| YouTube Channel

शालग्रामः (zAlagrAmaH)

 
शब्दकल्पद्रुमः
Sanskrit
शालग्रामः,
पुं,
विष्णुमूर्त्तिविशेषः गण्ड-क्युद्भववज्रकीटकृतचक्रयुक्तशिला द्वारकोद्भव-तादृशशिला तस्य माहात्म्यलक्षणादियथा, --“प्रसङ्गात् कथयिष्यामि शालग्रामशिलार्च्चनम् ।निष्कामो मुक्तिमाप्नोति मूर्त्तिं ध्यायन् स्तुवन्जपन्
शङ्खचक्रगदापद्मं केशवाख्यो गदाधरः ।साब्जकौमोदकीचक्रशङ्खी नारायणो विभुः
शङ्खाब्जपदो माधवः श्रीगदाधरः ।गदाब्जशङ्खचक्री वा गोविन्दाख्यो गदाधरः
पद्मशङ्खादिगदिने विष्णुशङ्खाय वै नमः ।सशङ्खाब्जगदाचक्रमधुसूदनमूर्त्तये
नमो गदासिचक्राब्जयुक्तत्रैविक्रमाय ।साविकौमोदकीपद्मशङ्खवामनमूर्त्तये
शङ्खाब्जचक्रगदिने नमः श्रीधरमूर्त्तये ।हृषीकेश साविगदाशङ्खपद्मिन्नमोऽस्तु ते
साब्जशङ्खगदाचक्रपद्मनाभस्वरूपिणे ।दामोदर शङ्खगदाचक्रपद्मिन्नमोऽस्तु ते
साविशङ्खगदाब्जाय वासुदेव नमो नमः ।शङ्खाब्जचक्रगदिने दमः सङ्कर्षणाय
शङ्खचक्रगदाब्जाय धृतप्रद्युम्नमूर्त्तये ।नमोऽनिरुद्धाय गदाशङ्खाब्जवरधारिणे
साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये ।नमोऽधोक्षजरूपाय गदाशङ्खविधारिणे
नृसिंहमूर्त्तये पद्मगदाशङ्खविधारिणे ।पद्माविशङ्खगदिने नमोऽस्त्वच्युतमूर्त्तये
सशङ्खचक्राब्जगदं जनार्द्दनमिहो नमः ।उपेन्द्रं गदिनं साविपद्मशङ्ख नमोऽस्तु ते
सचक्राब्जगदाशङ्खयुक्ताय हरिमूर्त्तये ।सगदाब्जाविशङ्खाय नमः श्रीकृष्णमूर्त्तये
शालग्रामशिलाद्बारगतलग्नद्विचक्रधृक् ।शुक्लाभाख्यश्च सोऽव्याद्बः सदैव श्रीगदाधरः
लग्नद्विचक्रो चक्राभः पूर्व्वभागस्तु पुष्कलः ।सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः
दीर्घः शिरश्छिद्रो योऽनिरुद्धस्तु वर्त्तुलः ।नानाहारद्बिरेखश्च अथ नारायणोऽसितः
मध्ये गदाकृता रेखा नाभिपद्ममहोन्नतः ।पृथुचक्रो नृसिंहो वः कपिलोऽव्यात्त्रिबिन्दुकः
अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः ।वराहशक्तिलिङ्गोऽव्याद्विषमद्बयचक्रकः
नीलस्त्रिरेखः स्थूलोऽथ कूर्म्ममूर्त्तिः स्वबिन्दुमान् ।कृष्णः सवर्त्तुलावर्त्तः पाण्डरोन्नतपृष्ठकः
श्रीधरः पञ्चरेखोऽव्याद्वनमालागदाङ्कितः ।वामनो वर्त्तुलो नाम वामचक्रः सुरेश्वरः
नानावर्णोऽनेकमूर्त्तिर्नागभोगी त्वनन्तकः ।स्थूलो दामोदरो नीलो मध्ये चक्रः सुनीलकः
संकीर्णद्वारको वोऽव्यादथ ब्रह्मा सुमोहितः ।सदीर्घरेखा शुषिर एकचक्राम्बुजः पृथुः
प्रत्युच्छिद्रः स्थूलचक्रः कृष्णोऽबिन्दुश्च बिन्दुमत् ।हयग्रीवोऽङ्कुशाकारः पञ्चरेखः ममन्ततः
वैकुण्ठोऽमलवद्भाति एकचक्रात्मकोऽसितः ।मत्स्यो दीर्घाम्बुजाकारो द्बाररेखस्तु पाण्डरः
वामचक्रो दक्षरेखः श्यामो वोऽव्यात्त्रिविक्रमः ।शालग्रामे द्वारकायां स्थिताय गदिने नमः
एकेन लक्षितो वोऽव्याद्गदाधारी सुदर्शनः ।लक्ष्मीनारायणो द्वाभ्यां त्रिभिर्मूर्त्तिस्त्रिविक्रमः
चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः ।प्रद्युम्नः षड्भिरेवाव्यात् सङ्कर्षण इतः स्तुतः
पुरुषोत्तमोऽष्टभिः स्याच्च नवव्यूहो नवान्नितः ।दशावतारो दशभिरनिरुद्धोऽवतादथ ।द्वादशात्मा द्वादशभिरत ऊर्द्ध्वो ह्यनन्तकः
”इति पाद्मे पातालखण्डे १० अध्यायः
अपि ।ईश्वर उवाच ।“शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु ।नित्यन्तु श्रीहरेः पूजा केवलेन जलेन तु
गण्डक्यामेकदेशे तु शालग्रामस्थलं महत् ।पाषाणान्तर्भवं यत्तत् शालग्राममिति स्थितम्
शालग्रामशिलास्पर्शात् कोटिजन्माघनाशनम् ।किं पुनर्जननं तत्र हरेः सान्निध्यकारणम्
शालग्रामैकयजनात् शतलिङ्गफलं लभेत् ।बहुभिर्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत्
गोष्पदेन चिह्नेन तेन वै त्रायते नरः ।आदौ शिलां परीक्षेत स्निग्धां श्रेष्ठाञ्च मेच-काम्
अकृष्णा मध्यमा प्रोक्ता मिश्रा मिश्रफलप्रदा ।सर्व्वकामप्रदा सौम्या कराला भयदुःखदा
स्निग्धा श्रीकरी नित्यं रूक्षा दारिद्र्य-दायिका ।क्षुद्रा क्षुद्रफला प्रोक्ता स्थूला स्थूलफलप्रदा
सदा काष्ठे स्थितो वह्निर्मन्थने प्रकाशते ।यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते
प्रत्यहं द्बादश शिलाः शालग्रामस्य योऽर्च्चयेत् ।द्वारवत्याः शिलायुक्ताः वैकुण्ठे महीयते
शालग्रामशिलायान्तु गह्वरं लक्ष्यते नरः ।पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पान्तरं दिवि
शालग्रामशिला यत्र यत्र द्वारवतीशिला ।मृते विष्णुपुरं याति कृतार्थं योजनत्रयम्
जपपूजा होमश्च सर्व्वं कोटिगुणं भवेत् ।मनस्कामः सदाभीष्टं क्रोशमात्रं समन्ततः
कीकटेऽपि मृतो याति वैकुण्ठभवनं नरः ।शालग्रामशिलायां यो मूल्यमुत्पादयेन्नरः
विक्रेता चानुमन्ता यः परीक्षानुमोदकः ।सर्व्व ते नरकं यान्ति यावदाहूतसंप्लवम् ।अतस्तं वर्ज्जयेद्देवि ! हरिविक्रयणक्रयम् ।शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवः ।उभयोः सङ्गमो यत्र मुक्तिस्तत्र संशयः
द्वारकोद्भवः शुक्लश्च बहुचक्रेण चिह्नितः ।चक्रमासीत् शिवाकारचित्स्वरूपनिरञ्जनम्
नमोऽस्त्वोङ्काररूपाय सदानन्दस्वरूपिणे ।शालग्रामे महाभाग भक्तस्यानुग्रहं कुरु ।त्वया युतस्य धर्म्मस्य ऋणग्रस्तस्य मे प्रभो
”इति तत्रैव ११ अध्यायः
अपरञ्च ।ब्राह्मण उवाच ।“गण्डकीयं नदी राजन् ! सुरासुरनिषेविता ।पुण्योदकपरीवाहैर्हतपातकसञ्चया
दर्शनान्मानसं पापं स्पर्शनात् कर्म्मजं दहेत् ।वाचिकं स्वीयतोयस्य पानतः पापसञ्चयम्
पुरा दुष्टाः प्रजानाथः प्रजाः सर्व्वा विपाप्मनः ।स्वगण्डाद्बिप्रुषोऽनेकपापघ्नीं सृष्टवानिमाम्
एनां नदीं ये पुण्योदां स्पृशन्ति सुतरङ्गिणीम् ।ते गर्भभाजो नैव स्युरपि पापकृतो नराः
तस्यां भवा ये चाश्मानश्चक्रचिह्नैरलङ्कृताः ।ते साक्षाद्भगवन्तो हि स्वस्वरूपधराः पराः
शिलाः संपूजयेद्यस्तु नित्यं चक्रयुताः सदा ।न जातुचिज्जनन्या वै जठरं समुपाविशेत्
पूजयेद् यो नरो धीमान् शालग्रामशिलांवराम् ।तेनाचारवता भाव्यं दम्भमोहवियोगिना
परदारपरद्रव्यविमुखेन नरेण ।पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः
द्वारवत्या भवं चक्रं शिला वै गण्डकीभवा ।पुंसां क्षणाद्धरन्त्येव पापं जन्मशतार्ज्जितम्
अपि पापसहस्राणां कर्त्ता तावन्नरो भवेत् ।शालग्रामशिला आपः पीत्वा पूयेत तत्क्षणात्
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वेदपथे स्थितः ।शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात्
कदाचित् स्त्रिया कार्य्यं शालग्रामस्य पूजनम् ।भर्त्तृदीनाथ सुभगा सर्व्वलोकहितैषया
मोहात् स्पृशेत महिला जन्मशीलगुणान्विता ।हित्वा पुण्यसमूहन्तु सत्वरं नरकं व्रजेत्
स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि ।परैरधिकपापानि वदन्ति ब्राह्मणोत्तमाः
चन्दनं विषपङ्काभं कुङ्कुमं वज्रसन्निभम् ।नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम्
तस्मात् सर्व्वात्मना त्याज्यः स्त्रियाः स्पर्शःशिलोपरि ।कुर्व्वती याति नरकं यावदिन्द्राश्चतुर्दश
*
अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा ।शालग्रामशिलातोयं पीत्वा याति परां गतिम्
तुलसी चन्दनं चक्रं शङ्खो घण्टाथ चक्रकम् ।शिला ताम्रस्य पात्रन्तु विष्णोर्नाम पदामृतम्
पदामृतन्तु नवभिः पापराशिप्रदाहकम् ।वदन्ति मुनयः शान्ताः सर्व्वशास्त्रार्थकोविदाः
सर्व्वतीर्थपरिस्नानात् सर्व्वक्रतुसमर्च्चनात् ।पुण्यं भवति यद्राजन् बिन्दौ बिन्दौ तदद्भुतम्
शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः ।तत्र योजनमात्रन्तु तीर्थकोटिसमन्वितम्
*
शालग्रामाः समाः पूज्याः समेषु द्वितयं हि ।विशमा एव पूज्या वै विषमेषु त्रयं हि
द्वारवतीभवं चक्रं तथा वै गण्डकीभवम् ।उभयोः सङ्गमो यत्र तत्र गङ्गा समुद्रगा
रूक्षाः कुर्व्वन्ति पुरुषान् आयुःश्रीभिर्विवर्ज्जि-तान् ।तस्मात् स्निग्धा मनोहारिरूपेण ददति श्रियम्
आयुष्कामो नरो यस्तु धनकामोऽपि यः पुमान् ।पूजयन् सर्व्वमाप्नोति पापं लौकिकमैहिकम्
प्राणान्तकाले तु यस्य भवेद्भाग्यबलान्नृप ।वाचि नाम हरेः पुण्यं शिलाकृतिस्तदन्तिके
गच्छत्सु प्राणमार्गेषु यस्य विश्रम्भतोऽपि चेत् ।शालग्रामशिलामूर्त्तिस्तदा मुक्तिर्न संशयः
पुरा भगवता प्रोक्तमम्बरीषाय धीमते ।ब्राह्मणो न्यासिनो भक्ताः शालग्रामशिलामम
स्वरूपत्रितयं मह्यमेतद्धि क्षितिमण्डले ।पापिनां पापनिर्व्वारं कर्त्तुं धृतमुदञ्चताम्
निन्दन्ति पापिनो ये वा शालग्रामशिलां सकृत् ।कुम्भीपाके पचन्त्याशु यावदाहूतसंप्लवम्
पूजां समुद्यतं कर्त्तुं यो वारयति मूढधीः ।तस्य माता पिता बन्धुः सर्व्वे नरकगामिनः
यो वै कथयति श्रेष्ठं शालग्रामार्च्चनं कुरु ।स कृतार्थो नयत्याशु वैकुण्ठं स्वन्तु पूर्व्वजैः
”इति तत्रैव २० अध्यायः
*
अन्यच्च ।श्रीईश्वर उवाच ।“शालग्रामशिलायान्तु त्रैलोक्यं सचराचरम् ।सदा वसति तेनात्र विष्णुस्तिष्ठति सर्व्वदा
शालग्रामशिलापूजां प्रकुरुष्व षडानन ।गङ्गामिव महापुण्यां चतुर्व्वर्गफलप्रदाम्
हृष्टेन मनसा येन स्थापिता पूजिता तथा ।यज्ञकोटिसमं पुण्यं आशु तस्मै प्रयच्छति
छिन्नस्तेन महासेन गर्भवासः सुदारुणः ।पीतं येन सदा विष्णोः शालग्रामशिलाजलम्
कामासक्तोऽपि यो नित्यं भक्तिभावविवर्ज्जितः ।शालग्रामशिलां पश्येत् तस्य पापक्षयो भवेत्
शालग्रामशिला विप्र हत्याकोटिविनाशिनी ।स्मृता संकीर्त्तिता ध्याता पूजिता नमस्कृता
शालग्रामशिलां दृष्ट्वा यान्ति पापानि देहि-नाम् ।सिंहं दृष्ट्वा यथा यान्ति वने मृगगणा भयात्
नमस्कृत्वा तु यः कुर्य्यात् शालग्रामशिलार्च्चनम् ।भक्त्या वा यदि वाभक्त्या मुक्तिं समवाप्नुयात्
यः सेवां कुरुते नित्यं शालग्रामशिलाग्रतः ।वैवस्वताद्भयं तस्य स्यान्मरणजन्मनी
शालग्रामशिलाचक्रं पयोदधिघृतादिकैः ।यः स्नापयति नूनं कल्पकोटिं वसेद्दिवि
शालग्रामे नमस्कारो भावेनापि यैः कृतः ।मानवाः किं करिष्यन्ति मद्भक्त्या ते महीतले
मद्भक्तिरणदर्पिष्ठा मत्प्रभुं नमन्ति ये ।वैष्णवास्ते विज्ञेया मद्भक्ताः पापमोहिताः ।शालग्रामशिला यत्र तत्र पुत्त्र वसाम्यहम्
पूजितोऽहं तैर्मर्त्यैः स्थापितश्च तैर्नरैः ।न कृतं मर्त्यलोके यैः शालग्रामशिलार्च्चनम्
किमर्च्चितैर्लिङ्गशतैर्विष्णुभक्तिबहिष्कृतैः ।शालग्रामशिलाचक्रं नार्चितं यदि पुत्त्रक
जन्मकोटिसहस्रेण पूजिते मयि यत् फलम् ।तत् फलं समवाप्नोति शालग्रामशिलार्च्चनात्
अनर्ह्यं मम नैवेद्यं पत्रं पुष्पं फलं जलम् ।शालग्रामशिलादृष्टं सर्व्वं याति पवित्रताम्
नैवेद्यं मे भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ।भुक्त्वा केशवनैवेद्यं कोटिभक्तिफलं लभेत्
सकृदभ्यर्च्चितो विष्णुः शालग्रामशिलास्थितः ।ददाति विपुलां मुक्तिं सर्व्वसङ्गविवर्ज्जिताम्
मल्लिङ्गकोटिभिर्दृष्टैर्यत् फलं पूजितैः स्तुतैः ।तत्फलं समवाप्नोति शालग्रामैकपूजनात्
शालग्रामशिलाचक्रं यो विद्वान् पश्यति ध्रुवम् ।अर्च्चयेद्वैष्णवो नित्यं तस्य पुण्यं निबोध मे
कोटिलिङ्गसहस्रैर्यत् पूजितैर्जाह्नवीतटे ।काशीवासाद्युगान्यष्टौ दिनेनैकेन तद्भवेत्
तस्माद्भक्त्यैव मद्भक्तैः प्रीत्यर्थं मम पुत्त्रक ।कर्त्तव्यं सर्व्वदा मर्त्यैः शालग्रामशिलार्च्चनम्
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश
शालग्रामशिलाग्रे यैः सकृच्छ्राद्धं कृतं भवेत् ।वसन्ति पितरस्तेषां विष्णुलोके संशयः
ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् ।पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्
प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः ।चान्द्रायणैः किं हि तादृक् पीत्वा पादोदकंशुचिः
”इति पाद्मे उत्तरखण्डे १२७ अध्यायः
*
कलेर्दशसहस्रवर्षानन्तरं भारतं त्यक्त्रायास्यति यथा, --“शालग्रामो हरेर्मूत्तिर्जगन्नाथश्च भारतम् ।कलेर्दशसहस्रान्ते ययौ त्यक्त्रा हरेः पदम्
”इति ब्रष्णवैवर्त्ते प्रकृतिखण्डे अध्यायः
*
तस्योत्पत्तिलक्षणादि यथा, --“शालग्रामसमुत्पत्तिं शृण्वन्तु परमाद्भुताम् ।गण्डक्या प्राक् तपस्तप्तं भवन्तु मम देवताः
सर्व्वाः पुत्त्राः सुखं दातुं जनानामिति ते सुराः ।तस्यास्तु तपसा हृष्टा ब्रह्मविष्णुमहेश्वराः
वरं दातुं समुद्युक्ता वव्रे सा स्वस्य पुत्त्रताम् ।अशक्तास्तं वरं दातुं तदा शप्तास्तया क्रुधा
प्रतारणं मम सुराः कृतं यस्मात् पुनः पुनः ।कीटयोनिं प्रपद्येथाः क्रुद्धास्ते ह्यशपंश्च ताम्
अविचार्य्य वयं शप्तास्त्वया यत्तपसोद्धताः ।तेन कर्म्मविपाकेन जडा कृष्णा नदी भव
अन्योन्यशापं श्रुत्वेत्थं महान् कोलाहलोऽभवत् ।प्रकम्पिताः सुराः सा ब्रह्माणन्ते व्यजिज्ञपत्
ब्रह्मन् त्राहि महाशापादन्योन्यपतितात् क्रुधा ।इति देववचः श्रुत्वा ब्रह्मा शङ्करमब्रवीत्
शिवः प्रोवाच धातारमहं संहारकारकः ।त्वं सृष्टिकर्त्ता विष्णुस्तु पालको बुद्धिमत्तरः
प्रष्टव्यो यथासङ्ख्यमुभयोः सम्भवेदिति ।इति माहेश्वरं श्रुत्वा वचनं विष्णुरब्रवीत्
शृणु ब्रह्मन् महादेव शृणु देव गजानन ।मद्गणौ ब्राह्मणौ ग्राहमातङ्गौ शापतोऽत्र तु
भविष्यतस्तयोर्म्मोक्षं भविष्यामि कलेवरम् ।शीर्णं भविष्यति यदा तन्मेदोमज्जसम्भवाः
पाषाणान्तर्गता कीटा वज्राख्या प्रभविष्यथ ।अद्यैव गण्डकी पुण्या गङ्गातुल्या महानदी
गण्डक्यां गिरिराजस्य दक्षिणे दशयोजनम् ।विस्तीर्णं तन्मनुं क्षत्त्रं पुण्यक्षेत्रं महीतले ।चक्रतीर्थमिति ख्यातं त्रिषु लोकेषु विश्रुतम्
शालग्रामगता देवा देवोद्बारावतीगतः ।उभयोः सङ्गमो यत्र मुक्तिस्तत्र संशयः
सर्व्वदेवप्रीतिकरा भुक्तिमुक्तिप्रदायिनी ।भवन्त्वस्यान्तु पाषाणा ये तदन्तर्गता सुराः
प्रार्थितं स्वं विना सर्व्वे वज्रकीटा भवन्त्विति ।अनेनैव तु गण्डक्याः पुत्त्रत्वं भवतामपि
भविष्यति तदन्तश्च चिह्नं तद्दैवतोद्भवम् ।विज्ञाय येऽर्च्चयिष्यन्ति सा प्रीता तस्य देवता
यन्त्रस्य मूर्त्तेश्च वृक्षस्यापि पूजनात् ।सन्तोषो जायते तेषां गण्डक्यां मार्ज्जनाद्यथा
इति विष्णुवचः श्रुत्वा ब्रह्मा वचनमब्रवीत्
*
कीदृक् पूज्या शिला विष्णोः किञ्छिद्रा कस्यवल्लभा ।किं फलं चाधिकारी केन मार्गेण तद्वद
इति ब्रह्मवचः श्रुत्वा विष्णुर्व्वचनमब्रवीत् ।स्वीयवर्णा शिला पूज्या ब्राह्मणाद्यैः सुखाप्तये
स्निग्धा शिला मन्त्रसिद्धं रूक्षा सिद्धिं करोतिच ।मेचका कीर्त्तिता धौताङ्गारवत् सा यशोहरा
पाण्डू रूपार्थशमनी मलिना पापधीकरा ।पीता पुत्त्रफलं दद्यादारवर्णा सुतान् हरेत्
नीला संदिशते लक्ष्मीं धूमाभा हरते मतिम् ।रोगप्रदा रक्तवर्णा सिन्दूराभा महाकलिम्
दारिद्रकारिणी वक्रा समा सर्व्वार्थसाधिका ।स्थूला निहन्ति चैवायुः सूक्ष्मा स्वल्पमतिं हरेत् ।पूजाफलं लाञ्छितया निष्फलं लाञ्छनं विना ।कपिला चित्तवैकल्यं नेत्ररोगञ्च कर्व्वुरा
भग्ना भङ्गकरी ज्ञेया बहुचक्रापमानताम् ।लक्षणान्तरहीना देवचक्रा वियोगताम्
बृहन्मुखी कलत्रघ्नी बृहच्चक्रा सुतान् हरेत् ।संलग्नचक्रा त्वसुखं बद्धचक्रा महागदम्
भग्नचक्रा तु दारिद्रं सर्व्वनाशं त्वधोमुखी ।कुष्ठादिकं व्यालमुखी विषमा विविधापदम्
विकृतावर्त्तनाभिश्च विकारान् कुरुते बहून् ।वंशच्छेदो गृहस्थानां नारसिंह्यां प्रजायते
रेखार्त्ता दुःखदात्री यथा सूक्ष्मा तथासुखम् ।यथा स्निग्धास्तथा लक्ष्मीस्तद्विभेदादतः शृणु
लक्ष्मीहरिः विज्ञेयो यत्र पद्मं सचक्रकम् ।केवला वनमाला वा गृहस्थानामभीष्टदः
वासुदेवः विज्ञेयो यद्द्वारं चक्रयुग्मकम् ।निरन्तरं समं चापि श्वेतः पापनाशनः
सङ्कर्षणः विज्ञेयः प्राक् पश्चाच्चक्रयुग्मकम् ।संलग्नपूर्व्वभागस्थं महद्रत्नः सुशोभनः
प्रद्युम्नः सूक्ष्मचक्रः स्याच्छिद्रं दीर्घं विचित्रितम् ।सुस्थिरान्तर्व्वहिश्छिद्रं पीत इष्टप्रदायकः
अनिरुद्धस्तु नीलाभो वर्त्तुलश्चातिशोभनः ।रेखाद्बयन्तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम्
केशवः तु विज्ञेयस्त्वेकं वा द्बयमेव वा ।प्राग्वा पश्चाच्च चक्रं स्यात् चतुष्कोणः भाग्य-कृत्
नारायणः श्यामवर्णः नाभौ चक्रं तथोन्नतम् ।दीर्घरेखासमायुक्तं दक्षिणे शुषिरं पृथु
हरिरूपा शिला सा स्याद्यस्या ऊर्द्ध्वं मुखंभवेत् ।हरिवद्दृश्यते द्बारं भुक्तिमुक्तिप्रदा तु सा
परमेष्ठी विज्ञेयः पद्मचक्रान्वितस्तु यः ।विल्वाकृतिश्च शुक्राभः पृष्ठे शुषिरं महत्
विष्णुस्तु कृष्णवर्णः स्यात् स्थूलचक्रे सुशोभने ।द्बारोपरि तथा रेखा दृश्यते मध्यदेशतः
१०
नारसिंहस्तु कपिलः पृथुचक्रो बृहन्मुखः ।त्रयो वा पञ्च वा तत्र बिन्दवो गृहिणां नसत्
११
कपिलो नरसिंहस्तु गुडलाक्षानिभो भवेत् ।स्थूलचक्रद्बयं मध्ये द्वारे रेखा सुशोभना
१२
महानृसिंहो विज्ञेयः पूर्व्वोक्तैर्लक्षणैयुतः ।रेखाश्च केशराकारा मुखं दीर्घं भयानकम्
१३लक्ष्मीनृसिंहो विज्ञेयश्चतुश्चक्रः सबिन्दुकः ।पूर्व्वोक्तलक्षणैर्युक्तो वनमालाविराजितः
१४
वराहोऽसौ शक्तिलिङ्गे चक्रे विषमे तथा ।इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितो भवेत्
१५पृथ्वीवाराहनात्नी सा या वराहाकृतिः शिला ।आभुग्ना चैव रेखैका गतराज्यप्रदायिका
१६
मत्स्याख्या सा शिला ज्ञेया बिन्दुत्रयविभूषिता ।कांस्याद्भारा स्वणनिभा दीर्घा सा भुक्ति-मुक्तिदा
१७
कूर्म्माख्या तु शिला पृष्ठे वर्त्रुला चोन्नता भवेत् ।हरितं वर्णमाषन्तु कौस्तुभेन चिह्निता
शिलाकूर्म्मः विज्ञेयः कूर्म्माकारस्तु यो भवेत् ।चक्राङ्किता तथा वृत्ता पूजिता सा पदप्रदा
१८हयग्रीवोऽङ्कुशाकारा रेखा चक्रा समीपगा ।बहुबिन्दुसमायुक्तं पृष्टं नीरदनीलकम्
१९
ज्ञेयः सौम्यहयग्रीवो हयग्रीवासमा शिला ।दीर्घया लेखया युक्ता रेखा वा तादृशीभवेत्
२०
हयशीर्षः विज्ञेयो मुखं यस्य हयाकृति ।पद्माकृति भवेद्वापि साक्षमालं शिरस्तथा
२१वैकुण्ठस्तिलवर्णाभश्चक्रमेकं तथा ध्वजम् ।द्वारोपरि तथा रेखा पूज्याकारा सुशोभना
२२श्रीधरस्तु तथा देवश्चिह्नितो वनमालया ।कदम्बकुसुमाकारारेखापञ्चकभूषितः
२३
वामनः तु विज्ञेयो योऽतिह्रस्वश्च वर्त्तुलः ।अतसीकुसुमप्रख्यो बिन्दुना परिशोभितः
२४
दधिवामननामा तु ऊर्द्ध्वाधश्चक्रसंयुतः ।महाद्युतिरतिह्रस्वः सुभिक्षः क्षेमदायकः
२५
सुदर्शनस्तथा देवः श्यामवर्णो महाद्युतिः ।वामपार्श्वे तथा चक्रं रेखैकैव तु दक्षिणे
२६
सहस्रार्ज्जुननामासौ नानारेखामयी भवेत् ।चक्राकारा यन्त्रपङ्क्तिः नष्टद्रव्यदायकः
२७
स्थूलो दामोदरो यस्य मध्ये चक्रं प्रतिष्ठितम् ।दूर्व्वाभं द्वारसङ्कीर्णः पीतरेखा धनप्रदः
२८
राधादामोदरो ज्ञेय ऊर्द्ध्वाधश्चक्रवद्बिलम् ।नातिदीर्घमुखं मध्ये लम्बरेखा भोगदः
२९
दामोदरः विज्ञेयो यश्चक्रद्बयलाञ्छितः ।सूक्ष्मं भवेच्च विवरं पूजितः सुखदः सदा
३०
अनन्तो बहुवर्णः स्यान्नागभोगेन चिह्नितः ।अनेकचक्रसंभिन्नः सर्व्वकामफलप्रदः
३१
पुरुषोत्तमनामासौ यस्य दिक्षु विदिक्षु ।ऊर्द्ध्वान्यास्यानि दृश्यन्ते पुरुषार्थफलप्रदः
३२
योगेश्वरः विज्ञेयो लिङ्गं यस्य शिरोगतम् ।ब्रह्महत्यादिपापानां नाशको योगसिद्धिदः
३३पद्मनाभस्तथा रक्तः पङ्कजच्छत्रसंयुतः ।तुलस्या पूजितो नित्यं दरिद्रस्त्वीश्वरो भवेत्
३४रश्मिज्वालो हिरण्याक्षश्चन्द्राभः स्फटिको-पमः ।अथवा जायते नानास्वर्णरेखाभिरन्वितः
३५
गरुडः तु विज्ञेयो मध्ये पक्षद्बयान्विते ।सुदीर्घा दृश्यते रेखा सर्पविषनाशकः
३६
जनार्द्दनः विज्ञेयः केवलानि स्फुटानि ।यस्योदरे तु चक्राणि चत्वारि पितृतृप्तिकृत्
३७लक्ष्मीनारायणो ज्ञेयो वनमालाङ्कितोदरः ।सूक्ष्मद्वारश्चतुश्चक्रो भुक्तिमुक्तिप्रदायकः
३८
हृषीकेशः विज्ञेयो योऽर्द्धचन्द्राकृतिर्भवत् ।तमभ्यर्च्च्य लभेत् स्वर्गं विषयांश्च समीहितान्
२९
लक्ष्मीनरहरिर्ज्ञेयः कृष्णवर्णः सबिन्दुकः ।वामपार्श्वे समे चक्रे गृहस्थाभीष्टदायकः
४०
त्रिविक्रमस्तु विज्ञेयः श्यामवर्णो महाद्युतिः ।वामपार्श्वे चक्रयुग्गमेकरेखा तु दक्षिणे
४१
कृष्णो ज्ञेयः शिला कृष्णा सचक्रा वा विच-क्रिका ।प्रदक्षिणावर्त्तकृतवनमालाविभूषिता
४२
चतुर्म्मुखः विज्ञेयो द्वे चक्रे मध्यदेशतः ।चतस्रः पार्श्वगा रेखा वेदशास्त्रागमप्रदः
४३
विष्णोर्भेदा इमे प्रोक्ता अत्रैवावाहयेद्धरिम् ।विसर्ज्जयेच्च पूजान्ते प्रतिष्ठां नात्र कारयेत्
*
शालग्रामाः समाः पूज्या समेषु द्बितयं हि ।असमा नैव पूज्यन्ते एकः पूज्यतमो मतः
शिला द्वादश यो नित्यं भक्त्या संपूजयेन्नरः ।दिने दिने धर्म्मवृद्धिः पापनाशश्च जायते
शालग्रामशिलां यस्तु भक्त्या संपूजयेन्नरः ।शतं दिनानि यस्तेन कृतः कामः सिध्यति
*शालग्रामा मत्स्वरूपाः शृणु तेषान्तु लक्षणम् ।यत्सेवनाद्भवेदिष्टमिह लोके परत्र
शिवनाभः विज्ञेयः सलिङ्गाकारताङ्गतः ।स्वयम्भुलिङ्गाकृतिमान् मन्त्रसिद्धिविधायकः
त्र्यम्बकः तु विज्ञेयो यो बिन्दुत्रयभूषितः ।शूलाकारा तथा रेखा गतपुंस्त्वप्रदायकः
धूर्ज्जटिः तु विज्ञेयो यत्र रेखा जटासमा ।तिस्रो यत्र प्रदृश्यन्ते सोऽर्च्चितो ज्ञानदायकः
३शम्भस्तु पाण्डरो ज्ञेयो बिन्दुकृष्णस्तु मस्तके ।विल्वप्रमाणस्तेजस्वी पूजितः स्त्रीवशङ्करः
ईश्वरः तु विज्ञेयो रक्तो बिन्दुस्तु मस्तके ।एकचक्रो द्बिचक्रो वाभ्यन्तरेऽधश्च गोपदम्
मृत्युञ्जयः विज्ञेयः स्वल्पमृत्युविनाशकः ।अधश्चक्रं तदूर्द्ध्वञ्च श्वेता रेखा त्रिशूलवान्
चन्द्रशेखरनामासावर्द्धचन्द्राकृतिस्तु के ।मध्ये चक्रद्बयं तस्य सेवनाद्रोगनाशनम्
रुद्रः एव विज्ञेयः कपिलो मूर्द्ध्नि रक्षितः ।चक्रमध्ये भवेद्रेखा मारयेद्रिपुसन्ततिम्
*
शालग्रामानथो वक्ष्ये शक्तिकीटसमुद्भवान् ।येषां पूजनतो देवी भवानी सुप्रसीदति
श्रीविद्या सा तले चक्रमूर्द्ध्वेछत्रं प्रदृश्यते ।वाह्ये घण्टाङ्कितो मूर्द्धा स्निग्धा श्यामाखिले-ष्टदा
महाकाली तु सा ज्ञेया योनिचिह्नसमन्विता
२द्बिच्छिद्राद्या सर्व्वशिला त्रिकोणेनाङ्किता या ।यदायुधाकृतिश्चोर्द्ध्वं तां देवीं तत्र निर्द्दिशेत्
देवीशिला सचक्रा या दक्षमार्गेण तां यजेत् ।सार्च्चिता वाममार्गेण लोकद्वयसुखावहा
या चक्ररहिता देवी शिला तां वामतोऽर्च्च-येत् ।स्पर्शकार्य्येण विप्राणां नगभां क्षोभकृद्भवेत्
*
सौरीशिला दुर्ल्लभैव प्रायः कलियुगे सुराः ।स्फटिकाभा भवेत् सा तु घर्म्ममुक्ता विमुञ्चति
तुलस्योर्द्ध्व स्थिते वह्निं साभिषिक्ता प्रवर्षणम् ।कुरुते शपथे मिथ्या कृते स्यात्कुष्ठकारिका
*गणेशः तु विज्ञेयः स्वल्पशुण्डाङ्कितो भवेत् ।शुण्डाकारा शिला वापि गजाननसमापि वा
*यस्या मध्ये महच्चक्रं सूक्ष्मचक्रञ्च यद्दिशि ।सा शिला तस्य दिक्यस्य सेव्या तद्दिशिराज्यदा
*
अर्द्धचन्द्राकृतिर्यत्र दृश्यते शकलद्बयम् ।सा तु चन्द्रशिला त्र्यस्रयुक्ता भौमशिलामता
*
बाणाकारेण चिह्नेन ज्ञेया बुधशिला सुराः ।दीर्घेण चतुरस्रेण युक्ता गुरुशिला मता
*
पञ्चकोणा तु शुक्रस्य चापाकारा शनेर्म्मता ।सूर्पाकारा तु राहोः स्यात् केतोस्तु ध्वज-रूपिणी
*
प्राप्ते कलियुगे घोरे वामाचारविमिश्रिते ।भक्ष्याभक्ष्यविचारादिरहिते म्लेच्छसङ्कुले
कामक्रोधादिभिर्व्याप्ते जने स्त्रीभिर्विनिर्ज्जिते ।क्व शिष्यः क्व गुरुर्म्मन्त्रः क्व जपः क्व सिद्धयः
अयुताब्दे कलेर्याते त्यजेद्बिष्णुशिला महीम् ।तदर्द्धाज्जाह्नवीतोयं तदर्द्धाद्देवताशिला
जप एव कलौ श्रेयान् शालग्रामार्च्चनं यथा
”इति मेरुतन्त्रे पटलः
अपि ।तुलस्युवाच ।“हे नाथ ते दया नास्ति पाषाणसदृशस्य ।छलेन धर्म्मभङ्गेन मम स्वामी त्वया हतः
पाषाणहृदयस्त्वञ्च दयाहीनो यतः प्रभो ।तस्मात् पाषाणसदृशस्त्वं भवेह हरेऽधुना
श्रीभगवानुवाच ।अहञ्च शैलरूपी गण्डकीतीरसन्निधौ ।अधिष्ठानं करिष्यामि भारते तव शापतः
वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै ।तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम्
एकद्वारे चतुश्चक्रं वनमालाविभूषितम् ।नवीननीरदाकारं लक्ष्मीनारायणाभिधम्
एकद्बारे चतुश्चक्रं नवीननीरदोपमम् ।लक्ष्मीजनार्द्दनं ज्ञेयं रहितं वनमालया
द्बारद्बये चतुश्चक्रं गोष्पदेन समन्वितम् ।रघुनाथाभिधं ज्ञेयं वेष्टितं वनमालया
अतिक्षुद्रं द्बिचक्रन्तु नवीननीरदप्रभम् ।दधिवामनं विज्ञेयं गृहिणाञ्च सुखप्रदम्
अतिक्षुद्रं द्विचक्रञ्च वनमालाविभूषितम् ।श्रीधरं देवि विज्ञेयं श्रीपदं गृहिणां सदा
स्थूलञ्च वर्त्तुलाकारं रहितं वनमालया ।द्बिचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम्
मध्यमं वर्त्तुलाकारं द्बिचक्रं बाणविक्षतम् ।रणरामाभिधं ज्ञेयं शरतूणसमन्वितम्
चतुर्द्दशचक्रं स्थूलञ्च नवीनजलदप्रभम् ।अनन्ताख्यञ्च विज्ञेयं चतुर्व्वर्गफलप्रदम्
मध्यमं सप्तचक्रञ्च छत्रतूणसमन्वितम् ।राजराजेश्वरं ज्ञेयं राजसम्पत्करं नृणाम्
चक्राकारं द्विचक्रञ्च सश्रीकं जलदप्रभम् ।सगोष्पदं मध्यमञ्च विज्ञेयं मधुसूदनम्
सुदर्शनञ्चैकचक्रं गुप्तचक्रं गदाधरम् ।द्वि चक्रं हयवक्त्राभं हयग्रीवं प्रकीर्त्तितम्
अतीवविस्तृतास्यञ्च द्बिचक्रं विकटं सति ।नरसिंहाभिधं ज्ञेयं सद्यो वैराग्यदं नृणाम्
द्बिचक्रं विस्तृतास्यञ्च वनमालासमन्वितम् ।लक्ष्मीनृसिंहं विज्ञेयं गृहिणां सुखदं सदा
द्बारदेशे द्विचक्रञ्च सश्रीकञ्च समं स्फुटम् ।वासुदेवञ्च विज्ञेयं सर्व्वकामफलप्रदम्
प्रद्युम्नं सूक्ष्मचक्रञ्च नवीननीरदप्रभम् ।शुषिरे छिद्रबहुलं गृहिणाञ्च सुखप्रदम्
द्वे चक्रे चैकलग्ने तु पृष्ठे यत्र तु पुष्कलम् ।सङ्कर्षणन्तु विज्ञेयं सुखदं गृहिणां सदा
अनिरुद्धञ्च पीताभं वर्त्तुलञ्चातिशोभनम् ।सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः
*
शालग्रामशिला यत्र तत्र सन्निहितो हरिः ।तत्रैव लक्ष्मीर्व्वसति सर्व्वतीर्थसमन्विता
यानि कानि पापानि ब्रह्महत्यादिकानि ।तानि सर्व्वाणि नश्यन्ति शालग्रामशिलार्च्चनात्
छत्राकारे भवेद्राज्यं वर्त्तुले भवेत् श्रियः ।दुःखञ्च शकटाकारे शूलाग्रे मरणं ध्रुवम्
विकृतास्ये दारिद्रं पिङ्गले हानिरेव ।लग्नचक्रे भवेद्धानिर्विदीर्णे मरणं ध्रुवम्
व्रतं दानं प्रतिष्ठा श्राद्धञ्च देवपूजनम् ।शालग्रामशिलायाश्चैवाधिष्ठानात् प्रशस्तकम्
स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ।सर्व्वदाने यत् पुण्यं प्रादक्षिण्ये भुवस्तथा
सर्व्वयज्ञेषु तीर्थेषु व्रतेष्वनशनेषु ।पाठे चतुर्णां वेदानां तपसां करणे सति ।तत् पुण्यं लभते नूनं शालग्रामशिलार्च्चनात्
शालग्रामशिलातोयं नित्यं भुङ्क्तेच यो नरः ।सुरेप्मितं प्रसादञ्च जन्ममृत्युजराहरम्
तस्य स्पर्शञ्च वाञ्छन्ति तीर्थानि निखिलानि ।जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम्
तत्रैव हरिणा सार्द्धमसंख्यं प्राकृतं लयम् ।पश्यन्त्येव हि दास्येव नियुक्तो दास्यकर्म्मणि
यानि कानि पापानि ब्रह्महत्यादिकानि ।तं दृष्ट्वा भिया यान्ति वैनतेयमिवोरगाः
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ।पुंसां लक्षं तत्पितॄणां निस्तरेत्तस्य जन्मनि
शालग्रामशिलातोयं मृत्युकाले यो लभेत् ।सर्व्वपापविनिर्मुक्तो विष्णुलोकं गच्छति
निर्व्वाणमुक्तिं लभते कर्म्मभोगाद्विमुच्यते ।विष्णुपादप्रलीनश्च भविष्यति संशयः
शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु यः ।स याति कूर्म्मदंष्ट्रञ्च यावद्वै ब्रह्मणो वयः
शालग्रामशिलां धृत्वा स्वीकारं यो पालयेत् ।स प्रयात्यसिपत्रञ्च लक्षमन्वन्तरावधि
तुलसीपत्रविच्छेदं शालग्रामं करोति यः ।तस्य जन्मान्तरे कान्ते स्त्रीविश्लेषो भविष्यति
तुलसीपत्रविच्छेदं शङ्खं यो हि करोति ।भार्य्याहीनो भवेत् सोऽपि रोगी सप्तजन्मसु
शालग्रामञ्च तुलसीं शङ्खञ्चैकत्र एव ।यो रक्षति महाज्ञानी भवेत् श्रीहरिप्रियः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १९ अध्यायः
*
शूद्राणां तत्पूजनेऽनधिकारो यथा, --“विप्रक्षत्त्रियवैश्यानां शालग्रामशिलार्च्चने ।अधिकारो शूद्राणां हरेरर्च्चार्च्चने तथा
”इति तत्रैव जन्मखण्डे २१ अध्यायः
*
शालग्रामे सदा विष्णोः स्थितिस्तत्पूजने विशेषश्चयथा, --भूमिरुवाच ।“उक्ता याः प्रतिमाः सर्व्वाः सुवर्णादिविनि-र्म्मिताः ।तासु तिष्ठसि सर्व्वासु शालग्रामे सर्व्वदा
कति पूज्या गृहादौ अविशेषस्तु पूजने ।विशेषो वा भवेत्तन्मे रहस्यं वद माधव
वराह उवाच ।गृहे लिङ्गद्वयं नार्च्च्यं शालग्रामद्बयं तथा ।द्वे चक्रे द्वारकायास्तु नार्च्च्यं सूर्य्यद्वयं तथा
शालग्रामशिला भग्ना पूजनीया सचक्रका ।खण्डिता स्फुटिता वापि शालग्रामशिला शुभा
शिला द्बादश वै देवि शालग्रामसमुद्भवाः ।विधिवत् पूजिता येन तस्य पुण्यं वदामि ते
कोटिद्बादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः ।यत् स्यात् द्वादशकल्पैस्तु दिनेनैकेन तद्भवेत्
यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम् ।तत्फलं नव शक्तोऽहं वक्तुं वर्षशतैरपि
शालग्रामो स्प्रष्टव्यो हीनवर्णैर्व्वसुन्धरे ।स्त्रीशूद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः
मोहाद्यः संस्पृशेत् शूद्रो योषिद्वापि कदाचन ।स पतेन्नरके घोरे यावदाहूतसंप्लवम्
यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसुन्धरे ।दूरादेवास्पृशन् पूजां कारयेत् सुसमाहितः
चरणामृतपानेन सर्व्वपापक्षयो भवेत्
अभक्ष्यं शिवनिर्म्माल्यं पत्रं पुष्पं फलं जलम् ।शालग्रामशिलायोगात् पावनं तद्भवेत् सदा
दद्याद्भक्ताय यो देवि शालग्रामशिलां नरः ।सुवर्णसहितां तेन सपर्व्वतवनाकरा ।ससमुद्रा भवेद्दत्ता सत्पात्राय वसुन्धरा
शालग्रामशिलायास्तु मौल्यमुद्घाटयेत् क्वचित् ।विक्रेता क्रयकर्त्ता वा नरके वै पतेत् ध्रुवम्
पूजाफलं शक्येत वक्तुं वर्षशतैरपि ।एतत्ते कथितं गुह्यं प्रतिमास्थापनं प्रति
शालग्रामे विशेषश्च लिङ्गादीनाञ्च यो भवेत् ।पूजनादो विधिश्चापि किमन्यच्छ्रोतुमिच्छसि
”इत्यादि वाराहे रौप्यसौवर्णार्च्चास्थापननामा-ध्यायः
*
अथ शालग्रामशिलामूर्त्तिनिरू-पणम् ।“चतुर्व्विंशतिमूर्त्तिः शालग्रामशिलास्थितिः ।द्बारकादिशिलासंस्थो ध्येयः पूज्योऽपि वा हरिः
मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत् ।निष्कामो मुक्तिमाप्नोति मूर्त्तीर्ध्यायन् स्तुवन्जपन्
”इत्यादि गारुडे मूर्त्तामूर्त्तध्यानं ४४ अध्यायः
अपि ।“शङ्खचक्रगदापद्मी केशवाख्यो गदाधरः ।साब्जकीमोदकीचक्रशङ्खी नारायणो विभुः
सचक्रशङ्खाब्जगदो माधवः श्रीगदाधरः ।गदाब्जशङ्खचक्री वा गोविन्दोऽर्च्यो गदाधरः
पद्मशङ्खासिगदिने विष्णुरूपाय वै नमः ।शङ्खाञ्जचक्रगदिने नमः सङ्कर्षणाय
सुशङ्खसुगदाब्जाविधृते प्रद्युम्नमूर्त्तये ।नमोऽनिरुद्धाय गदाशङ्खाब्जाविविधारिणे
नमो गदासिशङ्खाब्जयुक्तत्रैविक्रमाय ।सासिकौमोदकीपद्मगदिने वामनमूर्त्तये
चक्राब्जशङ्खगदिने नमः श्रीधरमूर्त्तये ।हृषीकेश साविगदाशङ्खपद्मिन्नमो नमः
साब्जशङ्खगदाचक्रपद्मनाभस्वरूपिणे ।दामोदर शङ्खगदाचक्रपद्मिन्नमो नमः
साविशङ्खगदाब्जाय वासुदेवाय वै नमः ।शङ्खाब्जचक्रगदिणे नमः सङ्कर्षणाय
साब्जशङ्खगदाचक्रपुरुषोत्तममूर्त्तये ।नमोऽधोक्षजरूपाय गदाशङ्खासिपद्मिने
नृसिंहमूर्त्तये पद्मगदाशङ्खाब्जधारिणे ।पद्माब्जशङ्खगदिने नमोऽस्त्वच्युतमूर्त्तये
सशङ्खचक्राब्जगदं जनार्द्दनमिहानमे ।उपेन्द्रं सगदं साविं पद्मशङ्खिन्नमो नमः
सुचक्राब्जगदाशङ्खयुक्ताय हरिमूर्त्तये ।सगदाब्जाविशङ्खाय नमः श्रीकृष्णमूर्त्तये
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् ।शुक्लाभो वासुदेवाख्यः सोऽव्याद्वः श्रीगदाधरः
लग्नद्बिचक्रो रक्ताभः पूर्व्वभागे तु पुष्कलः ।सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः
सदीर्घशुषिरच्छिद्रो योऽनिरुद्धस्तु वर्त्तुलः ।नीलो द्बारि त्रिरेखश्च अथ नारायणोऽसितः
मध्ये गदाकृती रेखा नाभिचक्रमहोन्नतः ।पृथुचक्रो नृसिंहोऽथ कपिलोऽव्यात् त्रिबि-न्दुकः
अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः ।वराहः शक्तिलिङ्गोऽव्याद्बिषमद्बयचक्रकः
नीलस्त्रिरेखः स्थूलोऽथ कूर्म्ममूर्त्तिः बिन्दु-मान् ।कृष्णः सवर्त्तुलावर्त्तः पातु वोन्नतपृष्ठकः
श्रीधरः पञ्चरेखोऽव्याद्वनमाली गदान्वितः ।वामनो वर्त्तुलो ह्रस्वो वामचक्रः सुरेश्वरः
नानावर्णोऽनेकमूर्त्तिर्नागभोगी त्वनन्तकः ।स्थूलो दामोदरो नीलो मध्ये चक्रः सनीलकः
संकीर्णद्वारको वोऽव्यादथ ब्रह्मा सुलोहितः ।सदीर्घरेखः शुषिर एकचक्राम्बुजः पृथुः
पृथुच्छिद्रस्थूलचक्रः कृष्णो विष्णुश्च बिन्दुवत् ।हयग्रीवोऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः
वैकुण्ठो मणिरत्नाभ एकचक्राम्बुजोऽसितः ।मत्स्यो दीर्घोम्बुजाकारो द्बाररेखश्च पातु वः
वामचक्रो दक्षरेखः श्यामो वोऽव्यात्त्रिविक्रमः ।शालग्रामे द्बारकायां स्थिताय गदिने नमः
एकेन लक्षितो योऽव्याद्गदाधारी सुदर्शनः ।एकद्बारे चतुश्चक्रं वनमालाविभूषितम्
स्वर्णरेखासमायुक्तं गाष्पदेन विराजितम् ।कदम्बकुसुमाकारं लक्ष्मीनारायणं विदुः
लक्ष्मीनारायणो द्बाभ्यां त्रिभिर्मूर्त्तिस्त्रिविक्रमः ।चतुर्भुजश्चतुर्व्व्यहो वासुदेवश्च पञ्चभिः
प्रद्युम्नः षड्भिरेव स्यात् सङ्कर्षण इतस्ततः ।पुरुषोत्तमोऽष्टभिः स्यान्नवव्यूहो नवोन्नतः
दशावतारो दशभिरनिरुद्धोऽवतादथ ।द्बादशात्मा द्बादशभिरत ऊर्द्ध्वमनन्तकः
विष्णोर्मूर्त्तिमयं स्तोत्रं यः पठेत् दिवंव्रजेत्
”इति गारुडे ४५ अध्यायः
*
अपरञ्च ।हरिरुवाच ।“निर्लक्षणा शुभा स्याच्च चक्राङ्कितशिला-र्च्चनात् ।आदौ सुदर्शनो मूर्त्तिर्लक्ष्मीनारायणोऽपरः
त्रिचक्रोऽसावच्युतः स्यात् चतुश्चक्रश्चतुर्भुजः ।वासुदेवश्च प्रद्युम्नस्ततः सङ्कर्षणः स्मृतः
पुरुषोत्तमो ह्यष्टमः स्यान्नवव्यूहो दशात्मकः ।एकादशोऽनिरुद्धः स्याद्द्वादशो द्बादशात्मकः
अत ऊर्द्ध्वमनन्तः स्याच्चक्रैरेकादिकैः क्रमः ।सुदर्शनाद्या लक्षिताश्च पूजिताः सर्व्वकामदाः
शालग्रामशिला यत्र देवो द्बारवतीभवः ।उभयोः सङ्गमो यत्र तत्र मुक्तिर्न संशयः
”इति गारुडे ६५ अध्यायः
*
क्षेत्रविशेषः यथा, --धरण्युवाच ।“भगवन् देवदेवेश शालङ्कायनको मुनिः ।किं चकार तपः कुर्व्वन् तव क्षेत्रे विमुक्तिदे
वाराह उवाच ।अथ दीर्घेण कालेन ऋषिः संसितव्रतः ।तप्यमानो यथान्यायं पश्यते शालमुत्तमम्
विश्रामं कुरुते तत्र द्रष्टुकामोऽथ मां मुनिः ।मायया मम मूढात्मा शक्तो द्रष्टुं मामभूत्
ततः पूर्व्वेण पार्श्वेन तस्य शालस्य सुन्दरि ।वैशाखमासद्बादश्यां मद्दर्शनमुपागतः
दृष्ट्वा मां तत्र मुनिस्तपस्वी शंसितव्रतः ।तुष्टाव वैदिकैः सूक्तैः प्रणम्य पुनः पुनः
ततोऽहं स्तूयमानो षै ऋषिमुख्येन सुन्दरि ।प्राप्तोऽस्मि परमां प्रीतिं तमवोचं ततः ऋषिम्
तत्राश्रमे महाभाग स्थित्वा त्वं तपसांनिधे ।पुत्त्रेण परमप्रीतो मत्क्षेत्रे मत्समो भव
अन्यच्च गुह्यं वक्ष्यामि शालङ्कायन तच्छृणु ।तव प्रीत्या प्रवक्ष्यामि येनैतत् क्षेत्रमुत्तमम्
शालग्राममिति ख्यातं तन्निबोध मुने शुभम् ।योऽयं वृक्षस्त्वया दृष्टः सोऽहमेव संशयः
एतत् कोऽपि जानाति विना देवं महेश्वरम् ।एवं तस्मै वरं दत्त्वा शालङ्कायनकाय वै
पश्यतस्तस्य वसुधे तत्रैवान्तर्हितोऽभवत् ।वृक्षं दक्षिणतः कृत्वा जगाम स्वाश्रमं मुनिः
मम तद्रोचते स्थानं गिरिकूटशिलोच्चये ।शालग्राम इति ख्यातं भक्तसंसारमोक्षणम्
”इति वाराहे शालग्रामक्षेत्रमाहात्म्यवर्णन-नामाध्यायः