| YouTube Channel

शास्त्रं (zAstraM)

 
Apte 1890
English
शास्त्रं [शिष्यतेऽनेन शास्-ष्ट्रन्] 1 An order, a command, rule, precept.
2 A sacred precept or rule, scriptural injunction.
3 A religious or sacred treatise, sacred book, scripture
see comps. below.
4 Any department of knowledge, science
इति गुह्यतमं शास्त्रं Bg. 15. 20
शास्त्रेष्वकुंठिता बुद्धिः R. 1. 19
often at the end of comp. after the word denoting the subject, or applied collectively to the whole body of teaching on that subject
वेदांतशास्त्र, न्यायशास्त्र, तर्कशास्त्र, अलंकारशास्त्र &c.
5 What is learnt, knowledge
Śi. 5. 47.
6 A work, treatise
तंत्रैः पंचभिरेतच्चकार सुमनोहरं शास्त्रं Pt. 1.
7 Theory (opp. प्रयोग or practice)
इमं मां शास्त्रे प्रयोगे विमृशतु M. 1.
Comp.
अतिक्रमः,
अननुष्ठानं violation of sacred precepts, disregard of religious authority.
अनुष्ठानं
अनुसारः conformity to or observance of sacred precepts.
अभिज्ञ a. versed in the Śāstras.
अर्थः {1} the meaning of a sacred precept. {2} a scriptural precept or statement.
आचरणं {1} observance of sacred precepts. {2} the study of Śāstras. (
णः) {1} one versed in scriptures. {2} a student of the Vedas.
उक्त a. prescribed by sacred laws, enjoined by the Śāstras, lawful, legal.
कारः
कृत m. {1} the author of a Śāstra or sacred book. {2} an author in general. {3} a sage, saint.
कोविद् a. versed in the Śāstras.
गंडः a superficial reader of books, superficial scholar.
चक्षुस् n. grammar (as being the 'eye', as it were, with which to understand any Śāstra).
चारणः one who deserves sacred precepts.
ज्ञ,
विद् a. {1} well versed in the Śāstras. {2} a mere theorist.
ज्ञानं knowledge of sacred books, conversancy with scriptures.
तत्त्वं truth as taught in the Śāstras, scriptural truth. °ज्ञः an astronomer.
दर्शिन् a. stated or enjoined in sacred books.
दृष्ट्रिः f. scriptural point of view.
प्रसंगः {1} the subject of the Śāstras. {2} any discussion on scriptural points.
योनिः the source of the Śāstras.
विधानं,
विधिः a sacred precept, scriptural injunction.
विप्रतिपेधः,
विरोधः {1} mutual contradiction of sacred precepts, inconsistency of precepts. {2} any act contrary to sacred precepts.
विमुख a. averse from study
Pt. 1.
विरुद्ध a. contrary to the Śāstras, illegal, unlawful.
व्युत्पत्तिः f. intimate knowledge of the sacred writings, proficiency in the Śāstras.
शिल्पिन् m. the country of Kāshmīra.
सिद्ध a. established by sacred authority.
Hindi
Hindi
शास्त्र
शब्दकल्पद्रुमः
Sanskrit
शास्त्रं,
क्ली,
(शिष्यते अनेन शास + “सर्व्व-धातुभ्यष्ट्रन् ।” उणा० १५८ इति ष्ट्रन् ।)निदेशः ग्रन्थः इत्यमरः
ग्रन्थःअष्टादशविधः तस्य विवरणं विद्याशब्देद्रष्टव्यम्
*
शास्त्रोत्पत्तिर्यथा, --मत्स्य उवाच ।“तपश्चचार प्रथमममराणां पितामहः ।आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः
पुराणं सर्व्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् ।नित्यशब्दमयं पुण्यं शतकोटिप्रविस्तरम्
अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः ।मीमांसान्यायविद्याश्च प्रमाणं तर्कसंयुताः
वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः ।मनसः पूर्व्वसृष्टा वै जाता ये तेन मानसाः
”इति मात्स्ये अध्यायः
*
शास्त्रोक्तकर्म्म कर्त्तव्यं तु शास्त्रविरुद्धम् ।यथा, --“श्रुतिस्मृतिसदाचारविहितं कर्म्म केवलम् ।सेवितव्यं चतुर्व्वर्णैर्भजद्भिः केशवं सदा
अन्यथा निरयं यान्ति कुमार्गागमसेवनात् ।अतो वेदविरुद्धार्थं शास्त्रोक्तं कर्म्म संत्यजेत्
स्वबुद्धिरचितैः शास्त्रैः प्रतार्य्येह बालिशान् ।विघ्नन्ति श्रेयसो मार्गं लोकनाशाय केवलम्
निन्दन्ति देवता वेदांस्तपो निन्दन्ति सद्द्विजान् ।तेन ते निरयं यान्ति ह्यसच्छास्त्रनिषेवणात्
श्रुतिस्मृतिसदाचारविहितं कर्म्म शाश्वतम् ।स्वं स्वं धर्म्मं प्रयत्नेन श्रेयोऽर्थीह समाचरेत्
स्वबुद्धिरचितैः शास्त्रैर्मोहयित्वा जनं नराः ।तेन ते निरयं यान्ति युगानां सप्तविंशतिः
”इति पाद्मे उत्तरखण्डे १७ अध्यायः
*
अध्यात्मशास्त्रातिरिक्तशास्त्रनिन्दा यथा, --“पुराणं भारतं वेदधर्म्मशास्त्राणि यानि ।आयुषः क्षपणायैव धर्म्मतश्चेन्न चाचरेत्
पुत्त्रदारादिसंभारः पुंसां संमूढचेतसाम् ।विदुषां शास्त्रसंभारः तद्योगाभ्यासविघ्नकृत्
इदं ज्ञेयमिदं ज्ञेयं यः सर्व्वं ज्ञातुमिच्छति ।अपि वर्षशतेनापि शास्त्रान्तं नाधिगच्छति
विज्ञायाक्षरतन्मात्रं जीवितुञ्चापि सञ्चलन् ।विहाय शास्त्रजालानि पारलौकिकमाचरेत्
पण्डितोऽपि हि मूर्खोऽसौ शक्तियुक्तोऽप्य-शक्तिकः ।यः संसारान्न चात्मानं समुत्तारयितुं क्षमः
”इति वह्निपुराणे सुनामद्बादशीनामाध्यायः
*
वेदविरुद्धशास्त्राणि यथा, --“अन्यानि चैव शास्त्राणि लोकेऽस्मिन्मोहनानि ।वेदवादविरुद्धानि मयैव कथितानि तु
वामं पाशुपतं योगं नाकुलं चैव भैरवम् ।असेव्यमेतत् कथितं वेदवाह्यं तथेतरत्
वेदमूर्त्तिरहं विप्रा नान्यशास्त्रार्थवादिभिः ।ज्ञायते मत्स्वरूपञ्च त्यक्त्वा वेदं सनातनम्
”इति कौर्म्मे उपविभागे ३६ अध्यायः
*
अपि कूर्म्मपुराणे हिमालयं प्रति देवी-वाक्यम् ।“यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विवि-धानि ।श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी
करालभैरवञ्चापि यामलं वामनाश्रितम् ।एवंविधानि चान्यानि मोहनार्थानि तानि तु ।मया सृष्टानि चान्यानि मोहायैषां भवार्णवे
”तस्मात् सद्भिः श्रुतिस्मृतिविरुद्धे वर्त्मनि कदा-चित् पदं न्यस्तव्यम् इति मलमासतत्त्वम्
*
पृथिव्यां तन्त्रशास्त्रावतरणं यथा, --शिव उवाच ।“लम्बोदर महाभाग शृणु मे परमं वचः ।इदं महासुसन्दर्भं मम वक्त्राद्बिनिर्गतम्
निर्गतं पार्व्वतीवक्त्रात्तन्त्रं परमदुर्लभम् ।विलिख्य बहुयत्नेन गच्छ सिद्धाश्रमं सुत
यत्र तिष्ठन्ति मुनयो वेदवेदाङ्गपारगाः ।अणिमादिगुणैर्युक्तः शीघ्रं त्वं भव मे सुत
इत्युक्तः शङ्करेणासौ चाष्टबाहुरभूत्ततः ।चतुर्भिर्हस्तैः संलिख्य शिवाय विनिवेदयेत्
शिव उवाच ।गच्छ पुत्त्र महाबाहो तन्त्रमादाय सत्वरम् ।सिद्धाश्रमं वनं रम्यं यथेन्द्रस्य नन्दनम् ।प्रणम्य प्रययौ शीघ्रं तन्त्रमादाय तद्वनम्
”इत्युपक्रम्य ।“मुनेर्व्वाक्यं ततः श्रुत्वा तत्तन्त्रं मुनये ददौ ।एवं तन्त्राणि सर्व्वाणि विलिख्य विनिवेदयेत्
”इति गायत्त्रीतन्त्रे दशमब्राह्मणपटलः
*
शैवपाशुपतादिशास्त्रोत्पत्तिर्यथा, --“प्रथमं हि मया प्रोक्तं शैवं पाशुपतादिकम् ।मच्छक्त्यावेशितैर्विप्रैः संप्रोक्तानि ततः परम्
कणादेन संप्रोक्तं शास्त्रं वैशेशिकं महत् ।गौतमेन तथा न्यायं सांख्यन्तु कपिलेन तु
धिषणेन तथा प्रोक्तं चार्व्वाकमतिगर्हितम्
दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ।बौद्धशास्त्रं तथा प्रोक्तं लग्ननीलपटादिकम्
आपत्यं शुतिवाक्यानां दर्शयन् लोकगर्हितम् ।कर्म्मस्वरूपत्याज्यत्वमत्र वै प्रतिपद्यते ।सर्व्वकर्म्मपरिभ्रष्टं कल्मषन्तु तदुच्यते
गौतमप्रोक्तशास्त्रार्थनिरताः सर्व्व एव हि ।शार्गालीं योनिमापन्नाः सन्दिग्धाः सर्व्व-कर्म्मसु
”इति गन्धर्व्वतन्त्रे प्रथमपटलः