| YouTube Channel

शिञ्जितं (ziJjitaM)

 
शब्दकल्पद्रुमः
Sanskrit
शिञ्जितं,
क्ली,
(शिञ्ज + क्तः ।) भूषणध्वनिः ।इत्यमरः
(यथा, --“नखानि विधुशङ्कया विरहिणी करेणावृणोत्ततः किशलयभ्रमात् स्वयमथाक्षिपद्दूरतः ।ततो वलयशिञ्जितं भ्रमरगुञ्जिताशङ्कयाउहूरिति कुहूरवध्वनिधिया ततो मूर्च्छिता
”इत्युद्भटः
)