| YouTube Channel

शालग्रामगिरि (zAlagrAmagiri)

 
Monier Williams Cologne
English
शाल—ग्राम—गिरि
m.
N.
of a mountain producing the ڰ stone,
VāmP.
L R Vaidya
English
SAla-grAma˚giri {% m. %} name of a mountain.
शब्दकल्पद्रुमः
Sanskrit
शालग्रामगिरिः,
पुं,
(शालग्रामस्य गिरिः ।)शालग्रामोत्पादकपर्व्वतः यथा, --वाराह उवाच ।“कथयिष्यामि ते गुह्यं शालग्राममिति श्रुतम् ।तस्मिन् क्षेत्रे हरो देवो मत्स्वरूपेण संयुतः
शालग्रामे गिरौ तस्मिन् शिलारूपेण तिष्ठति ।अहं तिष्ठामि तत्रैव गिरिरूपेण नित्यदा
तस्मिन् शिलाः समग्रास्तु मत्स्वरूपा संशयः ।पूजनीयाः प्रयत्नेन किं पुनश्चक्रलाञ्छिताः
लिङ्गरूपेण तु हरस्तत्र देवालये गिरौ ।शिवनाभाः शिलास्तत्र चक्रनाभास्तथा शिलाः
सोमेश्वराधिष्ठितस्तु शिवरूपो गिरिः स्मृतः ।शालग्रामगिरिर्विष्णुरहं सोमेश्वराधिपः
तयोः पर्व्वतयोर्यो वै शिला विष्णुशिलाभिधाः
रेवया कृतं पूर्व्वं तपः शिवसुतुष्टिदम् ।मम त्वत्सदृशः पुत्त्रो भूयादभिहितो तया
अहं कस्यापि सुतः किं करिष्यामि चिन्त-यन् ।रेवायाखु वरो देयस्त्ववश्यं मृगलाञ्छन ।निश्चित्यैवं तदा प्रोक्तं प्रसन्नेनान्तरात्मना
लिङ्गरूपेण ते देवि गजाननपुरस्कृतः ।गर्भे तव वसिष्यामि पुत्त्रो भूत्वा शिवप्रिये
मम त्वमपरा मूर्त्तिः ख्याता जलमयी शिवा ।शिवशक्तिविभेदेन आवामेकत्र संस्थितौ
एवं दत्तवरा रेवा मत्सान्निध्यमिहागता ।रेवाखण्डमिति ख्यातं ततः प्रभृति गोपते
*
गण्डक्यापि पुरा तप्तं वर्षाणामयुतं विधे ।शीर्णपर्णाशनं कृत्वा वायुभक्षाप्यनन्तरम्
दिव्यं वर्षशतं तेपे विष्णुं चिन्तयती तदा ।ततः साक्षाज्जगन्नाथो हरिर्भक्तजनप्रियः
उवाच मधुरं वाक्यं प्रीतः प्रणतवत्सलः ।गण्डकि ! त्वां प्रसन्नोऽस्मि तपसा विस्मितेऽनघे
अनवच्छिन्नया शक्त्या वरं वरय सुव्रते ।किं देयं तद्बदस्वाशु प्रीतोऽस्मि वरवर्णिनि
गण्डक्यपि पुरो दृष्ट्वा शङ्खचक्रगदाधरम् ।दण्डवत् प्रणता भूत्वा ततः स्तोत्रं प्रचक्रमे
अहो देव मया दृष्टो दुर्दर्शो योगिनामपि ।त्वया सर्व्वमिदं सृष्टं जगत् स्थावरजङ्गमम्
ततो हिमांशे सा देवी गण्डकी लोकतारिणी ।प्राञ्जलिः प्रणता भूत्वा मधुरं वाक्यमब्रवीत्
यदि देव प्रसन्नोऽसि देयो मे वाञ्छितो वरः ।मम गर्भगतो भूत्वा विष्णो मत्पुत्त्रतां व्रज
ततः प्रसन्नो भगवान् चिन्तयामास गोपते ।किं याचितं निम्नगया नित्यं मत्सङ्गलुब्धया
दास्यामि याचितं येन लोकानां भवमोक्षणम् ।इत्येवं कृपया देवो निश्चित्य मनसा स्वयम्
गण्डकीं कथयामास शृणु देवि वचो मम ।शालग्रामशिलारूपी तव गर्भगतः सदा
तिष्ठामि तव पुत्त्रत्वे भक्तानुग्रहकारणात् ।मत्सान्निध्यान्नदीनां त्वमतिश्रेष्ठा भविष्यसि
दर्शनात् स्पर्शनात् स्नानात् पानाच्चैवावगा-हनात् ।हरिष्यसि महापापं वाङ्मनःकायसम्भवम्
”इति वाराहे सोमेश्वरादिलिङ्गमहिमावमुक्ति-क्षेत्रत्रिवेण्यादिमहिमानामाध्यायः
वाचस्पत्यम्
Sanskrit
शालग्रामगिरि
पु०
पर्वतभेदे वराहपु० “कथयिष्यामि तेगुह्यं शालग्राममिति श्रुतम् तस्मिन् क्षेत्रे हरो देवोमत्स्वरूपेण संयुतः शालग्रामे गिरौ तस्मिन् शिला-रूपेण तिष्ठति अहं तत्रैव तिष्ठामि शिलारूपेण नि-त्यदा तस्मिन् शिलाः समग्रास्तु मत्स्वरूपा संशयः ।पूजनीयाः प्रयत्नेन किं पुनश्चक्रलाञ्छिताः लिङ्गरू-पेण तु हरस्तत्र देवालये गिरौ शिवनामाः शिला-स्तत्र चक्रनाभास्तथा शिलाः सोमेश्वराधिष्ठितस्तु शिव-रूपो गिरिः स्मृतः शालग्रामगिरिर्विष्णुरहं सोमेश्वरा-भिधः” वराहपु०