुखाय
खातं भूमिपरीक्षणे करमितं तत् पूरयेत्तन्-मृदाहीने हीनफलं समे समफलं लाभो रजोवर्द्धिते ।तत् कृत्वा जलपूर्णमाशतपदं गत्वा परीक्ष्यं पुनःपादोनेऽर्द्धविहीनकेऽथ निभृते मध्याधमेष्टाम्बुनिभूमेः प्राक् प्रवणञ्च शङ्करककुप्सौम्याश्रितंसौख्यदंवह्नौ वह्निभयं यमे मरणं चौराद्भयं रक्षसिवायव्ये प्रवणञ्च धान्यहरणं स्याच्छोकदं वारुणंविप्रादेरनुवर्णतश्च सुखदं सृष्टिक्रमात् सौम्यतःअग्नौ राक्षसवायुशङ्करदिशि स्थाप्याः क्रमात्कीलकाःअश्वत्थात् खदिरात् शिरीषककुभात् वृक्षात्क्रमेण द्विजाः ।वर्णानां कुशमुञ्जकाशशणजं सूत्रं क्रमात् सूत्रणेनिम्ना भू स्फुटितोषरा विलवती शल्यैर्युतानाशुभा
”ककुभादित्यत्र वकुलादिति पाठः
*
“प्रश्नत्रयं वापि गृहाधिपेनदेवस्य वृक्षस्य फलस्य वापि ।वाच्यं हि कोष्ठाक्षरसंयुतेनसत्यं विलोक्यं भवनेषु सृष्ट्या
वा का चा टा ता सा पापवर्णाःप्राच्यादिस्थे कोष्ठके शल्यमुक्तम् ।केशाङ्गाराः काष्ठलोहास्थिकाट्यंतस्मात् कार्य्यं शोधनं भूमिकायाः
शल्यं गवां भूपभयं हयानांरुजं शुनोऽत्वोः कलहप्रणाशौ ।स्वरोष्ट्रयोर्हानिमपत्यनाशंस्त्रीणामजस्याग्निभयं तनोति
*
कन्यादौ रवितस्त्रये फणिमुखं पूर्वादिसृष्टिक्रमंख्यातं वास्तुवपुर्दिशात्रयगतं लाङ्गुलपृष्ठं शिरःद्वारं तस्य मुखे गृहादि भयदं कुक्षिद्वयेसौख्यदंदुःखं प्राक्खनने शिरोऽङ्घ्रिवपुषः कुक्षौ सुखंदक्षिणे
प्राच्यां नागमुखं बुधैर्निगदितं भाद्राश्विनेकार्त्तिके ।मार्गात् फालगुनशुक्रतः क्रमतया याम्ये जलेचोत्तरे ।क्षेत्रे चाष्टविभाजिते दिनकराद्वाराल्लिखेत्कोष्ठगान्शन्यङ्गारकयोश्च तत्र फणिनः शारीरकं नोखनेत्
*
शीर्षे मातृपितृक्षयः प्रथमतः खाते रुजापुच्छकेपृष्ठे हानिभये कुक्षिखनने स्यात् पुत्त्रधान्या-दिकम् ।पूर्वास्येऽनिलखातनं यममुखे खातं शिवेकारयेत्शीर्षे पञ्चिमगे वह्निखननं सौम्ये खनेन्नैरृतेदक्षिणकोणे पूर्वविभागे पूजनपूर्वं शिलासमर्प्या ।स्थाप्या शेषशिला दक्षिणतः स्तम्भाः समर्प्याविधानेन
*
ब्रह्मशम्भुर्यथा ।“सूत्रं भित्तिशिलान्यासं स्तम्भस्यारोपणं तथा ।पूर्वदक्षिणोर्मध्ये कुर्य्यादित्याह काश्यपः
”नारदः ।“नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम् ।पूर्वादिदिक्शिरोवामपार्श्वाशायां प्रद-क्षिणम्
”वास्तुशास्त्रेऽप्युक्तम् ।“वास्तोः शिरसि पुच्छे वामकुक्षौ पृष्ठतः ।आयुष्कामः खनेन्नैव दक्षकुक्षौ खनिः शुभा
भित्तेर्मूलं स्थापनीयं जलान्तेपाषाणे वा हेमरत्नैः सगर्भम् ।शीर्षे गुर्वो लेपहीनाधिका वासन्धिश्रेणिः पादहीनार्थहान्यैः
भवनपुरसुराणां सूत्रणे पूर्वमुक्तःकथित इह पृथिव्याः शोधनेऽपि द्वितीयः ।तदनु मुखनिवेशे स्तम्भसंरोपणे स्या-द्भवनवसनकाले पञ्चधा वास्तुयज्ञः
*
वृक्षा दुग्धसकण्टाश्च फलिनस्त्याज्या गृहाद्दूरतःशस्ते चम्भकपाटले कदली जाती तथाकेतकी ।यामादूर्द्ध्वमशेषवृक्षसुरजा च्छाया शस्ता गृहेपार्श्वे कस्य हरेरवीशपुरतो जैनानुचण्ड्याःक्वचित्
दुग्धवृक्षा द्रविणस्य नाशंकुवन्ति ते कण्टकिनोऽरिभीतिम् ।प्रजाविनाशं फलिनः समीपेगृहस्य वर्ज्याः कलधौतपुष्पाः
दुष्टो भूतसमाश्रितोऽपि विटपी नोच्छिद्यतेशक्तितःतद्विल्वीञ्च शमीमशोकवकुलौ पुन्नाग-सच्चम्पकौ ।द्राक्षापुष्पकमण्डपञ्च तिलकान् कृष्णां वपे-द्दाडिमींसौम्यादेः शुभदौ कपीतनवटावौदुम्बराश्व-त्थकौ
उत्सङ्गनामाभिमुखः प्रवेशःस्यात् पृष्ठभङ्गो भवनस्य पृष्ठात् ।विनाशहेतुः कथितोऽपसव्यःसृष्ट्या प्रशस्तो भवनेऽखिलेऽसौ
प्रावेशः प्रतिकायको वरुणदिग्वक्त्रो भवेत्सृष्टितोवामावर्त्त उदाहृतो यममुखेऽसौ हीनबाहु-र्बुधैः ।उत्सङ्गो नरवाहनाभिवदनः सृष्ट्या यथानिर्म्मितःप्राग्वक्त्रोऽपि पूर्णबाहुरुदितो गेहे चतुर्द्धापुरे
*
हस्तः पर्वाष्टयुक्तो मुनिवररचितः पर्व चैकंत्रिमात्रंमात्रा षण्णां यवानामुदरमिलिता निस्त्वचा-मुत्तमानाम् ।पुष्पैश्चत्वारि पूर्वं तदनु विभजेदङ्गुलैः पर्व-पुष्पै-र्निग्रन्थी रक्तकाष्ठो मधुमय उदितः खादिरोवंशधात्वोः
ज्येष्ठोऽष्टाभिर्यवोदरैस्तु मुनिभिर्म्मध्यस्तु षट्कन्यसोमाप्यं चोत्तमकेन ग्रामनगरंक्रोशादिकं योज-नम् ।प्रासादप्रतिमे नृपस्य भवनं मध्येन हर्म्यादिकंयानं षड्यवसम्भवेन शयनं छत्रासनास्त्रा-दिकम्
*
रुद्रो वायुर्विश्वकर्म्मा हुताशोब्रह्मा कालस्तोयपः सोमविष्णुः ।पुष्पे देवा मूलतोऽस्मिंश्च मध्यात्पञ्चाष्टान्त्यं द्व्यग्निवेदैर्विभज्यम्
ईशो मारुतविश्ववह्निविधयः सूर्य्यश्च रुद्रो यमोवैरूपो वसवोऽष्ट दन्तिवरुणौ षड्वक्त्र इच्छाक्रिया ।ज्ञानं वित्तपतिर्निशाकरजयौ श्रीवासुदेवो हलीकामो विष्णुरितिक्रमेण मरुतो हस्ते त्रयो-विंशतिः
*
उच्चाटनं रोगभयञ्च दुःखंवह्नेर्भयं पीडनकं प्रजायाः ।मृत्युर्विनाशोऽपि धनक्षयः स्यान्-मोहः क्रमाद्दैवतपीडनेन
*
हस्तो यत्नात् पुष्पयोरन्तरालेत्वष्ट्रा धार्य्यो मन्दिरादौ निवेशे ।हस्ताद्भूमौ यात्यकस्मात्तदासौकार्य्ये विघ्नं दुःखमाविष्करोति
तालो द्वादशमात्रिकापरिमितस्तालद्वयं स्यात्करःपादोनद्विकरोऽपि किष्कुरुदितश्चापश्चतुर्भिःकरैः ।क्रोशो दण्डसहस्रयुग्ममुदितो द्वाभ्याश्च गव्यूतिकाताभ्यां योजनमेव भूमिरखिला कोटीशतंयोजनैः
सूत्राष्टकं दृष्टिनृहस्तमौञ्जंकार्पासजं स्यादवलम्बसंज्ञम् ।काष्ठञ्च सृष्टाख्यमतोऽपि लेख्य-मित्यष्ट सूत्राणि वदन्ति सन्तः
इति वास्तुशास्त्रे राजवल्लभमण्डने मिश्रकालक्षणवर्णनं नाम अध्यायः
*
“संग्रामेऽन्धकरुद्रयोस्तु पतितः स्वेदो महेशात्क्षितौतस्माद्भूतमभूच्च भीतिजननं द्यावापृथिव्यां-महत् ।तद्देवै रभसा विगृह्य निहितं भूमावधोवक्त्रकंदेवानां रसनाच्च वास्तुपुरुषस्तेनैव पुज्यो बुधैः
प्रासादे भवने तडागखनने कूपे वापीवनेजीर्णोद्धारपुरे यागभवने प्रारम्भनिर्वर्त्तने ।वास्तोः पूजनकं सुखाय कथितं पूजां विनाहानयेपादौ रक्षसि कं शिवेऽङ्घ्रिकरयोः सन्धी चकोणद्वये
क्षेत्राकृतिर्वास्तुरिहार्च्चनीय-स्त्वेकांशतोभागसहस्रयुक्तः ।साधारणोऽष्टाष्टपदोऽपि तेषुचैकाधिकाशीतिपदस्तथैव
*
ग्रामे भूपतिमन्दिरे नगरे पूज्यश्चतुःषष्टिकै-रेकाशीतिपदैःसमस्तभवने जीर्णे नवाब्ध्यंशकैः ।प्रासादेऽथ शतांशकैस्तु सकले पूज्यस्तथा मण्ड्येकूपे षण्णवचन्द्रभागसहिते १९६ वापीतडागेवने
ईशो मूर्द्ध्नि समाश्रितः श्रवणयोः पर्जन्यनामादिति-रापस्तस्य गले तदंशयुगले प्रोक्तो जयश्चा-दितिः ।उक्तावर्य्यमभूधरौ स्तनयुगे स्यादापवत्सो हृदिपञ्चेन्द्रादिसुराश्च दक्षिणभुजे वामे नागा-दयः
सावित्रः सविता दक्षिणकरे वामे द्वयं रुद्रतोमृत्युर्मैत्रगणस्तथोरुविषये स्यान्नाभिपृष्ठे विधिःमेढ्रे शत्रुजयौ जानुयुगले तौ वह्निरोगौस्मृतौपूष्णो नन्दिगणाश्च सप्त विबुधाः कल्प्याः पदोःपैतृकः
*
ईशस्तु पर्ज्जन्यजयेन्द्रसूर्य्याःशत्यो भृशाकाशक एव पूर्व्वै ।वह्निश्च पूषा वितथाभिधानोगृहक्षतः प्रेतपतिः क्रमेण
गन्धर्वभृङ्गौ मृगपितृसंङ्गौद्वारस्थसुग्रीवकपुष्पदन्ताः ।जलाधिनाथोऽप्यसुरश्च शेषःस पापयक्ष्मापि रोगनागौ
मुख्यश्च भल्लाटकुवेरशैला-स्तथैव बाह्ये दितितोऽदितिश्च ।द्वात्रिंशदेवं क्रमतोऽर्च्चनीया-स्त्रयोदशैव त्रिदशाश्च मध्ये
प्रागर्य्यमा दक्षिणतो विवस्वान्मैत्रोऽपरे सौम्यदिशाविभागे ।पृथ्वीधरोऽसावथ मध्यतोऽपिब्रह्मार्च्चनीयः सकलेषु मध्ये
आपापवत्सौ शिवकोणमध्येसावित्रकोऽग्नौ सविता तथैव ।कोणे महेन्द्रेन्द्रजयौ तृतीयेरुद्रोऽनिलेऽन्योऽपि रुद्रदासः
ईशानबाह्ये चरकी द्वितीयेविदारिका पूतनिका तृतीये ।पापाभिधा मारुतकोणके तुपूज्याः सुरा उक्तविधानतस्तु
*
ब्रह्मा वेदपदस्तु तेन समका देवार्य्यमाद्यास्त्वमीकोणेऽष्टौ द्विपदास्तथाष्टमरुतः कोणेऽर्द्धभागाद्बहिः ।शेषा एकपदाः सुरास्तु कथिता वेदर्त्तुके-६४ऽथो नवब्रह्मा षट्पदिनोऽर्य्यमादिविबुधा ईशादयश्चै-कशः
ब्रह्मा कलांशो वसुतोऽर्य्यमाद्याःकोणेऽष्ट वाह्येऽपि सार्द्धभागाः ।विधातृकोणे द्विपदास्तथाष्टौशेषाः सुरा एकपदाः शतांशे
*
ब्रह्माजिनांश २४ उदितः शिवतोऽर्य्यमाद्याःकोणेषु सार्द्धपदतोऽपि तथैव चाष्टौ ।शेषा द्विभागसमका रविभागकोऽयंपूज्यो रथाश्वगजवाहनकेऽम्बुयन्त्रे
यन्त्रे त्रयोदशपदैरपि पूजनीय-स्तत् पञ्चविंशतिरजो दशतोऽर्य्यमाद्याः ।कोणेऽब्धयोऽमरगणा वहिके कलांशाभद्रेऽब्धिकं रविविभागपरे द्धिभागाः
*
द्वात्रिंशत् कमलासनोऽर्य्यममुखाः स्युः सूर्य्य-भागा क्रमात्कोणेऽन्त्येऽष्टसुरा द्विभागसहिता बाह्येषुसार्द्धांशकाः ।अष्टौ रामपदाः पुनर्द्विपदकाः षड्भागिनोऽष्टौसुराःक्षेत्रे षण्णवचन्द्रभागसहिते १९६ स्याद्देवतानांक्रमः
*
वेदांशो विधिरर्य्यमप्रभृतयस्त्रंशा नवस्वष्टकेकोणेऽन्त्येऽष्टपदार्द्धगाः परसुराः षड्भागहीनेपदे ।वास्तोर्नन्दयुगांश ४९ एवमधुनाष्टांशैश्चतुः-षष्टिकेसन्धेः सूत्रमितान् सुधीः परिहरेद्भित्तीस्तुलाःस्तम्भकात्
*
रेखाद्वयं कोणगतं विधेय-मंशान्तरेणैव तु कर्णसूत्रात् ।यदष्टसूत्रैः कथितं तु पद्मंतत्पीडनात् स्वामिधनप्रणाशः
प्रोक्तं चतुर्विंशतिलाङ्गुलं यत्पादार्द्धेगं हानिकरं प्रजायाः ।पड भिस्तु सूत्रैर्मरणाय वज्रंकोण त्रिशूलञ्च रिपोर्भयाय
परीक्ष्य भूमीमवसेचयेत्तांसुपञ्चगव्येन ततो विलेख्या ।रेखा सुवर्णन मणिप्रबालैःपिष्टाक्षतैर्वापि पुनस्तदूर्द्धे
द्वात्रि शदंशाः पृथुले दैर्घ्यकोणेषु वर्ज्या जिनसंख्य २४ भागाः ।एतत्पदानां कथितं सहस्रंक्षेत्रञ्च सर्वोत्तममेव वास्तोः
*
मध्ये ब्रह्मा पूजनीयः शतांशै-श्चत्वारिंशद्भिः पदैर्बाह्यवीथी ।प्रोक्ता देवा अर्य्यमाद्या अशीत्यामध्ये कोणेऽष्टौ शतं चाष्टषष्ट्या
कोणेऽब्धयो नन्दपदैः सुराश्चशेषाश्च बाह्ये वसुभागिनश्च ।वीथी बाह्ये रविभागयुक्तंशतं पदानां कथितं मुनिन्द्रैः
दुर्गप्रतिष्ठाविषये निवेशतथा महार्च्चासु कोटिहोमे ।मेरौ राष्ट्रेष्वपि ज्येष्ठलिङ्गेवास्तुः सहस्रेण पदैः प्रपूज्यः
*
त्रिमेखलं शङ्करदिग्विभागेकुण्डं प्रकुर्य्यात् करतो युगास्रम् ।होमं सुराणां शतमष्टयुक्तंप्रत्येकमष्टाधिकविंशतिं वा
मध्वाज्यदुग्धैर्दधिशर्कराभ्यांकृष्णैस्तिलैर्व्रीहियवैर्नवान्नैः ।पलाशदूर्वाङ्कुरदुग्धवृक्षै-र्होमं तदन्ते सुरपूजनञ्च
ईशे घृतान्नमपरे सघृतोदनञ्चदद्याज्जयाय हरिताम्बरमेव कूर्म्मम् ।रत्नानि पिष्टकमयं कुलिशं सुरेन्द्रेधूम्रं वितानमुदितञ्च दिवाकरस्य
गोधूमयुक्तं घृतमेव सत्येमत्स्यान् भृशे शष्कुलिमन्तरीक्षे ।वह्नौ स्रु चं पूष्णि तथैव लाजादद्यादधर्म्मे चणकौदनञ्च
मध्वन्नञ्च गृहक्षताय यमतो मांसौदनं दापयेत्गन्धर्वे शतपत्रमोदनयुतं भृङ्गेऽजजिह्वां तथा ।प्रोक्ता नीलजवा मृगाय पितृतो देयाश्च सन्मो-दकाःपैष्टं कृष्णबलिं तथैव विधिवद्दद्याच्च दौवारिके
सुग्रीवाय पूपका गणवरे श्वेतप्रसूनं पयःपद्मं वारुणके सुराप्यसुरके तैलं तिलाः शेषके ।पापाख्येऽपि पक्वमांसमुदितं रोगाय सर्वौ-षधीःगोक्षीरं फणिने मुख्यविबुधे श्रीखण्डभक्षेतथा
भल्लाटाय सुवर्णकं धनपतौ मण्डाज्यदुग्धं तथाशक्तून् पर्वतकेऽदितेस्तु लपिकां दद्याद्दितौपूरिकाम् ।सक्षीरं दधिकं क्रमेणा विहितं त्वापापवत्से तथा-प्यर्य्यम्णेऽरुणचन्दनञ्च पयसा युक्ता तथाशर्करा
सावित्रेऽपि लड्डुकाश्च सवितुः पूपा गुडासद्घृतादेयं वाथ विवस्वत घृतयुतं दुग्धं तथा मोदकाःइन्द्राख्ये कुसुमस्रगिन्द्रजयके देयं तथा चम्पकंमैत्रे दुग्धघृतञ्च गुग्गुलुयुतो गन्धस्तथा रुद्रके
तत्सिद्धमन्नन्त्वपि रुद्रदासेसद्रत्नमालां पृथिवीधराय ।पयस्वलां गाममृतं घटञ्चदद्याद्विधौ स्वर्णमतोऽखिलेभ्यः
सुरास्थिमांसं विहितं चरक्येतथैव पीतौदनको विदार्य्यै ।रक्तौदनैः पूतनिकार्च्चनीयामत्स्यासवेनापि तथैव पापाः
मांसं पक्वं पिलिपिञ्जाय तज्जृम्भायै विहितंसद्यः ।स्कन्दाय तन्मदिरायुक्तं चार्य्यम्णे दिशिपूर्व्वादौ
यः पूजयेद्वास्तुमनन्ययुक्तान तस्य दुःखं भवतीह किञ्चित् ।जीवत्यसौ वर्षशतं सुखेनस्वर्गे नरस्तिष्ठति कल्पमेकम्
”इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रेराजवल्लभे वास्तुलक्षणम् अध्यायः
*
“आयर्क्षव्ययतारकांशकविधुं राशिं गृहाद्यंतथाधान्यं सौख्ययशोऽभिवृद्धिरधिका यस्मादतःकथ्यते ।आयास्तु ध्वजधूमसिंहशुनका गोरासभेभाःक्रमात्ध्वाङ्क्षस्त्वष्टम आयभेषु विषमाः श्रेष्ठाः सुराणांगृहे
मानं देवगृहादिभूपसदने शास्त्रोक्तहस्तेन तत्गेहे कर्म्मकरस्य नाथकरतः शास्त्रेण देयं गृहेअयो दण्डकराङ्गुलादिमपि ते हस्ताङ्गुलैरंशतःक्षेत्रस्याप्यनुमानतोऽपि नगरे दण्डेन मानं पुरेआयः कल्प्यो हस्तमेयैः करैश्चक्षेत्रे मात्रानिर्म्मिते मातृकाभिः ।मध्ये पर्य्यङ्कासने मन्दिरे चदेवागारे मण्डपे भित्तिवाह्येछत्रे देवगृहे द्विजस्य भवने स्याद्वेदिकायां जलेविस्तारोच्छ्रयवस्त्रभूषणमठागारेषु शस्तो ध्वजःधूमो वह्न्युपजीविनामपि गृहे कुण्डे होमो-द्भवेसिंहद्वारनृपालयेऽस्त्रनिचये सिंहश्च सिंहा-सने
चण्डाले शुनको विशान्तु वृषभो हर्म्ये हयानांहितोबानिज्ये धनभोजनस्य भवनेऽथो बाह्यगेहेखरः ।वादित्रे स्वरजीविनामपि गृहे शौद्रे गजोयोजितोयाने स्त्रीगृहवाहने शयने शस्तो गृहे हस्ति-नाम्
ध्वाङ्क्षः शिल्पितपस्विनां हितकरस्तेषां मुखंनामवत्ध्वाङ्क्षः काकमुखो विडालवदनो धूमो ध्वजोमानुषः ।मव पक्षिपदा हरेरिव गलो हस्तौ नरस्येव तुप्राच्याः सृष्टिगताः क्रमेण पतयो ह्यष्टौ तेसम्मुखाः
*
देयाः सिंहगजध्वजादिवृषभे सिंहध्वजौ कुञ्जरेसिंहो वै ध्वज इष्यते वृषभोऽन्यत्रापि देयोबुधैः ।सिंहो हस्तिवृषालये मृतिकरस्त्वायस्य वक्त्रंगृहंतस्मिन्नेव वामदक्षिणदिशाद्वारे आयःशुभः
व्यासे दैर्घ्यगुणेऽष्टभिर्विभजिते शेषो ध्वजाद्या-यको-ऽष्टघ्ने तद्गुणिते धिष्ट्यभजिते स्यादृक्षमञ्चा-दिकम् ।नक्षत्रे वसुभिर्व्ययोऽपि भजिते हीनस्तु लक्ष्मी-प्रद-स्तुल्यायश्च पिशाचको ध्वजमृते संवर्द्धितोराक्षसः
तन्मूले व्ययहर्म्म्यनामसहिते भक्ते त्रिभिस्त्वंशकःस्यादिन्द्रोपमभूपतिक्रमवशाद्देवे सुरेन्द्रो हितः ।वेद्यामेव यमस्तु पुण्यभवने नागे तथा भैरवेराजांशो गजवाजियाननगरे राजालयेमन्दिरे
*
यावद्गृहर्क्षं गणयेत् स्वधिष्ट्या-त्ताराविभक्ते नवभिश्च शेषाः ।बुधैस्तृतीया सकले विवर्ज्ज्याया पञ्चमी सप्तमिका शस्ता
धिष्ट्यानीह सप्तशः क्रमतया वह्रेस्तु पूर्व्वा-दितःसृष्ट्या तानि भवन्ति यत्र गृहभं तत्रैव चन्द्रोभवेत् ।हानिं पृष्ठगतः करोति पुरतस्त्वायुःक्षयंचन्द्रमाःपार्श्वे दक्षिणवामके शुभकरोऽग्रे देवभूपालये
प्रीतिः स्यात् समसप्तमी दशमी चैकादशीशोभनादारिद्र्यं युगला करोति मरणं षष्ठी कलिःपञ्चमी ।मेषोऽश्वित्रितये हरिस्तु पितृभाच्चापस्त्रयेमूलतःशेषैः स्युर्नव राशयः परमते नन्दांशकैस्तेपृथक्
भौमोवृश्चिकमेषयोर्वृषतुले शुक्रस्य राषिद्वयंकन्या युग्मबुधस्य कर्कसदनं चन्द्रस्य सिंहो रवेः ।जीवो मीनधनुःपतिर्मृगघटौ मन्दस्य गेहं स्मृतंमित्राण्यर्ककुजेन्दुदेवगुरवोऽन्ये चारयस्ते मिथःदैवर्क्षं श्रुतिपुष्यभेऽश्विभमृग मैत्रानिलं पौष्णभंहस्तादित्यमथोऽनुरन्तकविधी पूर्व्वोत्तरारुद्रभम् ।रक्षोमूलविशाखिकाग्निपितृभं चित्रा धनिष्ठा-द्वयंज्येष्ठाश्लेषमपीह दैत्यमनुजे मृत्युस्तु दैवे कलिःवैरं चोत्तरफल्गुनीयुगलयोः स्वातीभरण्यो-र्द्वयो-रोहिण्युत्तरषाढयोः श्रुतिपुनर्वस्वोर्विरोधंतथा ।चित्राहस्तभयोश्च पुष्यफणिनोर्ज्येष्ठाविशाखा-ख्ययोःप्रासादे भवनासने शयने नक्षत्रवैरं त्यजेत्
विप्राः कर्कझषालिनो निगदिताः सिंहाजचापानृपाविट्कन्या मकरो वृषोऽथ वृषला युग्मञ्चकुम्भस्तुला ।वर्णेनोत्तमकामिनी भवनं वर्ज्यं बुधैर्यत्नतःश्रेष्ठा द्वादश नन्दरागगुणतो विप्र क्रमाद्राशयः
अश्वोऽश्विनीशतभयोर्यमपूषि हस्तीछागोऽग्निपुष्य उरगोऽपि विधातृसौम्ये ।मूलार्द्रयोः शुनक ओतुरहावदित्येपूर्व्वा मघासु मत उन्दुरुरेव योनिः
गौर्भद्रोत्तरफल्गुनीत उदिता स्वातौ करेमाहिषीव्याघ्रास्त्वाष्ट्रविशाखयोश्च हरिणो ज्येष्ठानु-राधाभयोः ।पूषाढश्रवणे कपिर्निगदितो वैश्वाभिजिन्नाकुलंपूभायां वसुभे मृगेन्द्र उदितो वैरं त्यजेल्लोकतःआयर्क्षतारा व्ययमंशकञ्चह्येकत्र कृत्वा विभजेत् क्रमेण ।तिथ्या वारेण तथैव लग्नैःशेषैस्तु भान्येव भवेयुरङ्कैः
दैर्घ्यं पृथुत्वेन ताडनीयंतयोर्यदैक्यं पुनरुच्छ्रयेण ।शेषेऽधिनाथो वसुभाजितेऽस्मिन्समः प्रशस्तो विषमस्तु नैव
*
वर्गाष्टकस्य पतयो गरुडो विडालःसिंहस्तथैव शुनकोरगमूषकेणाः ।मेढाककारच-ट-ताः प-य-शाश्च वर्गायः पञ्चमः रिपुरेव बुधैर्विवर्ज्यः
अश्विन्यादिकभत्रयं फणिनिभं चक्रं त्रिनाड्यु-द्भवंह्येकस्यां वरकन्ययोश्च यदि भं तन्मुत्युदं चांशतःनाडीसेवकमित्रगेहपुरतस्त्वेका शुभा सव्यधाआयादित्रिकपञ्चसप्तनवभिस्त्वङ्गैर्गृहं सौख्यदम्गुणगणं लघुदोषसमन्वितंभवनदेवगृहादिकमिष्यते ।जललवेन शिखी बहुतापवा-न्न शममेति गुणैरधिको यतः
”इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रेराजवल्लभे आयादिलक्षणं अध्यायः
“वापीकूपतडागदेवभवनान्यारामयागादिकंतीर्थानामवगाहनञ्च विधिवत् कन्याप्रदाना-दिकम् ।सर्वं पुण्यमिदं नृपः लभते यः कारयेत्पवतेदुर्गं सर्वजनाय शर्म्मजननं विश्राममेकं परम्
सिंहो वैरिपराभवं प्रकुरुते तिष्ठन् गिरौगह्वरेदुर्गस्थो नृपतिः प्रभूतकटकं शत्रुं जयेत् सङ्गरे ।कैलासे नगरं शिवेन रचितं गौर्य्यादिसंरक्षणेदुर्गं पश्चिमसागरे हरिणाप्येषां किमत्रो-च्यते
भूदुर्गं जलदुर्गमद्रिविषये दुर्गं भवेद्गह्वरेतेषामुत्तममद्रिमूर्द्ध्नि रचितं तद्वैरिणां दुर्गमम्अम्लाद्यैर्घृततोयतैललवणैः काष्ठैस्तृणाद्यैस्तथायन्त्रोपस्करबाणशस्त्रसुभटैः संपूरयेद्भूमिपः
माहेन्द्रं चतुरस्रमायतपुरं तत् सर्वतोभद्रकंवृत्तं सिंहविलोकनं सुपृतनायत्तं तथा वारुणम्नन्दाख्यञ्च विमुक्तकोणमथ नन्दावर्त्तिस्वस्त्या-कृतिप्रोक्त तद्यववज्जयन्तमपि तद्दिव्यं गिरेर्मस्तकेपुष्पं चाष्टदलोपमञ्च पुरुषाकारं पुरं पौरुषंस्नेहं कुक्षिषु भूधरस्य कथितं दण्डाभिधं दैर्घ्य-कम् ।शात्रं प्राक् सरिता परत्र कमलं याम्ये नदीधार्म्मिकंद्वाभ्यां चैव महाजयञ्च धनदाशायां नदीसौम्यकम्
दुर्गैकेन युतं श्रियाख्यनगरं द्वाभ्यां रिपुघ्नं पुरंत्वष्टास्रं कथयन्ति स्वस्तिकमिति प्रोक्ता गुणाविंशतिः ।भूपानां सुखदा यशोऽर्थफलदाः कीर्त्तिप्रतापो-द्भवालोकानाञ्च निवासतो विरचिताः प्राक्शम्भुनैतेगुणाः
”इति पुराणां विंशतिगुणाः
*
“वह्नेर्भीतिकरं त्रिकोणनगरं षट्कोणकं क्लेशदंवज्रे वज्रभयञ्च शाकटपुरे रोगस्त्रिशूले कलिःप्रोक्तं तस्करभीतये द्विशकटं कर्णाधिकेऽर्थक्षयोदोषाः सप्त भयावहाः प्रकटिता ये विश्वकर्मोदिताः
”इति पुराणां सप्तदोषाः
*
“वक्ष्येऽथो विविधं पुरं मुनिमतं मध्योत्तमंकन्यसंतेषां हस्तसहस्रमन्तिमपुरं मध्यं ततः सार्द्ध-कम् ।ज्येष्ठं युग्मसहस्रमेषु चरमं भागाष्टकेनाचितंमध्यं द्वादशभागतः शशिकलं ज्येष्ठं विदध्यात्सुधीः
मार्गाः सप्तदशैव चादिमपुरे हीनं चतुर्भिः पुरंप्रोक्तं कन्यसमेव मार्गनवभिर्दैर्घ्ये तथा विस्तरेग्रामश्चैव पुरार्द्धतो हि तदनु ग्रामार्द्धतो खेटकंखेटार्द्धेन तु कूटमेव विबुधैः प्रोक्तं ततः खर्व-टम्
हस्तानाञ्च युगाष्टषोडशसहस्रं भूपतीनां पुरंतन्मध्ये दशधा वदन्ति मुनयो वृद्ध्या सहस्रेणतत् ।आयामे वसुपादसार्द्धवसुतो भागः प्रशस्तो-ऽधिक-स्त्वेकैकञ्च चतुर्विधं निगदितं कार्य्यं समंकर्णयोः
षट्त्रिंशतः षट् क्रमतो विवृद्ध्यादैवे पुरे चत्वरके क्रमेण ।यदृच्छया मानमुशन्ति केचित्प्राकारकोष्ठस्य भित्तिकायाः
*
पूर्वापरास्याः पुरसम्मुखाश्चदेवाः शुभा नोत्तरदक्षिणाश्च ।भङ्गं पुरस्यापि पराङ्मुखास्तेकुर्व्वन्ति धात्रर्कजनार्द्दनेशाः
ब्रह्मा विष्णुशिवेन्द्रभास्करगुहाः पूर्वापरास्याःशुभाःप्रोक्तौ सर्वदिशामुखौ शिवजिनौ विष्णुर्विधातातथा ।चामुण्डा ग्रहमातरो धनपतिर्द्वैमातुरो भैरवोदेवा दक्षिणदिङ्मुखाः कपिवरो नैरृत्यवक्त्रोभवेत्
मार्गाः सप्तदशाङ्कपञ्चशिखिनो युग्मं पुरात्खर्वटंमार्गाः षोडश सूर्य्यविंशतिकराः कार्य्यास्त्रिधाविस्तरे ।प्राकारोदयविंशहस्तमभितो द्वाभ्यां विहीनो-ऽधिकोव्यासार्द्धेन तदूर्द्धतश्च कपिशीर्षाण्यष्टमात्रा-न्तरम्
प्राकारेऽपि कोष्ठका दशकराः सूर्य्येन्द्र-हस्तास्तथाप्रोक्तास्तेन समैव कोणसहिता विद्याधरीमध्यमा ।तस्या वाथ सुवृत्तके विविधं युद्धासनं कार-येत्प्राकारोदयतो विधाय परिखाविस्तार उक्तोबुधैः
विद्याधरीकोष्ठकयोश्च मध्येबाहुप्रमाणं शररामहस्तम् ।पञ्चाधिकं पञ्चकरेण हीन-मिति त्रिधा वास्तुमतो हितञ्च
*
दुर्गोदयं नन्दकरप्रमाणंतिथ्या समं सप्तदशैव केचित् ।एकोनविंशं पुथुलं त्रयाणांदिक्कालसूर्य्याष्टकरा वदन्ति
ताम्बूलं फलदन्तगन्धकुसुमं मुक्तादिकं यद्भवेत्राजद्वारसुराग्रतो हि सुधिया कार्य्यं पुरेसर्व्वतः ।प्राग्विप्राश्च नृपा हि दक्षिणदिशि स्युः सौम्यतःशूद्रकाःकर्त्तव्याः पुरमध्यतोऽपि बणिजो वैश्वा विचित्रै-र्गृहैः
ईशे रङ्गकराः कुविन्दरजका वह्नौ तज्जी-विनःप्रोक्ता अन्त्यजचर्म्मकारवरटाः स्युः शौण्डिकाराक्षसे ।पण्यस्त्रीनिरृतौ मारुतयुते कोणे न्यसेल्-लुब्धकान्वापीकूपतडागकुण्डमखिलं तोयं तथा वारुणेसिंहद्वारचतुष्टयञ्च खटकीद्वाराणि चाष्टौ तथाकर्त्तव्यानि दृढार्गलानि रुचिरैः कापाटकैःसुदृढैः ।कीर्त्तिस्तम्भनृपालयामरगृहैर्हट्टैः सुधानिर्मितै-र्हर्म्म्यैश्चोपवनैर्जलाश्रययुतैः कार्य्यं पुरं शोभ-नम्
”इति नगरप्रमाणम्
*
“यन्त्राः पुराणामथ रक्षणायसंग्रामवह्न्यम्बुसमीरणाख्याः ।विनिर्म्मितास्ते जयदा नृपाणांभवन्ति पूज्याः सुरया मांसैः
हस्ता अष्ट भैरवो नरकरश्चान्द्रो दशाद्योभवे-द्रुद्रो भीमगजोऽपि भास्करकरैर्युग्मन्तु विश्वैःशिखी ।प्रोक्तोऽसौ यमदण्ड एव मुनिभिस्तिथ्या महा-भैरवोह्यष्टौ शङ्करनिर्म्मिताश्च समरे देवासुरे भैरवे
यन्त्रे चाष्टकरेऽष्टहस्तफणिनीसूर्य्याङ्गुला विस्तरेस्तम्भा मर्कटिका पञ्जरमतः षट्त्रिंशहस्ताक्रमात् ।यष्ट्या पृष्ठविभागतोऽपि रदनैस्तुल्योऽष्टमात्रा-ङ्गुलैःप्रोक्ता कुण्डलवल्लवी वहितो मध्यादशीत्य-ङ्गुलैः
यष्ट्या दृढां मर्कटिकां विदध्या-ल्लोहस्य कीलेन चर्म्मणापि ।यन्त्रं प्रकुर्य्यादृढकाष्ठकञ्चतन्मानया ज्योतिकया समेतम्
कराङ्गुलैः पञ्जरकस्य दैर्घंकेषां मते हस्तमिते यन्त्रे ।याटी कुली वह्निजलानिलाख्या-स्ते लक्षणज्ञैः परिकल्पनीयाः
”इति यन्त्राष्टकप्रमाणानि
*
“नीराश्रयं पुण्यवतां विधेयंमध्ये पुरस्यापि तथैव बाह्ये ।वाप्यश्चतस्रोऽपि तथैव कूपा-श्चत्वारि कुण्डानि षट् तडागाः
*
कूपाः श्रीमुखवैजयौ तदनु प्रान्तस्तथादुन्दुभि-स्तस्मादेव मनोहरश्च परतः प्रोक्तस्तु चूडा-मणिः ।दिग्भद्रोजयनन्दशङ्करमतो वेदादिहस्तैर्मिताविश्वान्तैः क्रमवर्द्धितैश्च कथिता वेदादधःकूपिका
*
वापी नन्दैकमुखा त्रिकूटाषट्कूटिका युग्ममुखा भद्रा ।जया त्रिवक्त्रा नवकूटयुक्ता-स्त्वर्कैस्तु कूटैर्विजया मता सा
*
सरोऽर्द्धचन्द्रश्च महासरश्चवृत्तं चतुष्कोणकमेव भद्रम् ।भद्रैः सुभर्द्रं परिघैकयुग्मंवकस्थलैकद्वयमेव यस्मिन्
ज्येष्ठं मितं दण्डसहस्रकैस्तुमध्यं तदर्द्धेन ततः कनिष्ठम् ।ज्येष्ठं करैः पञ्चशतानि दैर्घै-स्तदर्द्धमध्यं तु ततः कनिष्ठम्
*
भद्राख्यकुण्डं चतुरस्रकञ्चसुभद्रकं भद्रयुत द्वितीयम् ।नन्दाख्यकं स्यात् प्रतिभद्रयुक्तंमध्ये सुभद्रं परिघं चतुर्थम्
कराष्टतो हस्तशतं प्रमाणंद्वारैश्चतुर्भिः सहितानि कुर्य्यात् ।मध्ये गवाक्षश्च दिशो विभागेकोणे चतुष्कास्त्वपि पट्टशालाः
*
गङ्गद्या रवयो हरेश्च दशकं रुद्रा दशैकाकिकादुर्गा भैरवमातृका गणपतिर्वह्नेस्त्रिकं चण्डिकादुर्वासा मुनिनारदस्तु सकला द्वारावतीलीलिकालोकाः पञ्च पितामहादिविबुधाः स्युर्मध्यभित्तौसदा
तस्योर्द्ध्वतः श्रीधरमाडकस्यसंदर्शनात् पूर्व्वफलञ्च काश्याः ।स्नानाच्च गङ्गाप्लवनस्य पुण्यंकृतं भवेच्चेद्विधिवद्विधिज्ञैः
विधारितं जीवनमेव येनतद्गोपदैकेन समं पृथिव्याम् ।स षष्टिसंख्यं सहस्रवर्षंस्वर्लोकसौख्यान्यखिलानि भुङ्क्ते
ग्रामे वाथ पुरे नरेन्द्रभवने तत्षोडशांशं भवेत्मध्यात् पश्चिमदिक्समाश्रितमिदं दुर्गे भवेद्भूव-शात् ।द्वारं दक्षिणवामतश्च पुरतः कार्य्यास्त्रय-श्चत्वराःसर्वं वास्तुगृहादिवासरचना भूपेच्छया कार-येत्
”इति सूत्रधारमण्डनविरचिते वास्तशास्त्रे राजवल्लभे प्राकारयन्त्रवापीकूपतडागलक्षणम् ४अध्यायः
*
“अथो नृपाणां भवनानि वक्ष्येत्वेकातपत्रावनिपालकस्य ।शतञ्च हस्ताष्टसमन्वितञ्चव्यासे गृहं चोत्तममेव तस्य
ये द्वापरे भूमिभुजो बभूवु-स्तेषां गृहं हस्तशतं द्विहीनम् ।तत्त्र्यं शभूमीश्वरको नृनाथ-स्त्वष्टाधिकाशीतिकरं गृहं स्यात्
ग्रामैकलक्षद्वयमस्ति यस्यप्रोक्तो महामण्डलिको नरेशः ।प्रशीतिहस्तं द्विकरेण हीनंकुर्य्याद्गृहं शोभनमेव तस्य
पञ्चायुतेशो नृपमण्डलीकोभवेद्गृहं तस्य कराष्टषष्टिः ।सामन्त्यमुख्यो द्व्ययुताधिपोऽसौतद्गेहमष्टेषु करप्रमाणम्
तद्वेश्म पञ्चाशदपि द्विहीनंसामन्तसंज्ञोऽयुतनाथ एव ।तथा तृतीयोऽपि ततो द्विहीनंत्रिंशत्कराष्टाधिकमेव गेहम्
प्रोक्तः प्रवीणैश्चतुराशिकोऽसौग्रामा हि यस्यैव सहस्रमेकम् ।अष्टाधिकं विंशतिहस्तहर्म्म्यंसिद्ध्यै समस्तानि यथोदितानि
ग्रामाधिपा ये तु शताधिपाश्चते स्वल्पराष्ट्रा अपि सैनिकाश्च ।तेषां गृहा अष्टदशाधिकैश्चकरैः समाना मुनिभिर्म्मताश्च
भूपालकार्द्धेन मन्त्रिगेहंयथाधिकारेण भवन्ति हीनम् ।व्यासाद्दशांशाधिकमेव दैर्घंकूर्य्यादथो पञ्चमभागमिष्टम्
गृहं चतुर्हस्तमितं करादि-वृद्ध्या द्विरामान्तमिति प्रमाणम् ।ततः परं भूपतिमन्दिराणियावच्छतं चाष्टकरादियुक्तम्
स्याद्भूमिरेका वसुहस्तगेहेदशाभिवृद्ध्या द्वितया पुनश्च ।प्रासाद एवामरभूपयोश्चहर्म्म्याणि लोके मुनिनोदितानिशालाया नवधा पञ्चकरतो मानञ्च विश्वा-न्तकंभित्तेरेव चतुर्द्दशाङ्गुलमितिर्यावत् सपादं करम् ।आगारस्य तु षोडशांशरहितोऽप्यर्द्धेन हीनो-ऽथवाभित्तेर्मानमिदं त्रिधा विरचितं कल्प्यं यथा-योगतः
दैर्घ्ये चन्द्रकलाङ्गुलोत्तमशिला मध्याङ्गुलोनान्तिमाव्यासे दिङ्नवभूभृदुच्छ्रितिरपि त्रिंशेन विस्ता-रतः ।हस्तादेस्त्रिकरोदयं नवविधं पीठं गृहे सर्वतोविप्रादे रसभूतवेदगुणकाः स्युः पीठक मेखलाः
षष्ट्या वाथ शतार्द्धसप्ततियुतर्व्यासस्य हस्ता-ङ्गुलै-द्वारस्योदयको भवेच्च भवने मध्यः कनिष्ठोत्तमैःदैर्घ्यार्द्धेन तु विस्तरः शशिकलाभागोऽधिकःसप्तते-र्दैर्घ्यं त्र्यंशविहीनमर्द्धरहितं मध्यं कनिष्ठंक्रमात्
ज्येष्ठा प्रतोली तिथिहस्तसंख्याप्रोक्तोदये विश्वकरा मध्या ।कनिष्ठिका रुद्रकरा क्रमेणव्यासेऽष्ट सप्तैव रागसंख्या
वेश्मव्यासकलांशकैर्युगगुणैर्हस्तैस्त्रिसार्द्धैर्युतै-र्हर्म्म्यस्य त्रिविधोदयः क्षितितलाद्यावच्च पट्टो-र्द्ध्वकम् ।एकैकोऽपि पुनस्त्रिधा निगदितः सर्वेत एका-दशक्षेपाः षण्णवतौ नखाः शशिकला अष्टादशाद्य-स्त्रिधा
त्रिस्थाने युगपर्वता ८४ स्तिथियुता धिष्ट्यैक-विंशान्वितामध्योऽयं त्रिकरैस्तदंशसहितैः प्रोक्तः कनिष्ठ-स्त्रिधा * ।वृक्षं दुग्धविशुष्ककण्टकयुतं नीडैस्तु चैत्यद्रुमंक्षीरं मारुतपातितञ्च भवने चिञ्चाविभीतंत्यजेत्
शाकः शालमधूकसर्ज्जखदिरा रक्तासनाःशोभनाएकोऽसौ सरलीऽर्ज्जुनश्च पनसः श्रीपर्णिनीशिंशपा ।हारिद्रः पिचुमर्द्दचन्दनतरुः पद्माख्यकस्तिन्दुकीनैतेऽन्येन युता भवन्ति फलदाः शाकादयःशोभनाः
*
गेहोदयन्तु नवधा विभजेत् षडंशंस्तम्भोर्द्ध्वभागसमकं भरणं शिरश्च ।कुम्भी ह्युदम्बरसमैकविभागतुल्यापट्टश्च तत्त्रिकयुतोऽशसमान एव
शालालीन्द उदाहृतो हि विबुधैर्बाणेषु युग्मां-शकःसप्तांशेषु गुणैश्च नन्दपदतो वेदांशतुल्यस्तथा ।कापाटं गृहदक्षिणे निगदितं वामे भवेदर्गलासृष्ट्यानिष्क्रमणं कृतं मुनिवरैर्द्वारेषु सर्वेषु यत्
शालाजिनांशैमनुरेव मध्येत्रयो हयान्ते द्वयमस्य पार्श्वे ।द्वारोत्तमाङ्गेन समानकर्णाःशस्ता शस्ता भवनाभिवक्त्राः
*
दीपालयो दक्षिणदिग्विभागेसदा विधेयोऽर्गलया समानः ।वामे मध्ये शुभाय गेहेसुरालये वामदिशीष्टसिद्ध्यै
द्वाराग्रे खटकीमुखे तदधो द्वाः षोडशां-शाधिकंसर्व्वं वा शुभमिच्छता सततं कार्य्यन्तुपट्टादधः ।तन्न्यूनं शुभन्तुलातलगतं कुक्षौ तथा पृष्ठगंकाष्ठं पञ्चक एव नीतरहितं यन्मूलपूर्वात्तरम्
द्वारोर्द्धे यद्द्वारमस्य प्रमाणंसंकीर्णं वा शोभनं नाधिक तत् ।ह्रस्वद्वाराण्येव यानि पृथूनितेषां शीर्षाण्येकसूत्राणि कुर्य्यात्
सर्वं द्वारं नीचमानं रुजायैयद्वा ह्रस्वं तत् करोत्यर्थनाशम् ।गेहाद्यं यत् पूर्व्ववास्तुस्वरूपंतेषां भङ्गान्नैव सौख्यं कदाचित्
द्वारव्यासरदांशतोऽधिकमिदं कार्य्यं गृहं दक्षिणेतुल्यं हस्तिगृहञ्च वाजिभवनं तेनाधिकंवामतः ।अष्टांशेऽथ नवांशके वितथे तोये जयेन्द्रेहितंद्वारं सौम्यगृहक्षते कुसुमे भल्लाटके शस्यते
प्राग्द्वाराष्टकमध्यतोऽपि शुभं सूर्य्येश-पर्जन्यतोयाम्यायाञ्च यमाग्निपौष्णमपरे शेषासुरंपापकम् ।सौम्यायामथ रोगनागगिरिजं त्याज्यं तथान्य-च्छुमंकैश्चिद्दारुणसौम्यकं हि हितं प्रोक्तञ्चवातायने
द्वारं विद्धमशोभनञ्च तरुणाकोणभ्रमस्तम्भकैःकूपेनापि मार्गदेवभवनैर्विद्धं तथा कीलकैः ।उच्छ्रायाद्द्विगुणां विहाय पृथिवीं वेधो नभित्त्यन्तरेप्राकारान्तरराजमार्गपरतो वेधो कोणद्वये
दैर्घ्ये सार्द्धशताङ्गुलञ्च दशभिर्हीनम् १४० १३० ।१२० ११० चतुर्द्धा विधिःप्रोक्तं वाथ शतं त्वगीतिसहितं १८० युग्मं २००नवत्या शतम् १९० ।तद्वत् षोडशभिः शतञ्च ११६ नवभिर्युक्तं तथा-शीतिकम् ८९द्वारं मत्स्यमतानुसारि दशकं योग्यं विधेयंबुधैः
*
स्वयमपि कपाटोद्घाटनं वा पिघानंभयदमधिकहीनं शाखयोर्वा विचाले ।पुरुषयुवतिनाशस्तम्भशाखाविहीनंभयदमखिलकाष्ठाग्रं यदाधःस्थितं स्यात्
देवालयं वा भवनं मठश्चभानोः करैर्वायुभिरत्र भिन्नम् ।तन्मूलभूमौ परिवर्जनीयाछाया गता यस्य गृहस्य कल्प
नैको लघुर्वामदिशाविभागेमध्ये द्विषट् दारुणवर्णगेहे ।स्तम्भासनं हीनमपि क्षयाययदाधिकं रोगकर तदा स्यात्
स्तम्भोऽष्टास्रसुवृत्तभद्रसहितो रूपेण चालङ्घतोयुक्तः पल्लवकस्तथाभरणकं यत् पल्लवेनावृतम् ।कुम्भी भद्रयुता कुमारसहितं शीर्षं तथाकिन्नराःपत्रञ्चेति गृहे शोभनमिदं प्रासादके शस्यते
स्तम्भो द्वयोमध्यगतो शस्तोशुभंकरी पट्टयुगांशतो द्वौ ।गृह प्रशस्ताश्चतुरस्रकास्तेस्तम्भा कन्दन विना प्रशस्ताः
हानिस्तुलामध्यगता खनस्यस्तम्भभदन्तालयभित्तिमूलम् ।संलग्नचत्वार्य्यपि हानये स्युःस्तम्भासनं स्तम्भशिरश्च शीर्षम्
उत्सेधार्द्धविनिर्गतं शरयुगांशेनाधिकं शस्यतेछाद्यं पट्टसमानकं सुखकरं नाशाय निम्नोन्नतम्तत् काकस्य पक्षवच्च कुमुदाभं सूर्य्यकाला-यकंप्रालम्बञ्च करालकञ्च विबुधैः प्रोक्तञ्च तत्षड्विधम्
भूम्यारोहणमूर्द्ध्वतस्तदुपरि प्रादक्षिणं शस्यतेद्वारं तूर्द्ध्वभवञ्च भूमिरपरा ह्रस्वार्कभागैःक्रमात् ।प्रासादे मठे नरेन्द्रभवने शैलः शुभो नोगृहेतस्मिन् भित्तिषु वाह्यकास्तु शुभदाः प्राग्भूमि-कुम्भ्यां तथा
*
पृष्ठे क्षणानन्तरमेव बाह्यात्गृहप्रवेशो शुभङ्करोऽसौ ।गृहस्य पृष्ठे यदि राजमार्ग-स्तदादिभूमेर्न हि पृष्ठमीक्ष्यम्
जीर्णं गृहं भित्तिमग्नं विशीर्णंतत् पातव्यं स्वर्णनागस्य दन्तैः ।गोशृङ्गैर्व्वा शिल्पिना निश्चयेनपूजां कृत्वा वास्तुदोषो तस्य
हर्म्म्यस्यापि समन्ततो गृहपतिर्वृद्धिं यदा-पीहतेसर्व्वाशासु विवर्द्धितञ्च फलदं दुष्टं तदेकत्र ।प्राङ्मित्रैरपि वैरमुत्तरदिशाभागे मनस्तापकृत्पश्चादर्थविनाशदक्षिणदिशि शत्रोर्भयं वर्द्धते
वामाङ्गे धनवस्त्रदेवभवनं धातुः श्रियो वाजिनोनार्य्यस्त्वौषधिभोजनस्य भवनं स्याद्वाटिकावामतः ।वह्नेर्गोजलदन्तिशस्त्रसदनं स्त्रीणां तथा दक्षिणेस्थानं माहिषमाजमौर्णिकमिदं याम्याग्निमध्येशुभम्
सुग्रीवे वरुणेऽसुरे गणवरे स्याद्घोटकानां गृहंद्वाःस्थे युद्धगृहञ्च नृत्यरमणं गान्धर्व्ववेदाश्रितम्राज्ञो मातृगृहं गजेन्द्रजयके रुद्रे महिष्यागृहंसत्ये धर्म्मगृहं रवौ व्ययगृहं प्रोक्तं जयेश्रीगृहम्
ईशप्राच्योरन्तरे गर्भभाना-मुष्ट्राणां वा स्थानमेवात्र कार्य्यम् ।धान्यागारं स्यात्तथा प्राणकोणेभृङ्गेऽप्येवं शम्भुकोणे शिवार्च्चा
प्राक् पश्चिमे मारुतवह्निकोणेप्रोक्ता प्रवीणैरपि नृत्यशाला ।वर्च्चोगृहं रात्रिचरस्य कोणेस्यात् पश्चिमे भोजनशालिका
*
प्राक् शोभा नृपमन्दिरे पुरतः स्थानं तथापुत्त्रकंवामाङ्गे नृपतेस्तथायुधधराः कृष्णातपत्राणिच ।छत्रं चामरतापसाः स्वगुरवस्ताम्बूलधृग्दक्षिणेगेहाधीशयदृच्छया शयनं सर्व्वासु भूमीषुच
विवस्वदाख्ये शयनं प्रशस्तंवादित्रगेहं सवितुर्विधेयम् ।पूषाश्रितं भोजनमन्दिरञ्चमहानसं वह्निदिशाविभागे
माहेन्द्राख्ये गोपुरं द्वित्रिभूमिंभानोः संख्या तस्य मध्ये विधेया ।उक्तानुक्तं मन्दिरादौ निवेशेत्वष्ट्रा कार्य्यं चाक्षया भूपतीनाम्
दिक्शालान्तं ह्येकशालादिगेहंज्येष्ठा मध्या कन्यसा दक्षिणाङ्गात् ।शाला कार्य्या लोकगेहे युगान्तात्त्रिद्व्येकाः स्युर्भूमयस्तेषु नूनम्
”इति श्रीसूत्रधारमण्डनविरचिवे वास्तुशास्त्रेराजवल्लभे राजगृहनिवेशादिलक्षणं अः
*
“अथैकशालं द्विगुणाब्धिशालंप्रस्तारतो लक्षणमेव तेषाम् ।यथोदितं वास्तुमते तथैवब्रवीमि राज्ञामथ मानवानाम्
चत्वारो गुरवस्तु पूर्व्वगुरुतोऽधो ह्रस्वतोऽन्येसमाःभूयः पश्चिमपूरितञ्च गुरुभिर्यावल्लघुत्वं भवेत् ।उद्दिष्टे द्विगुणाङ्ककैर्लघुभवैः संख्यैकमिश्रीकृतेनष्टे स्तो विषमे समे गुरुलघू रूपे तदर्द्धार्द्धतःस्थाने लघोः सद्ममुखादलिन्दंप्रदक्षिणं तं क्रमतो विदध्यात् ।प्रस्तारतः शोडशकं गृहाणांप्रोक्तं तथाख्यां कथयामि तेषाम्
*
ध्रुवञ्च धान्यं जयनन्दसंज्ञेखराख्यकन्दञ्च मनोरमाख्यम् ।सुवक्त्रमस्मात् किल दुर्मुखाख्यंक्रूरं विपक्षं धनदं क्षयञ्च
आक्रन्दकं वैपुलवैजयञ्चफलानि नाम्ना सदृशानि तेषाम् ।इति ध्रुवादिषोडशगृहाणि
*
धान्यादितोऽष्टौ विजयान्तकं हित्वलिन्दयुग्मं मुखतो विदध्यात्
रम्यं श्रीधरमोदिते परतस्तद्वर्द्धमानं गृहंकारालञ्च सुनाभमेव तदनु धाङ्क्षं समृद्धं तथाइति रम्याष्टकम्
*
सर्व्वाणि ध्रुववद्भवन्ति नियतं षड्दारुकैः सुन्दरप्रोक्तं तद्वरदञ्च भद्रकुमुदेऽथो वैमुखाख्यंशिवम्तत्सर्व्वलाभञ्च विशालसंज्ञंतथा विलक्षं त्वशुभं ध्वजञ्च ।उद्योतमेवं त्वथ भीषणञ्च
सौम्याजिते स्तः कुलनन्दनञ्च
”इति सून्दरादिषोडशगृहाणि
*
“पूर्व्वालिन्दसमस्तकेषु युगलं पट्टस्य शालान्तरेहंसञ्चैव सुलक्षणञ्च परतः सौम्यं हयं भावुकम्तस्मादुत्तमरौचिरे सततं क्षेमं तथा क्षेपकम्चोद्वृत्तं वृषमुत्थितञ्च व्ययमानन्दं सुनन्दंक्रमात्
”इति हंसादिषोडषगृहाणि
*
“मध्येऽपवर्गं ध्रुवरूपकाणा-मलङ्कृताह्वं प्रथमञ्च तत्र ।तथाप्यलङ्कारमिति क्रमेणख्यातं तदन्यं रमणञ्च पूर्व्वम्
तत्रेश्वरं तदनु पुण्यमतः सुगर्भंप्रोक्तं गृह कलसदुर्गतमेव रिक्तम् ।स्यादीप्सितं तदनु भद्रकवञ्चिते चदीनं गृहं विभवकामदमेव सख्या
”इत्यलङ्कृतादिषोडशगृहाणि
*
“षड्दारु सर्व्वेष्वपवर्गकेषुप्रभावसज्ञं त्वथ भावितञ्च ।रुक्मं तथान्यत्तिलकञ्च तत्रसत् क्रीडनं सौख्यमतो यशोदम्
कुमुदमपि कालं भासुरं भूषणञ्चवसुधरमथ गेहं धान्यनाशं तदन्यत् ।कुपितमपि वित्तं वृद्धिदं प्रोक्तमेत-त्तदनु कुलसमृद्धं षोडशं प्रोक्तमाद्यैः
”इति प्रभवादिषोडशगृहाणि
*
“सर्व्वे मुखालिन्दसमन्विताश्चदारुद्विषट्कं ह्यपवर्गमध्ये ।ततश्च चूडामणिकं प्रभद्रंक्षेमं तथा शेषसमुच्छ्रितञ्च
विशालसंज्ञं त्वथ भूतिदञ्चहृष्टं विरोधं कथितं क्रमेण ।तत्कालपाशं हि निरामयन्तुसुशालरौद्रे मुनिसम्मताश्च
वेद्यं गृहं चैव मनोरमञ्चसुभद्रसंज्ञं कथिता संख्या ।इत्येकशालानि गृहाणि विद्या-च्छतञ्च चत्वार्य्यधिकं ध्रुवादि
अपवरकं यत् कथितं तद्वामे धीमता गृहेकार्य्यम् ।यत् षड्दारुकमुदितं ज्ञेया सा पट्टजा श्रेणी
”इति चूडामण्यादिषोडशगृहाणि इति चतु-रुत्तरं शतमेकशालगृहाणि
*
“अथ द्विशालालयलक्षणानिपदैस्त्रिभिः कोष्ठकरन्ध्रसंख्या ।तन्मध्यकोष्ठं परिहृत्य युग्मंशालाश्चतस्रो हि भवन्ति दिक्षु
याम्याग्निगा करिणी धनदाभिवक्त्रापूर्व्वानना महिषौ पितृवारुणस्था ।गावी यमाभिवदनापि रोगसौम्येच्छागी महेन्द्रशिवयोर्वरुणाभिवक्त्रा
हस्तिन्या महिषी द्विशालभवनं सिद्धार्थकंतच्छुभंगावी माहिषसंज्ञकं मृतिकरं तद्यामसूर्य्यंभवेत् ।दण्डं छागगवान्वितं धनहरं हस्तिन्यजाभ्यांतथाकाचं गोकरिणीयुतं हि शुभं चुल्ली पर्व्वा-परम्
नामान्यतः सन्ततशान्तिदञ्चस्याद्वर्द्धमानं त्वथ कुक्कुटाख्यम् ।हस्त्यादितो नाम चतुष्टयञ्चहर्म्म्यं द्विशालं प्रथमं तथैव
यत् स्वस्तिकं तद्रमदारुमध्येऽलिन्दस्तथाग्रे कथितं द्विशालम् ।हंमाख्यकं स्यादथ वर्द्धमानंकीर्त्तेर्विनाशं भवनं चतुर्थम्
अलिन्दयुग्मं पुरतो विदध्यात्षड्दारु मध्येऽपि शान्तसंज्ञम् ।तस्माद्गृहे हर्षणवैपुले चतथा चतुर्थं कथितं करालम्
तस्मिन् गृहे दक्षिणतो ह्यलिन्देवित्तञ्च चित्तं धनकालदण्डे ।वामे पुनर्बन्धुदपुत्त्रदं स्यात्सर्व्वन्तु तस्मिन्नपि कालचक्रम्
लघुश्च पश्चात् पुरतोऽपि युम्मंस्याद्दक्षिणैको रसदारुमध्ये ।तत्त्रैपुरं सुन्दरमेव नीलंस्यात् कौटिलञ्चैव यथा क्रमेण
प्रदक्षिणैकः पुरतोऽपि युग्मंषट्कं गृहान्तः किल शाश्वदाख्यम् ।ततो द्वितीयं खलु शास्त्रदं स्या-च्छीलं तथा कोटरमेव संज्ञम्
सौम्यं गृहं मण्डपसंयुतञ्चतत्तुल्यरूपं विबुधैर्विधेयम् ।सुभद्रमस्मादपि वर्द्धमानंक्रूरञ्च सर्व्वेष्वशुभं चतुर्थम्
मुखे त्रयं दक्षिणपश्चिमैकःषड्दारुकं श्रीधरनामधेयम् ।प्रोक्ते गृहे कामदपुष्टिदे चचतुर्थकं कीर्त्तिविनाशमेव
वामे तथा दक्षिणपश्चिमैकोयुग्म मुखे मण्डपमग्रतश्च ।श्रीभूषणं श्रीवसनं ततश्चश्रीशोभकीर्त्तिक्षयमेव तद्वत्
एकोऽपरे दक्षिणवामतश्चयन्मध्यगं श्रीधरयुग्मपूर्व्वम् ।सर्व्वार्थदं स्यान्मुखतस्त्रयञ्चेत्लक्ष्मीनिवासं कुपितञ्च नाम्ना
युग्मं मुखे मण्डपमेव चाग्रेयुग्मं तथा दक्षिणतोऽन्तभित्तिः ।पृष्ठे तु उद्योतकबाहुतेजःसुतेज एवं कलहावहं स्यात्
उद्योतके पश्चिमभागतो द्वौकुर्य्यात् द्विशालञ्च वहिर्निवासम् ।तत् पुष्टिदं कोपसमानमन्त्य-मनुक्तषट्कं क्रमतो विधेयम्
लघुत्रिकं पूर्व्वदिशाविभागेएको भवेद्दक्षिणवामपश्चात् ।महान्तमेतन्महितञ्च दक्षंकुलक्षयं मण्डपसंयुतं स्यात्
भ्रमद्वयं दिक्त्रितये विभागेमुखे त्रिकं मण्डपमग्रतश्च ।प्रतापवर्द्धन्यमिदञ्च दिव्यंमुखाधिकं सौख्यहरं चतुर्थम्
तस्यैव रूपं रसदारुयुग्मंपुनस्त्वलिन्दोऽजगजन्ततश्च ।स्यात् सिंहनादं त्वथ हस्तियानंज्ञेयं तथा कण्टकमेतदन्त्यम्
शान्तादिगेहानि षोडशैवद्विशालकानीह यथाक्रमेण ।नामानि चत्वार्य्यपि रूपमेकंहस्त्यादिभेदेः क्रमतो विधेयम
”इति सूत्रधारमण्डनविरचिते वास्तुशास्त्रेराज-वल्लभे एकद्विशालगहलक्षणं अध्यायः
*
“द्विशालगेहानि तु षोडशैववास्तूदधेः सारतरं पुनश्च ।वक्ष्याम्यलिन्दोऽपि षणो लघुश्च ।द्वौ तिन्दुकाख्यौ कथितावलिन्दौ
सूर्य्यं द्विशालं लघुरस्य वामेमुखे त्रिकं दक्षिणतस्तथैकः ।मुखे तथा वासवमेव गेहंवामेऽपसव्ये लघुरेक एव
प्रासादसंज्ञं मुखतस्त्रयञ्चेत्प्रदक्षिणं तिन्दुकवेष्टितं स्यात् ।अलिन्दयुक्तं विमलं द्विशालंतद्वीर्य्यवन्तं सह मण्डपेन
अथ द्विशालेषु समस्तकेषुमध्ये विदध्याद्रसदारु चैकम् ।तदा भवेद्भासुरमग्रयुग्म-मेको लघुर्दक्षिणदिग्विभागे
एको लघुर्दक्षिणपूर्व्वगः स्यात्तद्दुन्दुभाह्वं मुखमण्डपेन ।द्वौ पूर्व्वतो दक्षिणतस्तथैकोयुग्मं भवेन्मण्डपगं सुतेजः
मुखे गुणा दक्षिणतस्तथैकोद्वौ मण्डपेऽस्मिन् हयजाभिधानम् ।महान्तगेहं मुखजे त्रिके तुयुग्मान्वितं मण्डपमेतदेव
मुखे तथा मण्डपके युग्मंवामेऽपसव्ये युगलं लघोश्च ।लोकत्रयाडम्बरमस्य नामषडक्षरं शम्भुगणेशयोश्च
युग्मं मुखे मण्डपगं द्वयं स्या-त्तथा द्वयं दक्षिणवामतश्च ।एको हि पश्चाद्वरदाभिधानंश्रीविश्वकर्म्मोक्तमताद्द्विशालम्
मालीनसंज्ञं मुखगैश्चतुर्भि-र्युग्गं भवेद्दक्षिणवामभागे ।युग्मं तथा पश्चिमदिग् विभागेतस्याग्रतो मण्डप एक एव
प्राग्रामा लघवो विलासभवने वामे लघुर्दक्षिणेतच्चेन्मण्डलसंयुतञ्च कमलं स्याद्वृद्धिदं सौख्य-दम् ।वेदास्तूदरके मुखे सततं वामेक्षणे दक्षिणेतस्याग्ने मुखमण्डपस्य फलदानेवं गृहान्षोडश
”इति सूर्य्यादिषोडशगृहाणि
*
“अथ त्रिशालं त्रिदशेक्षणैकंस्यात्त्रैदशावासमरूपसंज्ञम् ।तथा चतुर्थं कुमुदाभिधानंहस्त्यादिभेदैः क्रमतो विधेयम्
छत्रं ह्यलिन्दञ्च तथैव पुत्त्रंहरञ्च कामन्त्वथ ह्रस्वभद्रम् ।षट्कञ्च मध्ये स्वधनं कुबेरंपक्षं तथा कामदमेतदेव
अलिन्दयुग्मं त्वथ भद्रयुक्तंमध्ये कपाटं जलजाभिधानम् ।स्यान्मेघजं चैव गजं कृपञ्चषड्दारु मध्ये सकले यथातः
स्याद्वैजयं मण्डपह्रस्वभद्रंजयं निनादं त्वथ कीर्त्तिजञ्च ।भद्रोनह्रस्वाधिकसाकलाह्वंनिर्लोभकं वासदकौशले
त्र्येकं क्रमादीश्वरवारदाख्यंभीमञ्च कौशल्यमतः क्रमेण ।तद्वेद बुद्धस्वजनं तृतीयंस्यात् कौशलं नीलमिदं चतुर्थम्
मुखगुणलघुवामे दचिणे चैक एत-द्वरदशरदमुक्तं दण्डकं काकपक्षम् ।इदमिह हि निनादं मण्डपेनाधिकं स्या-त्तदनु गजनादं बाहुलं कीर्त्तिजाह्वम्
सृष्ट्यादिरूपमुखमण्डपमेव सिंहंज्ञेये गृहे वृषगजे अपि कोशसंज्ञम् ।वामेऽधिकञ्च लघुना कथितं सुभद्रंस्यान्माणिभद्रमपि रत्नजकाञ्चनाख्ये
युगमुखमपरैको भैरवं दक्षिणे चभरत नरजमेतत् स्याच्चतुर्थं कुबेरम् ।पुनरपि लघु वामे हस्तियानं वियानंहयजकृपजगेहं तच्चतुर्थं क्रमेण
वर्णानां शुभदञ्च सागरगृहं पञ्चैव ह्नस्वामुखेप्रोक्तं क्षीरदरत्नदाह्वयमिदं कोलाहलञ्चापरम् ।षड्दारुद्वयभद्रसप्तलघवस्तिर्य्यक् युतं शालयागान्धर्व्वं क्षितिभूषणञ्च कथितं सर्व्वज्ञकं दर्प-कम्
धान्यं वृद्धिकरं त्रिशालमुदितं शालां विनापावनीप्राक्शाला रहितं शुभं निगदितं सुक्षेत्रमर्थ-प्रदम् ।चुल्लीसंङ्गमिदं करोति मरणं हीनं तथायाम्ययापक्षघ्नं महिषीमृते भवनं तत्पुत्त्रबन्धुक्षयम्
”इति त्रिदशादिषोडशगृहाणि
*
“त्रैशालानि षोडश प्रथमतः सोमञ्च षड्-दारुकंतच्चैकेन पुरोऽपि शङ्करमिदं मध्ये क्रमात्पूर्व्ववत् ।रुद्रे द्वौ मुखतोऽपि दक्षिणलघुस्त्वेकाधिकंसागरंचत्वारो नृपशोभितञ्च पुरतः प्राग्दक्षिणैकोलघुः
पञ्चाग्रे सकलं भ्रमञ्च लघुना सर्वस्य तत्सौख्यदंरागाख्यं भ्रमसंयुतञ्च भवनं तत् सर्वशालंभवेत् ।प्राग्वाणङ्कुलनन्दनं क्रमतया त्वेकद्वयैकान्वितंतस्मिन्दक्षिणसंयुते लघुके कल्याणसंज्ञं तथासर्व्वाशासु लघुत्रयं शरमुखं तत् पट्टयुग्मंक्रमात्तत्सौभाग्यविवर्द्धनञ्च भवनं राज्ञां सदा निर्मि-तम् ।आनन्दं सुखराजिदक्षिणलघुर्वामे पृष्ठे द्वयंरागास्यं जनशोभनं गुणगणैकेनान्वितं सृष्टितःस्याद्गोवर्द्धनमग्रतो रसयुतं युग्माग्निनेत्रैः क्रमात्सप्ताग्रे त्रिगुणं त्रिकश्च लघवो लोकत्रिकंसुन्दरम् ।गेहं श्रीतिलकं भद्रसहितं ह्रस्वेन हीनं मुखेतद्युक्तं लघुना भद्रसहितं विष्णुप्रियंभूपतेः
”इति सोमादिषोडशगृहाणि
*
“षड्दारुकं श्रीत्रिदशं त्रिशालंतत् श्रीनिवासं मुखह्रस्वयुक्तम् ।श्रीवत्सतः श्रीधरमेव वृद्ध्याश्रीभूषणं वेदमुखञ्च गेहम्
बाणैः श्रीजयमग्रतोऽपि ऋतुभिः श्रीतैलिकंमन्दिरंरागाग्रं रसदारुयुग्मसहितं तत् श्रीविलासंभवेत् ।श्रीतेजोजयमग्रतश्च मुनिभिः शडदारु युग्मान्वितंसोमादित्रिदशादिभूपतिगृहाः पञ्चाधिकाविंशतिः
”इति त्रिदशादिनवगृहाणि
*
“भवननवकमुक्तं यच्चतुःशालमध्यात्नयनलघुमुखं स्याद्दक्षिणैकेन चन्द्रम् ।भवति सदनमध्ये सर्वतो दारुषट्कंद्बितयमपि तेषामन्तिमं युग्मयुक्तम्
मलयमथ गेहं वामह्रस्वाधिकं स्यात्भवति गुणह्रस्वं शोभणं पूर्व्वतोऽपि ।त्रिभिरपि सुकर्णा पृष्ठयाम्ये तथैक-स्तदधिकमपि वामे वेश्म नागेन्द्रसंज्ञम्
चक्रं चतुष्टयमुखं सकलेषु शस्तंग्राम्योत्तरे हि लघुनापि जयावहं स्यात् ।भद्राह्वयञ्च मकराह्वयमेव तस्मिन्पृष्टाग्रह्रस्वमपि कामदमग्रभद्रम्
”इति विजयादिनवचतुःशालगृहाणि
*
“शुद्धादयो मुनिमतेऽष्टविधा शाला-स्तासां षडेव कथिता भवनप्रसङ्गे ।शालालिमध्यरचितोऽपि लघुः सुखाययद्वा तदग्ररचिताः पृथगेव शालाः
”इति सूत्रधारमण्डनविरचिते वास्तुशास्त्रे राज-वल्लभे द्विशालत्रिशालचतुःशालगृहलक्षणवर्णनंसप्तमोऽध्यायः
*
“शयनमथ नृपाणां त्वङ्गुलानां शतैकंनवतिरपि सुतानां मन्त्रिणः षड्विहीनम् ।बलपतिगुणहस्तं त्र्यङ्गुलोनं गुरोश्चतदनु युगलहीनं ब्राह्मणादेः प्रशस्तम्
व्यासोर्द्धभागे नतदैर्घ्यतश्चकलांसमात्रोऽधिक एव शस्तः ।त्र्यंशेन पादेन समुच्छ्रयः स्यात्द्वित्र्यङ्गुलानामधिको कार्य्यः
श्रीपर्णी धनदासनोऽपि गदहावित्तप्रदा तिन्दुकीवृद्धिः शिंशपयाथ शाकशयने शर्म्मापि शालैःकृते ।आयुः पद्मकजे चन्दनमये शत्रुक्षयः स्यात्सुखंश्रेष्ठं चैकमलं शिरीषजनितं पर्य्यङ्कयाना-सनम्
”इति शयनम्
*
“सिंहासनं चोत्तममङ्गुलानांषष्ट्या दशोनञ्च परं तथैव ।दशांशवस्वंशमतो विहीनंव्यासे दैर्घ्यार्द्धसमुच्छ्रयः स्यात्
मुनिभिरथ शिवैर्व्वा भद्रभागत्रयं स्या-दुदय इति विभागैर्भाजिते पीठमष्टौ ।कनकमपि रसांश सप्तधा ग्रासपट्टीशिवनवमुनिरत्नैर्दन्तिवाहौ निवेद्यौ
छाद्यं स्याद्रसभागमेव तिथितो भागेन कक्षासनंयुक्तं स्तम्भयुगेन तोरणयुतं रत्नैः शुभै राजि-तम् ।कर्त्तव्यं नृपवल्लभं मतिमता ज्येष्ठञ्च सिंहासनंज्ञातव्यञ्च यशोऽभिवर्द्धनंमिभैः सिहैर्नृकक्षा-सनम्
नरैस्तु वेदी पुनरेव छाद्यंसुखासनं तोरणसंयुतं स्यात् ।पीठञ्च कुम्भः कलसं विटङ्क-मुत्तङ्गसंज्ञं सह छाद्यकेन
पीठे गोहरिवेदिके सुयशश्छाद्येन सिंहासनंहस्ती मातृकवेदिकासनयुतं तद्दीपचित्रं भवेत्छत्रं ज्येष्ठमशीतिवेदसहितं द्वासप्ततिर्मध्यमंषष्ट्या कन्यसमङ्गुलैर्नरपतेर्दैवं शतार्द्धं शुभम्
”इति सिंहासनच्छत्रलक्षणानि
*
“वातायनो लुम्बिकया विहीनोबुधैरुदीर्णस्त्रिपताक एव ।द्विलुम्बिकश्चोभयसंज्ञकश्चयः स्वस्तिकोऽसौ युगलुम्बियुक्तः
स्याद्बाणैः प्रियवक्त्र एव सुमुखः षड्भिः पुन-श्चेति चछाद्यैकेन युतः सुवक्त्र उदितो द्वाभ्यां प्रियङ्गोभवेत् ।एकोनः परिपद्मनाभ उदितस्तद्दीपचित्रो युगै-र्वैचित्रः शरपङ्क्तिभिस्तु विविधाकारैर्युतःपञ्च
सिंहो दैर्घ्यविवर्द्धितो हि पृथुले हंसो गवाक्षोभवेत्कुम्भोऽसौ मतिदोऽपि भद्रसहितो ज्ञेयस्तुबुद्ध्यर्णवः ।द्वारेणैव युगास्रकेण गरुडः पक्षद्वये जालकंप्रोक्ताः पञ्चदशैव रूपमदला वेद्यादिकक्षा-सनैः
”इति पञ्चदश गवाक्षाः
*
“सभा नन्दा परतोऽथ भद्राजया पूर्णा क्रमतोऽपि दिव्या ।पक्षी सुरत्नोद्भविकोत्पलाष्टौर्बुधैर्विधेयावनिपालगेहे
क्षेत्रं चतुष्टयपदैरपि षोडशांशंमध्ये तुरीयपदमेकपदो लघुश्च ।नन्देति भद्रसहिता पदेन भद्रातद्वेदतश्च जयदा लघुना पूर्णा
दिव्या सभा केवलनन्दभागाभद्रैश्चतुर्भिः सहिता पक्षी ।रत्नोद्भवा स्याद्युगतोऽपि तुल्यै-स्तथोत्पलाख्या प्रतिभद्रतश्च
स्तम्भैस्तोरणराजितैश्च मदला निर्यूहवैतानकै-र्लूच्छाद्यैर्गजसिंहराजविविधैर्नृत्यान्वितैःशोभितम् ।रत्नस्फाटिकरङ्गभूमिनृपतेः क्रीडास्पदं मण्डपंकुर्य्याद्दक्षिणभद्रके रुचिरां यन्मध्यतो वेदि-काम्
”इति सभाष्टकम्
*
“वेदी कोणचतुष्टयेन सकले पाणिग्रहे स्वस्तिकाकल्याणं रविकोणकैश्च नृपतेः सा भद्रिकासर्व्वदा ।कोणैः श्रीधरिका विंशतिमितैस्त्रिस्रोऽम-राणां गृहेकोणैरष्टभिरन्विता शुभदा चण्ड्यर्च्चनेपद्मिनी
विप्रे सप्तकराञ्च भूपमवने षट्पञ्च वैश्ये तथाकुर्य्याद्धस्तचतुष्टयाञ्च वृषले त्रिद्ध्येकतो हीनकेतस्योर्द्धे नरेश्वरासनमतो माण्डं चतुस्तम्भकंहेम्ना मौक्तिकपदृकूलमणिमिः सौम्याननंराजितम्
”इति वेदिकाचतुष्टयम्
*
“दीपस्तम्भं त्रिकरमुदये षड्मिरूनं क्रमेणहस्तान्तं तं विहितमपि तैः पीठकुम्भान्वितञ्चदीपस्योर्द्ध्वे कनककलसं शोभितं कङ्कणाद्यैःकुर्य्याद्धातोरथ तरुमतो नागवङ्गे विवर्ज्ये
”इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रेराजवल्लभे शयनसिंहासनच्छत्रगवाक्षसभा-ष्टकवेदिकाचतुष्टयदीपस्तम्भलक्षणं अध्यायः“गृहा वास्तुशास्त्रोदधौ राजयोग्याअनन्ता हि सन्त्यत्र तेभ्यः कियन्तः ।मयोक्ताश्च योग्या नृपाणां समृद्ध्यैसुशोभान्वितास्ते कल्याणदाश्च
त्रिशालं गृहं दिकत्रये ह्रस्वयुग्मंमुखे वीयिकाग्रे षड् दारुमध्यम् ।गुणालिन्दचातुर्द्दिशं चैकवक्त्रंगवाक्षञ्च कोणे भद्रे विधेयम्
मुखे भद्रके श्रीधरं माण्डयुक्तंतथा भूमिका पञ्चसप्तैकभूम्याम् ।विनाच्छादनं मण्डपं वेदवक्त्रैरिपुघ्नं गृहं राज्यवर्द्धन्यमेतत
मध्ये निम्नन्त्वङ्गणाग्रं तथोच्चैःशस्तं दैवं पुत्त्रनाशाय गेहम् ।स्तम्भश्रेणी मध्यमानेन कार्य्यान्यूनाधिक्ये नैव पूज्या श्रीः
हीनस्तम्भे शालयोर्बाह्यपट्टेनो वेद्यः स्यादन्यतो वेध एव ।भूमेर्ज्ञेयं रुद्रसंख्याप्रमाणंतुल्या नेष्टा वर्द्धमानाः शुभाः स्युः
सार्द्धत्रयेन विभजेत् करतत्त्वसख्य-मध्ये नवांशमुदितञ्च करार्द्धभित्तिः ।स्तुम्भाश्च षोडशगृहेऽपि भद्रकेषुदन्तैर्मिताश्च सकलासु चतुर्मुखं स्यात्
भद्रे भूमिद्वयमूर्द्धमाण्डंसार्द्धत्रिभूमं कथितञ्च गेहम् ।प्रतापवर्द्धन्यमिदं नृपाणांलक्ष्मीविलासञ्च वदामि तस्मात्
स्तम्भा दश दश भद्रञ्चैकंषोडशमध्ये तत्समरूपम् ।मदनशरावनिमाण्डसमेतंलक्ष्मीः कर्म्मकरोति नित्यम्
भागाः पञ्चगुणाश्च पञ्च भवनं षड्विंशतास्तम्भकैःकुड्ये चार्द्धपदे नन्दपदकैर्भद्रं चतुर्द्वारकैः ।भद्रे वैगुणभद्रकाणि सकलेऽष्टाशीतिका स्तम्भकामाण्डं भूत्रितये सार्द्धशरभूः स्याच्छ्रीनिवासगृहम्
मध्ये स्तम्भशतञ्च भागसमके भित्तिश्चतुर्द्वारकंसप्तांशाद्रिशरांशरामसहितं भद्रं चतुस्त्रिंशता ।षट्त्रिंशत् द्विशती ते तु सकलः स्तम्भाःक्षितौ पूर्व्वतोनाम्ना तत् कमलोद्भवञ्च कथितं भूम्यर्द्धसप्ता-न्द्वितम्
हर्म्यस्योदयकं विभज्य नवधा कुम्भी भवेद्भागतःपादोनं भरणं शिरश्च कथितं पट्टः सपादोभवेत् ।स्तम्भः पञ्चपदोनभाग उदितः कोणाष्टवृत्तस्तथाभागार्द्धेन जयन्तिका निगदिता सा तन्त्रकस्योपरि
गृहस्योदयं दिग्विभागैर्विभाज्यंद्विभागेन कक्षासनं वेदिका स्यात् ।त्रिभागेन तत्कण्ठतो निम्नमेवंगृहस्योदयार्द्धेन पीठं नृपाणाम्
उत्तानपट्टो नृपमन्दिरेऽसौहस्ते हस्ते द्वियवोन्नतः स्यात् ।पाषाणतः सौख्यकरो नृपाणांधनक्षयं सोऽपि करोति गेहे
सुधेष्टके शर्करया वियुक्तेसकर्करैस्तैः सुदृढा गृहे भूः ।शस्ता शस्तं भवनेषु चित्रंकपोतगृध्नाः कपिकाकरौद्रम्
शुद्धोऽलिन्दविशेषतश्च सकला भूम्यौच्चरण्ड्या-न्विताछाद्येनाप्यथ मत्तवारणयुतं माण्डं तथार्द्धो-दयम् ।मौडो भद्रचतुष्किकाभिरुदितो मण्डेन युक्त-स्तथामल्लैस्तुल्यसपादकैस्तु मुकुलो वा शीर्षकैःशेखरः
राज्ञो गृहं छन्दचतुयं स्यात्तथैव घण्टाकलसेन युक्तम् ।तुङ्गारसंज्ञस्त्वथ सिंहकर्णःप्रासादके तेऽपि षडेव शस्ताः
षड्जातिगेहं तृणपर्णपट्टै-र्वंशैः कडैर्वापि मृदा शिलाभिः ।छत्रं प्रकारैः कथितञ्च षड्भि-र्लोकप्रसिद्ध्या परीक्षणीयम्
”इति राजगृहादि
*
“वामे भागे दक्षिणे वा नृपाणांत्रेधा कार्य्या वाटिका क्रीडनार्थम् ।एकद्वित्रिर्द्दण्डसंख्या शतं स्यान्-मध्ये धारामण्डपं तोययन्त्रेः
क्षेत्रं सप्तविभागभाजितमतो भद्रञ्च भागत्रयंतन्मध्ये जलवापिकाजिनपदैरेकांशतो वेदिकास्तम्भैर्द्वादशभिश्च मध्यरचितः कोणेषु कूपान्वितःकर्त्तव्यो जलयन्त्र एष विधिवत भोगाय भूमी-भुजाम्
तस्यां चम्पककुन्दजातिसुमनोवल्ल्यः सुनि-र्व्वालुकाजातीहेमसमानकेतकिरपि श्वेता तथापाटला ।नारङ्गः करणा वसन्तलतिका चारक्तपुष्पादिकंजम्बीरो वदरी पूगमधुका जम्बूश्च चूतद्रुमाः
मालूरः कदली चन्दनवटावश्वत्थपथ्याशिवा-चिञ्चाशोककदम्बनिम्बतरवः खर्ज्जूरिकादाडिमी ।कर्पूरागुरुकिंशुका हयरिपुः पुन्नागको निम्बुकीप्रोक्ता नागलता बीजनिभृता स्यात् तिन्दुकीलाङ्गली
द्राक्षैला शतपत्रिका वकुला धत्तूरकंको-लकौशालस्तालतमालकौ मुनिवरो मन्दारपारि-द्रुमौ ।अन्ये भोज्यविचित्रखाद्यसुफलास्ते रोपणीयाबुधैःयद्याप्नोति भूतले शुभतरूंस्तच्चम्पकान्वापयेत्
आस्थानं प्रतिषेचनाय घटीयन्त्रस्तुषारोद्भवेदोला स्त्रीजनखेलनाय रुचिरे वर्षावसन्तोत्-सवे ।बालाप्रौढबधूसुमध्यवनितागानैर्मनोहारिभि-र्ग्रीष्मे शारदकेऽथ शीतलजलक्रीडा शुभेमण्डपे
इति वाटिका
*
“तुरङ्गमाणां गृहवामभागेशाला चतु षष्टिकरा विधेया ।शतार्द्धतो मध्यमिका दैर्घ्येकनीयसी तैर्दशभिर्विहीना
व्यासे ज्येष्ठा तिथिहस्तमानात्रयोदशैकादशकैः क्रमेण ।तद्वाह्यभित्तिश्च करप्रमाणापञ्चार्द्धपञ्चाब्धिकरोदया स्यात्
तेजोहानिमपीहया विदधते पूर्व्वापरास्यानृणांते याम्योत्तरतो मुखादि सततं कीर्त्तिर्यशोधान्यकम् ।कर्त्तव्यो धिषणं प्रतीह कलसस्थानं द्विहस्तोदयंतस्यास्तोरणमच्छ्रितञ्च मुनिमिहस्तैः सुशोभा-न्वितम्
षष्ट्या साधुहयाङ्गुलैर्निगदितो वेदाङ्गुलेनाधिकःश्रीवत्सस्त्वहिलाव एव मनोहारी द्बिसप्ता-ङ्गुलः ।रागाद्यङ्गुलकैस्तु वाजिविजयोऽशीत्या तथाभैरवःशान्ताख्यस्तु युगाष्टमात्र उदये मानं हरेःसप्तधा
”इत्यश्वशाला
*
“सिंहद्वारं पूर्व्वमानेन कार्य्यंत्रिद्व्येका वा मालिका स्तम्भशीर्षे
स्यातां मध्ये ताडकौ रक्षणार्थंतुल्यौ भागेनाधिकौ वापि सार्द्धौ
भागे दक्षिणवामके करिणां शाला हरे-र्द्वारतःकर्त्तव्या सुदृढोन्नता कलसैर्घण्टादिभि-र्भूषिता ।संकीर्णो रसनो नगैर्निगदितो मन्दा मृगा-श्चाष्टतःसर्वेषूत्तमभद्रजातिरुदितो नन्दैः करैरुच्छ्रितः
इति गजशाला
*
“अष्टोत्तरहस्तशतं पृथुत्वेनृपालयं चोत्तममेव तस्मात् ।अष्टाभिरष्टाभिरतो विहीनंपञ्चैव भागाधिकतोऽपि दैर्घ्ये
अशीतितो रागकरैश्च हीनाःपञ्चालया भूपसुतप्रियाश्च ।त्रिभागदैर्घ्येऽधिकतो विधेयागृहाः क्रमेर्णव यथोदिताश्च
प्रोक्तं चतुःषष्टिकरं पृथुत्वेक्रमेण षड्भिश्च करैर्विहीनम् ।षड्भागतो दैर्घ्य मतोऽधिकं स्या-द्वलाधिपस्यैव पञ्चवृद्धैः
षष्ट्या हस्तैर्मन्त्रिगेहं पृथत्वेहीनं हीनं पञ्चकं वेदवेदैः ।कुर्य्याद्धस्तैरष्टमांशोऽधिकोऽसौव्यामादग्रे वर्द्धितो दैर्घ्य एव
सामन्तादिकभूपतेश्च भवनं विध्यब्धिहस्तैः समंहस्तैर्वेदविहीनकैः क्रमतया भागाधिकंदैर्घ्यतः ।दैवज्ञञ्च सभासदस्य गुरुतः पौरोधमं भैषजंविंशत्यष्टकरं द्विहस्तरहितं दैर्घ्ये द्विधा तद्-भवेत्
वेश्याकञ्चुकिशिल्पिनामपि गृहे वेदाधिकाविशति-र्मानं हस्तचतुष्टयैर्विरहितं दैर्घ्येऽधिकाव्यासतः ।हर्म्म्यं द्यूतकरान्तिकस्य रचितो हस्तैः समंविस्तरेहीनं त्वर्द्धकरेण पञ्चकमिदं तुर्य्यांशदैर्घ्याधि-कम्
द्वात्रिंशता मानमिदं द्विजादे-र्हीनं चतुर्भिः क्रमतो विधेयम् ।दिगष्टरागाब्धिविभागतश्चक्रमेण तद्वर्णचतुष्टयेऽपि
कर्णाधिकं विस्तरतोऽधिकञ्चशीघ्रं विनाशं समुपैति गेहम् ।द्वारं नतं मूर्द्ध्नि यदाग्रतश्चतत् सन्ततेर्हानिकरं प्रदिष्टम्
व्यासे सप्ततिहस्तवियुक्तेशालामानमिदं मनुभुक्ते ।पञ्चत्रिंशत् पुनरपि तस्मिन्मानमुशन्ति लघोरिव वृद्धाः
एकं द्वारं प्राङ्मुखं शोभनं स्यात्चातुर्वक्त्रं धातृभूपेशजैने ।युग्मं प्राच्यां पश्चिमे स्यात्त्रिकेषुमूलं द्वारं दक्षिणे वर्ज्जनीयम्
”इति वास्तुशास्त्रे राजवल्लभमण्डने वाजगृहा-दिल क्षणं नाम नवमोऽध्यायः
*