| YouTube Channel

शावः (zAvaH)

 
Wordnet
Sanskrit
Synonyms:
शिशुः, पाकः, पोतः, अर्भकः, डिम्भः, पृथुकः, शावकः, शावः, अर्भः, शिशुकः, पोतकः, भिष्टकः
noun
जन्मनः अनन्तरम् एकवर्षीयः द्विवर्षीयः वा बालः।
"माता शिशुं दुग्धं पाययति।"
शब्दकल्पद्रुमः
Sanskrit
शावः,
पुं,
(शव्यते प्राप्यते इति शव गतौ +घञ् ।) शिशुः इति शब्दरत्नावली
(यथारघुवंशे ।“शिलाविभङ्गैर्मृगराजशावःतुङ्गं नगोत्सङ्गमिवारुरोह
”शवस्यायम् शव + अण् ।) शवसम्बन्धिनि, त्रि
यथा, --“ग्रहणे शावमाशौचं विमुक्तो सौतिकं स्मृतम् ।तयोः सम्पत्तिमात्रेण उपस्पृश्य क्रियाक्रमः
”इति तिथ्यादितत्त्वे ब्रह्माण्डपुराणम्