| YouTube Channel

शाश्वतं (zAzvataM)

 
शब्दकल्पद्रुमः
Sanskrit
शाश्वतं, त्रि, (शश्वद्भवम् शश्वत् + अण् ।)नित्यम् इत्यमरः
(यथा, रामायणे ।१ १५ ।“मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्
”)पारिभाषिकशाश्वतं यथा, --“शाश्वतं देवपूजादि विप्रदानञ्च शाश्वतम् ।शाश्वतं सगुणा विद्याः सुहृन्मित्रञ्च शाश्वतम्
”इति गारुडे नीतिसागरे १०९ अध्यायः