| YouTube Channel

शार्द्दूलः (zArddUlaH)

 
शब्दकल्पद्रुमः
Sanskrit
शार्द्दूलः,
पुं,
(शॄ हिंसायाम् + “खर्ज्जिपिञ्जादिभ्यऊरोलचौ ।” उणा० ९० इति ऊलच्प्रत्ययेन साधुः ।) व्याघ्रः उत्तरपदे श्रेष्ठार्थ-वाचकः इत्यमरः
राक्षसः पशुभेदः सतु सरभः इति मेदिनी
पक्षिविशेषः इतिधरणिः
चित्रकः इति राजनिर्घण्टः