| YouTube Channel

शिक्षकः-क्षिका (zikSakaH-kSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शक विभाषितो मर्षणे”@} 2 ‘-- क्षमायाम्’ इति कातन्त्रकाशकृत्स्नौ।
‘-- शक्तौ’ इति वोपदेवः।
‘शक्यते शक्यतीत्येवं शपि श्नौ श्यनि क्रमात्।।’ 3 इति देवः।
शाककः-किका, शाककः-किका, 4 शिक्षकः-क्षिका, शाशककः-किका
5 शक्ता-त्री, शाकयिता-त्री, शिक्षिता-त्री, शाशकिता-त्री
इत्येवमादीनि रूपाणि सर्वाण्यपि दैवादिकनश्यतिवत् 6 ज्ञेयानि।
7 शक्यन्-शक्यमानः, 8 भोक्तुं शक्यते, 9 शक्तो घटः कर्तुम्-शकितो घटः कर्तुम्, 10 शक्तिः, शक्तिः, 11 शक्यम्, 12 शक्वा-शक्वरी, 13 कलप्रत्यये रूपमेवम्।
‘भित्तं शकलम्’ 14
सारोऽपि।]] शकलम्, 15 16 शक्रः, 17 शकुनः-शकुन्तः-शकुन्तिः-शकुनिः, 18 शकृत्, शकटः, इति विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(१६७०)
02
=>
(४-दिवादिः-११८७। सक। अनिट्। उभ।)
03
=>
(श्लो। ४३)
04
=>
[[२। ‘सनि मीमाघुरभलभशक--’ (७-४-५४) इति अकारस्य इस्। ‘स्कोः--’ (८-२-२९) इति सकारलोपः। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। षत्वम्। इक्समीपात् हलः परस्य झलादेः सनः कित्त्वात् गुणः इति बोध्यम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[[३। धातोरनिट्त्वं सर्वसम्मतम्। तेनैवं तृजादिषु रूपम्। क्षीरस्वामी तु ‘विभाषितः’ इत्यस्य ‘इड् वा इति मतभेदः… शकिता शक्ता।’ इत्याह।]]
06
=>
(६६७)
07
=>
[[४। ‘विभाषितः’ इत्यस्य तन्त्रान्तरप्रसिद्ध्या उभयपदित्वं क्षीरस्वामि- शाकटायनदेवप्रभृतिभिरुक्तम्। तत्पक्षे शता श्यन् च। एतत्पक्षखण्डकानां पुरुष- कारधातुवृत्तिकारादीनां मते तु शक्यन् इति एकमेव परस्मैपदं रूपम्।]]
08
=>
[[५। ‘शकधृष--’ (३-४-६५) इत्यनेन धातावस्मिन् उपपदभूते सति धात्वन्तरस्य तुमुन् भवति।]]
09
=>
[[६। ‘सौनागाः कर्मणि निष्ठायां शकेरनिटमिच्छन्ति विकल्पेन’ (काशिका ७-२-१७) इति वचनादत्रेड्विकल्पः। इति धातुवृत्तिः।]]
10
=>
[[७। स्त्रियां क्तिनि शक्तिः। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति क्तिचि शक्तिः = ऋषिविशेषस्य संज्ञा। पुंल्लिंगोऽयं शब्दः। शक्तिः = आयुधविशेषस्य संज्ञा।]]
11
=>
[[८। ‘शकिसहोश्च’ (३-१-९९) इति ण्यदपवादो यत्प्रत्ययः।]]
12
=>
[[९। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-१-९९) इति वनिप्प्रत्यये रूपमेवम्। स्त्रियां तु ‘वनो च’ (४-१-७) इति ङीप्, तत्सन्नियोगेन रेफश्चान्तादेशः। तेन शक्वरी इति सिद्ध्यति। शक्वरी छन्दोविशेषः।]]
13
=>
[[१०। औणादिके [द। उ। ८-११२]
14
=>
(८-२-५९)
15
=>
[पृष्ठम्१२८०+ २७]
16
=>
[[१। औणादिके (द। उ। ८। ३१) रक्प्रत्यये रूपम्। शक्रः = इन्द्रः।]]
17
=>
[[२। ‘शकेरुनोन्तोन्त्युनयः’ (द। उ। १०-५) इति उन-उन्त-उन्ति-उनिप्रत्ययाः। पक्षिनामान्येतानि।]]
18
=>
[[३। औणादिके (द। उ। ६-२६) ऋतिन्प्रत्यये रूपमेवम्। शकृत् = गोपुरीषम्।]]