| YouTube Channel

शार्द्दूलविक्रीडितं (zArddUlavikrIDitaM)

 
शब्दकल्पद्रुमः
Sanskrit
शार्द्दूलविक्रीडितं,
क्ली,
अतिधृतिवृत्तौ ऊन-विंशतिपादच्छन्दोविशेषः यथा, --“सूर्य्याश्वैर्म-स-ज-स्त-ताः सगुरवः शार्द्दूलविक्री-डितम् ।गोविन्दं प्रणमोत्तमाङ्ग रसने त्वं घोषयाहर्निशंपाणी पूजयतं मनः स्मर पदे तस्यालयं गच्छ-तम् ।एवञ्चेत् कुरुताखिलं मम हितं शर्षादय-स्तद्ध्रुवंन प्रेक्ष्ये भवतां कृते भवमहाशार्द्दूलविक्री-डितम् ।”इति छन्दोमञ्जरी स्तवकः