| YouTube Channel

शाल्मलः (zAlmalaH)

 
Apte
English
शाल्मलः [śālmalḥ], [शाल्-मलच्]
The silk-cotton tree.
One of the seven great divisions of the earth.
The gum of the cotton-tree.
N.
of a ṛiṣi
V.
P.
Apte 1890
English
शाल्मलः [शाल्-मलच्] 1 The silk-cotton tree.
2 One of the seven great divisions of the earth.
3 The gum of the cotton-tree.
Wordnet
Sanskrit
Synonyms:
शाल्मली, पिच्छिला, पूरणी, मोचा, स्थिरायुः, शाल्मलः, शाल्मलिनी, तुलिनी, कुक्कुटी, रक्तपुष्पा, कण्टकारी, मोचिनी, चिरजीवी, पिच्छिलः, रक्तपुष्पकः, तूलवृक्षः, मोचाख्यः, कण्टकद्रुमः, रक्तोत्पलः, रम्यपुष्पः, बहुवीर्यः, यमद्रुमः, दीर्घद्रुमः, स्थूलफलः, दीर्घायुः, कण्टकाष्ठः
noun
एकः बृहत् वृक्षः यस्मिन् रक्तपुष्पाणि भवन्ति।
"शाल्मल्याः फलस्य अधोभागे कार्पासः भवति।"
Synonyms:
शाल्मलः
noun
शाल्मलीवृक्षनिर्यासः।
"शाल्मल्याः त्वचः शाल्मलः निर्गच्छति।"
शब्दकल्पद्रुमः
Sanskrit
शाल्मलः,
पुं,
शाल्मलीवृक्षः इति शब्दरत्ना-वली
(यथा, महाभारते ६४ ।“अर्ज्जनारिष्टसञ्छन्नं स्यन्दनैश्च सशाल्मलैः
”)द्वीपविशेषः इति शब्दमाला
तद्बिवरणंयथा, --“अत ऊर्द्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत ।शाल्मलो द्बिगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात्
परिवार्य्य समुद्रन्तु दधिमण्डोदकं स्थितः ।तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः
कुत एव सुदुर्भिक्षं क्षमातेजोयुता हि ते ।प्रथमः सूर्य्यसङ्काशः सुमना नाम पर्व्वतः
पीतस्तु मध्यमस्तत्र शातकौम्भमयो गिरिः ।नाम्ना सर्व्वसुखो नाम दिव्यौषधिसमन्वितः
तृतीयश्चैव सौवर्णो भृङ्गपत्रनिभो गिरिः ।स नाम्ना रोहितो नाम दिव्यो गिरिवरोमहान्
सुमनाः कुशलो देशः सुखोदर्कः सुखोदयः ।रोहितस्तु तृतीयस्तु रोहिणी नाम विश्रुतः
तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ।प्रजापतिमुपादाय प्रसन्नो विधिवत् स्वयम्
तत्र नद्यो वर्षं वा शीतोष्णञ्चैव तद्विधम् ।वर्णाश्रमाणां वार्त्ता वा त्रिषु द्वीपेषु विद्यते
गृहं दण्डोऽस्ति ईर्ष्यासूया भयं तथा ।उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि
भोजनं षड्रसं तत्र तेषां स्वयमुपस्थितम् ।अधमोत्तमो तेष्वस्ति लोभो परिग्रहः
अरोगा बलवन्तश्च एकान्तसुखिताः प्रजाः ।त्रिंशद्बर्षसहस्राणि मानसीं सिद्धिमास्थिताः
स्वस्वमायुःस्वरूपञ्च धर्म्मैश्वर्य्यं तथैव ।शाल्मलाद्येषु विज्ञेयं द्वीपेषु त्रिषु सर्व्वशः
व्याख्यातः शाल्मलाद्यानां द्वीपानान्तु विधिःशुभः ।परिमण्डलस्तु द्वीपश्चक्रवत् परिवेष्टितः ।सुरोदेन समुद्रेण द्विगुणेन समन्वितः
”इति मत्स्यपुराणे भुवनकोषे सप्तद्वीपनिवेशनंनाम १०० अध्यायः
*
अपि ।“प्लक्षद्बीपप्रमाणात्तु द्विगुणेन समन्ततः ।संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः
सप्त वर्षाणि तत्रैव तत्रैव कुलपर्व्वताः ।ऋज्वायताः सुपर्व्वाणः सप्त नद्यश्च सुव्रताः
कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः ।द्रोणः कर्णस्तु महिषः ककुद्वान् सप्त पर्व्वताः
योनितोषा विभृष्टा चन्द्रा शुक्ला विमोचनी ।निवृत्तिश्चेति ता नद्यः स्मृताः पापहराःशिवाः
तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ।न चैवास्ति युगावस्था जना जीवन्त्यनामयाः
यजन्ति सततं तत्र वर्णा वायुं सनातनम् ।तेषां तस्याथ सायुज्यं स्वारूप्यञ्च सलोकताम्
कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ।पीता वैश्यास्तथा कृष्णा द्बीपेऽस्मिन् वृषलाद्विजाः
”इति कौर्म्मे भुवनविन्यासे ४६ अध्यायः
*
मोचरसः इति रत्नमाला