| YouTube Channel

शारीरकं (zArIrakaM)

 
शब्दकल्पद्रुमः
Sanskrit
शारीरकं,
क्ली,
(शरीरमेव शारीरं कुत्सितत्वात्तन्निवासी शारीरको जीवस्तमधिकृत्य कृतोग्रन्थः शारीरक + अण् ।) वेदव्यासकृतवेदान्त-मीमांसासूत्रम् यथा तथा वयमस्यांशारीरकमीमांसायां प्रदर्शयिष्यामः वेदान्त-मीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमंसूत्रम् अथातो ब्रह्मजिज्ञासेति इति शङ्कर-भाष्यम्
(शरीरमेव शरीरकं तत्र भवम् ।शरीरक + अण् शरीरभवे, त्रि यथा, भागवते ३१ १९ ।“पश्यत्ययं धियणया ननु सप्तवध्रिःशारीरके दमशरीर्य्यपरः स्वदेहे
”)