| YouTube Channel

शिलीपदः (zilIpadaH)

 
Apte
English
शिलीपदः [śilīpadḥ], Elephantiasis.
Apte Hindi
Hindi
शिलीपदः
पुं*
- -
"पादस्फीति, फील पाँव रोग"
शब्दकल्पद्रुमः
Sanskrit
शिलीपदः,
पुं,
(शिलीव स्थूलं पदमस्मात् ।)पादरोगविशेषः गोद इति भाषा तत्पर्य्यायःपदगण्डीरः श्लीपदः इति शब्दरत्नावली
पादवल्मोकः इति हेमचन्द्रः
श्लीपदस्यविप्रकृष्टं निदानमाह ।“पुराणोदकभूयिष्ठाः सर्व्वर्त्तुषु शीतलाः ।ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः
”विशेषत इति वचनेनान्यत्रापि श्लीपदानि भवन्तिइति बोध्यते
*
सामान्यं लक्षणमाह ।“यः सज्वरो वंक्षणजो भृशार्त्तिःशोथो नृणां पादगतः क्रमेण ।तत् श्लीपदं स्यात् करकर्णनेत्र-शिश्नोष्ठनासास्वपि केचिदाहुः
”तत्त्रिविधम् वातिकं पैत्तिकं श्लैष्मिकञ्चेति ।तेषां लक्षणमाह ।“वातजं कृणरूक्षं हि स्फुटितं तीव्रवेदनम् ।अनिमित्तरुजञ्चास्य बहुशो ज्वर एव
*
पित्तजं पीतसङ्काशं दाहज्वरयुतं भृशम्
*
श्लैष्मिकन्तु भवेत् स्निग्धं तथा पाण्डुगुरु स्थिरम्
त्रीण्यप्येतानि जानीयात् श्लीपदानि कफो-च्छ्रयात् ।गुरुत्वञ्च महत्त्वञ्च यस्मान्नास्ति विना कफान्
”असाध्यमाह ।“वल्मीकमिव संजातं कण्टकैरुपचीयते ।सर्व्वात्मकं महत्त्वञ्च वर्जनीयं विशेषतः
यत् श्लेष्मलाहारविहारजातै-र्जातं तथा भूरिकफस्य पुंसः ।सास्रावमप्युन्नतिसर्वलिङ्गंसकण्टकं वापि विवर्जीनीयम्
”अस्य चिकित्सा ।“लङ्घनालेपनस्वेदरेचनै रक्तमोक्षणैः ।प्रायः श्लेष्महरैरुष्णैः श्लीपदं समुपाचरेत्
सिद्धार्थशोभाञ्जनदेवदारु-विश्वौषधैर्मूत्रयुतैः प्रलिम्पेत् ।पुनर्नवा नागरसर्षपाणांकल्केन वा काञ्जिकमिश्रितेन
”श्लीपदमिति शेषः ।“धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रसर्षपैः ।प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम्
असाध्यमपि यात्यन्तं श्लीपदं चिरकालजम् ।मूलेन सहचरायाः तालमिश्रेण लेपनात्
”तालस्य फलरसो ग्राह्यः ।“सप्तलास्थूलपत्राणां कल्कं तप्तेन वारिणा ।संसृष्टं लवणोपेतं सेवितं श्लीपदं हरेत्
शाखोटवल्कलक्वाथं गोमूत्रेण युतं पिबेत् ।श्लीपदानां विनाशाय मेदोदोषनिवृर्त्तये
रजनीं गुडसंयुक्तां गोमूत्रेण पिबेन्नरः ।वर्षोत्थं श्लीपदं हन्ति दद्रुकुष्ठं विशेषतः
वर्षाभूत्रिफलाचूर्णं पिप्पल्या सह योजितम् ।सक्षौद्रं श्लीपदं लिह्याच्चिरोत्थं श्लीपदं जयेत्
गन्धर्वतैलसिद्धां हरीतकीं गोऽम्बुना पिबति ।श्लीपदविबन्धमुक्तो भवत्यसौ सप्तरात्रेण
”गन्धर्वतैलं एरण्डतैलम् गोऽम्बुना गोमुत्रेण ।इति भावप्रकाशः