| YouTube Channel

शिजि (ziji)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शिञ्ज्
मूलधातुः:
शिजि
धात्वर्थः:
अव्यक्ते शब्दे
गणः:
अदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
शिङ्क्ते
धातुप्रदीपः
Sanskrit
शिजिँ शिजि अव्यक्ते_शब्दे
- शिङ्क्ते शिञ्जाते शिञ्जते शिशिञ्जे शिञ्जा शिञ्जानः शिञ्जितम् ।। 17 ।।
क्षीरतरङ्गिणी
Sanskrit
शिजिँ शिजि अव्यक्ते_शब्दे
- शिङ् क्ते शिञ्जानः शिञ्जिता शिजि पिजि इति कौशिकः पिंक्ते, पिञ्जरः खर्जपिञ्जादिभ्य ऊरोलचौ (उ0 490) पिञ्जूलः पिङ्गलः वृजी वर्जने इति दौर्गाः वृक्ते, वर्जिता, वृक्तः 19
धातुवृत्तिः
Sanskrit
शिजिँ शिजि (अर्थः) अव्यक्ते_शब्दे
(शिङ्क्ते ) इत्यादि पूर्व्ववत् तालैः शिञ्जदित्यात्मनेपदानित्यत्वज्ञापनादिति चक्षावुक्तम्, (शिञ्जा) पचाद्यचि टाप् "गुरोश्च हल'' इत्यकारो वा (शिञ्जनी ) आवश्यणिन्यतान् ङीप् 17
कृदन्तरूपमाला
Sanskrit
1 {@“शिजि अव्यक्ते शब्दे”@} 2 शिञ्जानः-शानच्।
‘तालैः शिञ्जद्वलय--’ 3 इति तु ‘अनुदा- त्तेत्वप्रयुक्तमात्मनेपदमनित्यम्’ इति परिभाषया 4 साधुरिति माधवः।
‘अव्यक्ते शब्दे’ इत्युक्तावपि भूषणध्वनावेवायं कविभिः प्रयुज्यते--यथाहामरसिंहः-- ‘भूषणानां तु शिञ्जितम्’ इति।
एतच्च शब्दशक्तिस्वाभाव्यादुपपद्यते।
5 शिञ्जिनी--आवश्यकार्थे ‘आवश्यकाधमर्ण्ययोः--’ 6 इति णिनि- प्रत्यये तदन्तात् ङीष्।
शिञ्जा-पचाद्यचि टाप्।
इतराणि समस्तान्यपि रूपाणि आदादिकणिजिधातुवत् 7 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७०८)
02
=>
(२-अदादिः-१०२७। अक। सेट्। आत्म।)
03
=>
(मेघदूतम् २-१९)
04
=>
(९८)
05
=>
[पृष्ठम्१२९७+ २७]
06
=>
(३-३-१७०)
07
=>
(६७२)