| YouTube Channel

शाशदकः- (zAzadakaH-)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शदॢ शातने”@} 2 शादकः-दिका, शादकः-दिका-शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः- दिका
शीयमानः, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकशीयतिवत् 3 ज्ञेयानि।
भौवादिकधात्वपेक्षया नास्य धातो रूपेषु भेदः।
‘शदेः शितः’ 4 इति तङ्विधानात् नापि शताऽस्तीति प्रयोजनं कल्पयितुं शक्यते, येन ‘आच्छीनद्योर्नुम्’ 5 इति नुम्विकल्पः प्रयोजयितुं शक्येत।
ततश्च विफलत्वे सति यथाकथञ्चित् स्वरभेदः प्रयोजनत्वेन कल्प्यः इति प्राञ्चः।
वस्तुतस्तु शपः-शप्रत्ययस्य प्रसक्त्यभावात्--शब्निमित्तकः पित्स्वरोऽनुदात्तः, शनिमित्तकः प्रत्ययस्वरोऽपि लक्ष्याभावादेव दुर्लभ इति नैतदपि प्रयोजनं वक्तुं शक्यमित्यास्तां तावत्।
प्रासङ्गिक्यः
01
=>
(१६८२)
02
=>
(६-तुदादिः-१४२८। सक। अनि। पर।)
03
=>
(१६८१)
04
=>
(१-३-६०)
05
=>
(७-१-८०)