| YouTube Channel

शिरःशूलं (ziraHzUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
शिरःशूलं,
क्ली,
(शिरसः शूलम् ।) मस्तक-वेदनारोगः (यथा, कथासरित्सागरे १३ ।१५५ ।“प्रातः सोऽपि शिरःशूलव्यपदेशेन वेष्टनम् ।कृत्वा प्रच्छादयामास ललाटतटमङ्कितम्
”)तस्यौषधं यथा, --“श्वेतापराजितामूलं पिप्पलीशुण्ठिसंयुतम् ।परिपिष्टं शिरोलेपात् शिरःशूलविनाशनम्
”इति गारुडे १८८ अध्यायः