| YouTube Channel

शिथिलं (zithilaM)

 
शब्दकल्पद्रुमः
Sanskrit
शिथिलं, त्रि, (श्रथ + “अजिरशिशिरशिथि-लेति ।” उणा० ५४ इति किरच्-प्रत्ययेन साधुः ।) श्लथः इति हेमचन्द्रः
(यथा, भागवते २८ १५ ।“शिथिलावयवो यर्हि गन्धर्व्वैर्हृ तपौरुषः
”)
शिथिलं,
क्ली,
(श्रथ + किरच् ।) मन्दबन्धनम् ।मन्यरत्वम् इति संक्षिप्तसारोणादिवृत्तिः
संयोगविशेषः यथा, --“प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ।”इति भाषापरिच्छेदः
“प्रचय इति मूले शिथिलाख्य इति किञ्चिदव-यवावच्छेदेनावयवान्तरसंयोगिनि महत्त्ववतिअवयवे वर्त्तमानः संयोगः प्रचय इत्येके अत्रमहत्त्वपद देयं परमाणुसंयोगस्य प्रचयत्वे-ऽपि क्षतिरित्यन्ये भूयोऽवयवावच्छेदेनाव-यवान्तरसंयोगिन्यवयवे वर्त्तमानः संयोगःप्रचयः तेन परमाणुसंयोगो द्व्यणुकसंयोगो वान प्रचय इत्यमरे ।” इति सिद्धान्तमुक्तावली-टीकादिनकरी