| YouTube Channel

शावरोत्सवः (zAvarotsavaH)

 
शब्दकल्पद्रुमः
Sanskrit
शावरोत्सवः,
पुं,
(शावराणामुत्सवः ।) म्लेच्छ-कृतोत्सवः यथा, --“पूजयित्वा महाष्टम्यां नवम्यां बलिभिस्तथा ।विसर्ज्जयेत् दशम्यां तु श्रवणे शावरोत्सवैः
अन्तःपादो दिवाभागे श्रवणस्य यदा भवेत् ।तदा संप्रेषणं देव्या दशम्यां शावरोत्सवैः
रागिणीभिः कुमारीभिर्व्वेश्याभिर्नर्त्तकैस्तथा ।शङ्खतूर्य्यनिनादैश्च मृदङ्गैः पटहैस्तथा
ध्वजैर्वज्रैर्ब्बहुविधैर्लाजपुष्पप्रकीर्णकैः ।धूलीकर्द्दमविक्षेपैः क्रीडाकौतुकमङ्गलैः
भगलिङ्गविधानैश्च भगलिङ्गप्रगीतकैः ।भगलिङ्गादिशब्दैश्च क्रीडयेयुरलं जनाः
परैर्निक्षिप्यते यस्तु यः परं नाक्षिपत्यपि ।क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम्
”इति कालिकापुराणे उत्तरतन्त्रे ६० अध्यायः