शारीर: (zArIra:)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishशारीर (-रः-री-रं)
1. Corporeal, bodily, belonging to or produced
from the body.
2. Spiritual in connection with the body, incorpo-
rate.
3. A bull.
(-रं)
1. The soul or spirit whilst incorporate.
2.
A drug.
3. Excrement, excretion.
(-रः) Personal chastisement,
corporeal punishment.
शरीर the body, and अण्
Yates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishशारीर [śārīra], (-री ) [शरीरस्येदम् अण्]
Relating to the body, bodily, corporeal.
Incorporate, embodied.
रः, रम् The incorporate or embodied spirit (जीवात्मन्)
human or individual soul.
A bull.
A kind of drug.
Excrement
विनाद्भिरप्सु वाप्यार्तः शारीरं संनिवेश्य च 11.22. -रम् Bodily constitution.
(In medic.) the science of the body and its parts
anatomy.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishशारीर शारीर, अस्, ई, अम् (fr. शरीर), cor-
poreal, bodily, relating to the body (of animals)
belonging to or produced from the body
connected
with the body, incorporate
(अम्), n. the incor-
porate soul or spirit
a particular drug (= वृष,
which may mean ‘a bull, ’ ‘a kind of drug, ’ &c.)
ex-
crement, excretion
(अस्), m. corporal punishment (?).
—शारीर-व्रण, अस्, m. a bodily ulcer or tumour.
Macdonell
EnglishBenfey
EnglishApte Hindi
Hindiशारीर
वि* - शरीर + अण्
"शरीर से संबद्ध शारीरिक, दैहिक"
शारीर
वि* - शरीर + अण्
"शरीरधारी, मूर्तिमान्"
शारीर:
- -
"शरीरधारी, जीवात्मा, मानवात्मा, वैयक्तिक आत्मा"
शारीर:
- -
साँड़
शारीर:
- -
एक प्रकार की औषधि
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritशारीरं, वृषः । (शरीरे भवः । शरीर +अण् ।) शरीरजाते, त्रि । इति मेदिनी ॥
* ॥
शारीरदण्डो यथा, --“दिग्दण्डं प्रथमं कुर्य्यात् वाग्दण्डं तदनन्तरम् ।तृतीयं धनदण्डञ्च वधदण्डमतः परमिति ॥
”वधदण्डोऽपि शारीरो ब्राह्मण्यव्यतिरिक्तानाम् ।इति मिताक्षरायां व्यवहारकाण्डम् ॥
* ॥
शारीरदुःखं यथा, --“आध्यात्मिको वै द्विविधः शारीरो मानम्ब-स्तथा ।शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः ॥
शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।गुल्मार्शश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥
तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः ।भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥
कामक्रोधभयद्बेषलोभमोहविषादजः ।शोकासूयापमानेर्ष्यामात्सर्य्यादिभयस्तथा ॥
मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा ।इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥
दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ।सुकुमारतनुर्गर्भे जन्तुर्ब्बहुमलावृते ॥
उल्वसंवेष्टितो भुग्नपृष्ठग्रीवातिसंहतिः ।अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः ॥
अतितापिभिरत्यर्थं वर्द्धमानातिवेदनः ।प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुरात्मनः ॥
शकृन्मूत्रमहापङ्कशायी सर्व्वत्र पीडितः ।निरुच्छ्वासः सचैतन्यः स्मरन् जन्मशतान्यथ ॥
आस्ते गर्भेऽतिदुःखेन निजकर्म्मनिबन्धनः ।जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ॥
प्रजापत्येन वातेन पीड्यमानास्थिबन्धनः ।अधोमुखो वै ह्रियते प्रवलैः सूतिमारुतैः ॥
क्लेशैर्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ।मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ॥
विज्ञानं भ्रंशमाप्नोति जातश्च मुनिसत्तम ।कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ॥
पूतिव्रणान्निपतितो धरण्यां क्रमिको यथा ।कण्डूयनेऽपि वाशक्तः परिवर्त्तेऽप्यनीश्वरः ॥
स्नानपानादिकाहारमप्याप्नोति परेच्छया ।अशुचिः स्रस्तरे सुप्तः कीटदंशादिभिस्तथा ॥
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ।जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च ॥
बालभावे यदाप्नोति आधिभौतादिकानि च ।अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः ॥
न जानाति कुतः कोऽहं क्व वा गन्ता किमा-त्मकः ॥
”इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥
* ॥
अथातः शरीरसंख्याव्याकरणं शारीरं व्याख्या-स्यामः । शुक्रशोणितं गर्भाशयस्थमात्मप्रकृति-विकारसंमूर्च्छितं गर्भ इत्युच्यते । तच्च चेतना-वस्थितं वायुर्व्विभजति । तेज एनं पचति ।आपः क्लेदयन्ति । पृथिवी संहन्ति । आकाशंविवर्द्धयति । एवं विवर्द्धितः स यदा हस्तपाद-जिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा श-रीरमिति संज्ञां लभते । तच्च षडङ्गं शाखा-चतस्नो मध्यं पञ्चमं षष्ठं शिर इति ॥
* ॥
अतःपरं प्रत्यङ्गानि कथ्यन्ते । मस्तकोदरपृष्ठनाभि-ललाटनासाचिवुकवस्तिग्रीवा इत्येता एकैकाः ।कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषणपार्श्व-स्फिक्जानुबाहूरुप्रभृतयो द्वे द्वे । विंशतिरङ्गु-लयः । स्रोतांसि च वक्ष्यमाणानि । एष प्रत्यङ्ग-विभाग उक्तः ॥
* ॥
तस्य पुनः संख्यानम् । त्वचःकला धातवो मला दोषा यकृत्प्लीहानौ फुप्-फुस उण्डुको हृदयमाशया अन्त्राणि वृक्कौस्रोतांसि कण्डरा जालानि कूर्च्चा रज्जवः सेवन्यःसंघाताः सीमन्ता अस्थीनि सन्धयः स्नायवःपेश्यो मर्म्माणि सिरा धमन्यो योगवहानिस्रोतांसि च ॥
* ॥
त्वचः सप्त । कलाः सप्त ।आशयाः सप्त । धातवः सप्त । सप्त शिरा-शतानि । पञ्च पेशीशतानि । नव स्नायुशतानि ।त्रीण्यस्थिशतानि । द्वे दशोत्तरे सन्धिशते । सप्तो-त्तरं मर्म्मशतम् । चतुर्विंशतिर्धमन्यः । त्रयोदोषास्त्रयो मलाः । नव स्रोतांसि इतिसमासः ॥
* ॥
विस्तारोऽत ऊर्द्ध्वम् । त्वचोऽभि-हिताः कला धातवो मला दोषा यकृत्प्लीहानौफुप्फुस उण्डुको हृदयं वृक्कौ च ॥
* ॥
आश-यास्तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ता-शय आमाशयः पक्वाशयो मूत्राशयः स्त्रीणांगर्भाशयोऽष्टम इति ॥
* ॥
सार्द्धत्रिव्यामान्यन्त्राणिपुंसां स्त्रीणामर्द्धव्यामहीनानि । श्रवणनयन-वदनघ्राणगुदमेढ्राणि नव स्रोतांसि नराणांबहिर्मुखान्येतान्येव स्त्रीणामपराणि च त्रीणिद्वेस्तनयोरधस्ताद्रक्तवहञ्च ॥
* ॥
षोडश कण्डराः ।तासाञ्चतस्रः पादयोस्तावत्यो हस्तग्रीवापृष्ठेषु ।तत्र हस्तपादगतानां कण्डराणां नखाः प्ररोहाः ।ग्रीवाहृदयनिबन्धिनीनां अधोभागगतानां मेढ्रंश्रोणिपृष्ठनिबन्धिनीनां अधोभागगतानां विम्बः ।मूर्द्धोरुवक्षोऽक्षपिण्डादीनाञ्च मांससिरास्नाय्व-स्थिजालानि प्रत्येकं चत्वारि चत्वारि । तानिमणिबन्धगुल्फसंश्रितानि परस्परनिबद्धानिपरस्परसंश्लिष्टानि परस्परगवाक्षितानि चेति ।यैर्गवाक्षितमिदं शरीरम् ॥
* ॥
षट् कूर्च्चास्तेहस्तपादग्रीवामेढ्रेषु । हस्तयोर्द्वौ पादयोर्द्बौग्रीवामेढ्रयोरेकैकः । महत्यो मांसरज्जवश्चतस्रःपृष्ठवंशमुभयतः पेशीनिबन्धनार्थं द्वे बाह्येआभ्यन्तरे च द्वे ॥
* ॥
सप्त सेवन्यः । शिरसिविभक्ताः पञ्च जिह्वासेफसोरेकैका ताः परि-हर्त्तव्याः शस्त्रेण ॥
* ॥
चतुर्द्दशास्थ्नां संघाताः ।तेषां त्रयो गुल्फजानुवङ्क्षणेषु । एतेनेतरसक्थि-बाहू च व्याख्यातौ । त्रिकशिरसोरेकैकः ॥
* ॥
चतुर्द्दशैव सीमन्ताः । ते चास्थिसंघातवद्गण-नीया यतस्तैर्युक्ता अस्थिसंघाताः । ये ह्युक्ताःसंघातास्तु खल्वष्टादशैकेषाम् ॥
* ॥
त्रीणि सषष्ठान्यस्थिशतानि वेदवादिनो भाषन्ते । शल्य-तन्त्रे तु त्रीण्येव शतानि । तेषां सविंशमस्थि-शतं शाखासु । सप्तदशोत्तरं शतं श्रोणिपार्श्व-पृष्ठोदरोरःसु । ग्रीवां प्रत्यूर्द्ध्वं त्रिषष्टिः । एव-मस्थ्नां त्रीणि शतानि पूर्य्यन्ते । एकैकस्यान्तुपादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश । तल-कूर्च्चगुल्फसंश्रितानि दश । पार्ष्ण्यामेकम् ।जङ्घायां द्बे । जानुन्येकम् । एकमूराविति ।त्रिंशदेवमेकस्मिन् सक्थ्नि भवन्ति । एतेनेतर-सक्थिबाहू च व्याख्यातौ । श्रोण्यां पञ्च तेषांगुदभगनितम्बेषु चत्वारि । त्रिकसंश्रितमेकम् ।पार्श्वे षट्त्रिंशदेवमेकस्मिन् द्वितीयेऽप्येवम् ।पृष्ठे त्रिंशत् । अष्टावुरसि । द्वे अक्षकसंज्ञे ।ग्रीवायां नवकम् । कण्ठनाड्यां चत्वारि । द्बेहन्वोः । दन्ता द्बात्रिंशत् । नासायां त्रीणि ।एकं तालुनि । गण्डकर्णशङ्खेष्वेकैकम् । षट्-शिरसि । एतानि पञ्चविधानि भवन्ति । तद्-यथा । कपालरुचकतरुणबलयनलकसंज्ञानि ।तेषां जानुनितम्बांसगण्डतालुशङ्खशिरःसु कपा-लानि । दशनास्तु रुचकानि । घ्राणकर्ण-ग्रीवाक्षिकोषेषु तरुणानि । पाणिपादपार्श्व-पृष्ठोदरोरःसु बलयानि । शेषाणि नलक-संज्ञानि ॥
* ॥
भवन्ति चात्र ।“अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः ।अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम् ॥
तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम् ।अस्थीनि न विनश्यन्ति साराण्येतानि देहि-नाम् ॥
मांसान्यत्र निबद्धानि शिराभिः स्नायुभिस्तथा ।अस्थीन्यालम्बनं कृत्वा न शीर्य्यन्ते पतन्ति वा ॥
”सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च ।“शाखासु हन्वोः कट्याञ्च चेष्टावन्तस्तु सन्धयः ।शेषास्तु सन्धयः सर्व्वे विज्ञेया हि स्थिरा बुधैः ॥
”संख्यातस्तु दशोत्तरे द्वे शते । तेषां शाखा-स्वष्टषष्टिरेकोनषष्टिः कोष्ठे । ग्रीवां प्रत्यूर्द्ध्वंत्र्यशीतिः । एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयोद्वावङ्गुष्ठे ते चतुर्द्दश । जानुगुल्फवङ्क्षणेष्वेकैकः ।एवं सप्तदशैकस्मिन् सक्थ्नि भवन्ति । एते-नेतरसक्थिबाहू च व्याख्यातौ । त्रयः कटी-कपालेषु । चतुर्व्विंशतिः पृष्ठवंशे । तावन्त एवपार्श्वयोः । उरस्यष्टौ । तावन्त एव ग्रीवायाम् ।त्रयः कण्ठे । नाडीषु हृदयक्लोमनिबद्धास्वष्टा-दश । दन्तपरिमाणा दन्तमूलेषु । एकः काक-लके नासायाञ्च । द्वौ वर्त्ममण्डलजौ नेत्राश्रयौ ।गण्डकर्णशङ्खेष्वेकैकः । द्वौ हनुसन्धी । द्बावु-परिष्टाद्भ्रुवोः शङ्खयोश्च । पञ्च शिरःकपा-लेषु । एको मूर्द्ध्नि ॥
* ॥
त एते सन्धयो-ऽष्टविधाः । कोरोदूखलसामुद्गप्रतरतुन्नसेवनी-वायसतुण्डमण्डलशङ्खावर्त्ताः । तेषामङ्गुलिमणि-बन्धगुल्फजानुकूर्परेषु कोराः सन्धयः । कक्षा-वङ्क्षणदशनेषूदूखलाः । अंसपीठगुदभगनितम्बेषुसामुद्गाः । ग्रीवापृष्ठवंशयोः प्रतराः । शिरः-कटीकपालेषु तुन्नसेवनी । हन्वोरुभयतस्तुवायसतुण्डाः । कण्ठहृदयनेत्रक्लोमनाडीषुमण्डलाः । श्रोत्रशृङ्गाटकेषु शङ्खावर्त्ताः ।“तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ।अस्थ्नान्तु सन्धयो ह्येते केवलाः परिकीर्त्तिताः ।पेशास्नायुशिराणान्तु सन्धिसंख्या न विद्यते ॥
”नवस्नायुशतानि । तासां शाखासु षट् शतानि ।द्बे शते त्रिंशच्च कोष्ठे । ग्रीवां प्रत्यूर्द्ध्वं सप्ततिः ।एकैकस्यान्तु पादाङ्गुल्यां षट् निचितास्ता-स्त्रिंशत् । तावत्य एव तलकूर्च्चगुल्फेषु । तावत्यएव जंघायाम् । दशा जानुनि । चत्वारिंश-दूरौ । दश वङ्क्षणे । शतमध्यर्द्धमेवमेकस्मिन्सक्थ्नि भवन्ति । एतेनेतरसक्थिबाहू चव्याख्यातौ । षष्टिः कट्याम् । अशीतिःपृष्ठे ।पार्श्वयोः षष्टिः । उरसि त्रिंशत् । षट्त्रिंशत्ग्रीवायाम् । मूर्द्ध्नि चतुस्त्रिंशत् । एवं नव-स्नायुशतानि व्याख्यातानि ॥
* ॥
भवन्ति चात्र ।“स्नायुश्चतुर्विधा विद्यात्तास्तु सर्व्वा निबोध मे ।प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा ॥
प्रतानवत्यः शाखासु सर्व्वसन्धिषु चाप्यथ ।वृत्तास्तु कण्डराः सर्व्वा विज्ञेयाः कुशलैरिह ॥
आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु ।पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ॥
नौर्यथा फलकास्तीर्णा बन्धनैर्ब्बहुभिर्युता ।भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता ॥
एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः ।स्नायुभिर्ब्बहुभिर्बद्धास्तेन भारसहा नराः ॥
न ह्यस्थीनि न वा पेश्यो न शिरा न च सन्धयः ।व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् ॥
यः स्नायूः प्रविजानाति वाह्याश्चाभ्यन्तरा-स्तथा ।स गूढं शल्यमाहर्त्तुं देहाच्छक्नोति देहि-नाम् ॥
” * ॥
पञ्च पेशीशतानि भवन्ति । तासां चत्वारिशतानि शाखासु । कोष्ठे षट्षष्टिः । ग्रीवांप्रत्यूर्द्ध्वञ्चतुस्त्रिंशत् । एकैकस्यान्तु पादाङ्गुल्यांतिस्रस्तिस्रस्ताः पञ्चदश । दश प्रपदे । पादो-परि कूर्च्चसन्निविष्टास्तावत्य एव । दश गुल्फ-तलयोः । गुल्फजान्वन्तरे विंशतिः । पञ्चजानुनि । विंशतिरूरौ । दश वङ्क्षणे । शतमेव-मेकस्मिन् सक्थ्नि भवन्ति । एते नेतरसक्थि-बाहू च व्याख्यातौ । तिस्रः पायौ । एकामेढ्रे । सेवन्यां चापरा । द्बे वृषणयोः । स्फिचोःपञ्च पञ्च । द्बे वस्तिशिरसि । पञ्चोदरे ।नाभ्यामेका । पृष्ठोर्द्ध्वसंनिविष्टाः पञ्च पञ्चदीर्घाः । षट् पार्श्वयोः । दश वक्षसि । अक्ष-कांसौ प्रति समन्तात् सप्त । द्वे हृदयामाश-ययोः । षट् यकृत्प्लीहोण्डुकेषु । ग्रीवाया-ञ्चतस्रः । अष्टौ हन्वोः । एकैका काकलकगलयोः ।द्वे तालुनि । एका जिह्वायाम् । ओष्ठयोर्द्वे ।घोणायां द्बे । द्वे नेत्रयोः । गण्डयोश्चतस्रः ।कर्णयोर्द्वे । चतस्रो ललाटे । एका शिरसी-त्येवमेतानि पञ्च पेशीशतानि ॥
* ॥
“सिरास्राय्वस्थिपर्व्वाणि सन्धयश्च शरीरिणाम् ।पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्वतः ॥
”स्त्रीणान्तु विंशतिरधिका । दश तासां स्तनयो-रेकैकस्मिन् । पञ्च पञ्च यौवने तासां परिवृद्धिः ।अपत्यपथे चतस्रस्तासां प्रसृतेऽभ्यन्तरतो द्वेमुखाश्रिते वाह्ये च प्रवृत्ते द्वे । गर्भच्छिद्र-संश्रितास्तिस्रः । शुक्रार्त्तवप्रवेशिन्यस्तिस्र एव ।पित्तपक्वाशयमध्ये गर्भाशयो यत्र गर्भस्तिष्ठति ।तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिर-मृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिसिरास्नायु-प्रच्छादका यथादेशं स्वभावतः एव भवन्ति ॥
* ॥
भवति चात्र ।“पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षण-मुष्कजाः ।स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ॥
”मर्म्मसिरा धमनीस्रोतसामन्यत्र प्रविभागः ॥
* ॥
“शङ्खनाभ्याकृतिर्योनिः स्त्र्यावर्त्ता सा प्रकीर्त्तिता ।तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता ॥
यथा रोहितमत्स्यस्य मुखं भवति रूपतः ।तत्संस्थानां तथारूपां गर्भशय्यां विदुर्ब्बुधाः ॥
आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः ।स योनिं शिरसा याति स्वभावात् प्रसवं प्रति ॥
त्वक्पर्य्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः ।शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् ॥
तस्मान्निःसंशयं ज्ञानं हर्त्ता शल्यस्य वाञ्छता ।शोधयित्वा मृतं सम्यक् द्रष्टव्योऽङ्गविनिश्चयः ॥
प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टञ्च यद्भवेत् ।समासतस्तदुभयं भूयो ज्ञानविवर्द्धनम् ॥
तस्मात् समस्तगात्रमविषोपहतं अदीर्घव्याधि-पीडितमवर्षशतिकं निःसृष्टान्त्रपुरीषं पुरुष-मवहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्ज-वल्कलकुशशणादीनामन्यतमेनावेष्टिताङ्गं अप्र-काशे देशे कोययेत् । सम्यक्प्रकुथितञ्चोद्धृत्यततो देहं सप्तरात्रादुशीरबालवेणुवल्कलकूची-नामन्यतमेन शनैः शनैरवधर्षयंस्त्वगादीन्सर्व्वानेव बाह्याभ्यन्तराङ्गप्रत्यङ्गविशेषान् यथो-क्तान् लक्षयेच्चक्षुषा । श्लोकौ चात्र भवतः ।“न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः ।दृश्यते ज्ञानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ॥
शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः ।दृष्टश्रुताभ्यां सन्देहमवापो ह्याचरेत् क्रियाः ॥
”षष्ठोऽध्यायः ।अथातः प्रत्येकमर्म्मनिर्देशं शारीरं व्याख्या-स्यामः । सप्तोत्तरं मर्म्मशतम् । तानि मर्म्माणिपञ्चात्मकानि । तद्यथा । मांसमर्म्माणि ।सिरामर्म्माणि स्नायुमर्म्माणि । अस्थिमर्म्माणि ।सन्धिमर्म्माणि चेति । न खलु मांससिरा-स्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्म्माणिभवन्ति यस्मान्नोपलभ्यन्ते । तत्रेकादश मांस-मर्म्माणि । एकचत्वारिंशत् शिरामर्म्माणि ।सप्तविंशतिः स्नायुमर्म्माणि । अष्टावस्थि-मर्म्माणि । विशतिः सन्धिमर्म्माणि । तदेतत्सप्तोत्तरं मर्म्मशतम् ॥
* ॥
तेषामेकादशैकस्मिन्सक्थ्नि भवन्ति । एतेनेतरसक्थिबाहू चव्याख्यातौ । उदरोरसोर्द्वादश । चतुर्दश पृष्ठे ।ग्रीवां प्रत्यूर्द्ध्वं सप्तत्रिंशत् । तत्र सक्थिमर्म्माणिक्षिप्रतलहृदयकूर्च्चकूर्च्चशिरोगुल्फेन्द्रवस्तिजान्वा-ण्युर्व्वीलोहिताक्षाणि विटपञ्चेति । एतेनेतर-सक्थि व्याख्यातम् ॥
* ॥
उदरोरसोस्तु । गुद-वस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्य-पस्तम्भौ चेति । पृष्ठमर्म्माणि तु कटीकतरुण-कुकुन्दर-नितम्बपार्श्वसन्धिबृहत्यंसफलकान्यंसौचेति । बाहुमर्म्मणि तु क्षिप्रतलहृदयकूर्च्चकूर्च्च-शिरोमणिबन्धेन्द्रवस्तिकुर्पराण्युर्घीलोहिताक्षाणिकक्षधरञ्चेति । एतेनेतरो बाहुर्व्याख्यातः ।जत्रूर्द्ध्वं मर्म्माणि । चतस्रो धमन्योऽष्टौ मातृकाः ।द्वे कृकाटिके । द्वे विधुरे । द्वौ फणौ । द्बाव-पाङ्गौ । द्बावावर्त्तौ । द्वावुत्क्षेपौ । द्बौ शङ्खा-वेका स्थपनी । पञ्च सीमन्ताः । चत्वारिशृङ्गाटकान्येकोऽधिपतिरिति । तत्र तलहृद-येन्द्रवस्तिगुदस्तनरोहितानि मांसमर्म्माणि ।नीलधमनी-मातृकाशृङ्गाटकापाङ्गस्थपनीफण-स्तनमूलापलापापस्तम्भहृदयनाभिपार्श्वसन्धिवृ-हतीलोहिताक्षोर्व्व्यःसिरामर्म्माणि । आणि-विटपकक्षधरकूर्च्चकूर्च्चशिरोवस्तिक्षिप्रांसविधु-रोत्क्षेपाः स्नायुमर्म्माणि । कटीकतरुणनित-म्बांसफलकशङ्खास्त्वस्थिमर्म्माणि । जानुकुर्पर-सीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्त्तकृका-टिकाश्चेति सन्धिमर्म्माणि । तान्येतानि पञ्चविकल्पानि मर्म्माणि भवन्ति । तद्यथा । सद्यः-प्राणहराणि । कालान्तरप्राणहराणि । विशल्य-घ्नानि । वैकल्यकराणि । रुजाकराणीति । तत्रसद्यःप्राणहराण्येकोनविंशतिः । कालान्तर-प्राणहराणि त्रयस्त्रिंशत् । त्रीणि विशल्य-घ्नानि । चतुर्श्चत्वारिंशद्बैकल्यकराणि । अष्टौरुजाकराणीति ॥
* ॥
भवन्ति चात्र ।“शृङ्गाटकान्यधिपतिः शङ्खो कण्ठशिरोगुदम् ।हृदयं वस्तिनाभी च घ्नन्ति सद्योहतानि तु ॥
वक्षोमर्म्माणि सीमन्ततलक्षिप्रेन्द्रवस्तयः ।कटीकतरुणे सन्धी पार्श्वजौ बृहती च य ॥
नितम्बाविति चैतानि कालान्तरहराणि तु ।उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्द्दिशेत् ॥
लोहिताक्षाणि जानूर्वी कूर्च्चा विटपकूर्पराः ।कुकुन्दरे कक्षधरे विधुरे सकृकाटिके ॥
अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा ।वैकल्यकरणान्याहुरावर्त्तौ द्वौ तथैव च ॥
गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्च्चशिरांसि च ।रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् ।क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च ॥
”मर्म्माणि नाम मांसशिरास्नाय्वस्थिसन्धिसन्नि-पातास्तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति ।तस्मान्मर्म्मस्वभिहतास्तांस्तान् भावानापद्यन्ते ।तत्र सद्यःप्राणहराण्याग्नेयान्यग्निगुणेष्वाशुक्षीणेषु क्षपयन्ति । कालान्तरप्राणहराणिसौम्याग्नेयान्यग्निगुणेष्वाशु क्षीणेषु क्रमेण चसोमगुणेषु कालान्तरेण क्षपयन्ति । विशल्य-प्राणहराणि वायव्यानि शल्यमुंखनिरुद्धो याव-दन्तर्व्वायुस्तिष्ठति तावज्जीवत्युद्धृतमात्रे तुशल्ये मर्म्मस्थानाश्रितो वायुर्निष्क्रामति तस्मात्सशल्यो जीवत्युद्धृतशल्यो म्रियते । वैकल्य-कराणि सौम्यानि सोमो हि स्थिरत्वाच्छैत्याच्चप्राणावलम्बनं करोति । रुजाकराण्यग्निवायु-गुणभूयिष्ठानि विशेषतश्च तौ रुजाकरौ ।पाञ्चभौतिकीञ्च रुजामाहुरेके । केचिदाहु-र्म्मांसादीनां पञ्चानामपि समस्तानां विवृद्धा-नाञ्च समवायात् सद्यःप्राणहराणि । एक-हीनानामल्पानां वा कालान्तरप्राणहराणि ।द्बिहीनानां विशल्यप्राणहराणि । त्रिहीनानांवैकल्यकराणि । एकस्मिन्नेव रुजाकराणीति ।यतश्चैव मतोऽस्थिमर्म्मस्वप्यभिहतेषु शोणितागमनं भवति ॥
* ॥
“चतुर्व्विधा यास्तु शिराः शरीरेप्रायेण ता मर्म्मसु सन्निविष्टाः ।स्नाय्वस्थिमांसानि तथैव सन्धीन्सन्तर्प्य देहं प्रतिपालयन्ति ॥
ततः क्षते मर्म्मणि ताः प्रवृद्धःसमन्ततो वायुरभिस्तृणोति ।विवर्द्धमानस्तु स मातरिश्वारुजः सुतीव्राः प्रतनोति काये ॥
रुजाभिभूतन्तु पुनः शरीरंप्रलीयते नश्यति चास्य संज्ञा ।अतो हि शल्यं विनिहन्तुमिच्छन्मर्म्माणि यत्नेन परीक्ष्य कर्षेत् ॥
”एतेन शेषं व्याख्यातम् । तत्र सद्यःप्राणहर-मन्ते विद्धं कामान्तरेण मारयति । कालान्तर-प्राणहरमन्ते विद्धं वैकल्यमापादयति । विशल्य-प्राणहरमन्ते विद्धं कालान्तरेण क्लेशयतिरुजाञ्च करोति । रुजाकरमतीव्रवेदनं भवति ।तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मार-यन्ति । कालान्तरप्राणहराणि पक्षान्मासाद्वा ।तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति ।विशल्यप्राणहराणि वैकल्यकराणि च कदाचि-दत्यभिहतानि मारयन्ति ॥
* ॥
अत ऊर्द्ध्वंप्रत्येकशो मर्म्मस्थानान्यनुव्याख्यास्यामः । तत्रपादाङ्गुष्ठाङ्गुल्योर्म्मध्ये क्षिप्रं नाम मर्म्म तत्रविद्धस्याक्षेपकेण मरणम् । मध्यमाङ्गुलीमनु-पूर्व्वेण मध्ये पादतलस्य तलहृदयं नाम तत्रापिरुजाभिर्मरणम् । क्षिप्रस्योपरिष्टादुभयतः कूर्च्चोनाम यत्र पादस्य भ्रमणवेपने भवतः । गुल्फ-सन्धेरध उभयतः कूर्च्चशिरो नाम तत्र रुजा-शोफौ । पदजङ्घयोः सन्धाने गुल्फो नाम तत्ररुजस्तब्धपादता खञ्जता वा । पार्ष्णिं प्रतिजङ्घामध्ये इन्द्रवस्तिर्नाम तत्र शोणितक्षयेमरणम् । जङ्घोर्व्वोः सन्धाने जानु नाम तत्रखञ्जता जानुन ऊर्द्ध्वमुभयतस्त्र्यङ्गुलमाणिर्नामतत्र शोफाभिवृद्धिः स्तब्धसक्थिता च । ऊरु-मध्ये ऊर्व्वी नाम तत्र शोणितक्षयात् सक्थि-शोषः । ऊर्व्या उर्द्ध्वमधोवङ्क्षणसन्धेरूरुमूलेजोहिताक्षं नाम तत्र लोहितक्षयेण पक्षा-घातः । वङ्क्षणवृषणयोरन्तरे विटपं नाम तत्रवाण्ड्यमल्पशुक्रता वा भवति । एवमेतान्येका-दशसक्थिमर्म्माणि व्याख्यातानि । एतेनेतर-सक्थिबाहू च व्याख्यातौ । विशेषतस्तु यानिसक्थ्नि गुल्फजानुविटपानि तानि बाहौ मणि-बन्धकूर्परकक्षधराणि । यथा वङ्क्षणवृषणयो-रन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरंतस्मिन् विद्धेत एवोपद्रवाः । विशेषतस्तु मणि-बन्धे कुण्ठता । कुर्पराख्ये कुणिः । कक्षधरेकक्षाघातः । एवमेतानि चतुश्चत्वारिंशच्छाखासुमर्म्माणि व्याख्यातानि ॥
* ॥
अत ऊर्द्ध्व-मुदरोरसोर्मर्म्मस्थानान्यनुव्याख्यास्यामः । तत्रवातवर्च्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म्मतत्र सद्योमरणम् । अल्पमांसशोणितोऽभ्यन्तरतःकट्यां मूत्राशयो वस्तिर्नाम तत्रापि सद्योमरण-मश्मरीव्रणादृते । तत्राप्युभयतो भिन्ने न जीव-त्येकतो भिन्ने मूत्रस्रावी व्रणो भवति । स तुयत्नेनोपक्रान्तो रोहति । पक्वामाशययोर्म्मध्येसिराप्रभवा नाभिर्नाम तत्रापि सद्य एव मर-णम् । स्तनयोर्म्मध्यमधिष्ठायोरस्यामाशयद्वारंसत्त्वरजस्तमसामधिष्ठानं हृदयं नाम तत्र सद्यएव मरणम् । स्तनयोरधस्तात् हृदङ्गुलमुभयत-स्तनमूले नाम मर्म्मणी तत्र कफपूर्णकोष्ठतयाकासश्वासाभ्यां म्रियते । स्तनचूचुकयोरूर्द्ध्वंद्ब्यङ्गुलमुभयतः स्तनरोहितौ नाम तत्रलोहितपूर्णकोष्ठतया कासश्वासाभ्याञ्च म्रियते ।अंशकूटयोरधस्तात् पार्श्वोपरिभागयोरपलापौनाम तत्र रक्तेन पूयभावं गतेन मरणम् ।उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नामतत्र वातपूर्णकोष्ठतया कासश्वासाभ्याञ्च मर-णम् । एवमेतान्युदरोरसोर्द्बादश मर्म्माणिव्याख्यातानि ॥
* ॥
अत ऊर्द्ध्वं पृष्ठमर्म्माण्यनु-व्याख्यास्यामः । तत्र पृष्ठवंशमुभयतः प्रतिश्रोणीकाण्डमस्थीनि कटीकतरुणे नाम मर्म्मणी तत्रशोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्चम्रियते । पार्श्वजघनवहिर्भागे पृष्ठवंशमुभयतोनातिनिम्ने कुकुन्दरे नाम मर्म्मणी तत्र स्पर्शा-ज्ञानमधःकाये चेष्टोपघातश्च । श्रोणीकाण्डयो-रुपर्य्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौनितम्बौ नाम तत्राधःकायशोषो दौर्ब्बल्याच्चमरणम् । अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्व-मध्ययोस्तिर्य्यगूर्द्ध्वञ्च जघनात् पार्श्वसन्धी नामतत्र लोहितपूर्णकोष्ठतया म्रियते । स्तनमूला-दुभयतः पृष्ठवंशस्य बृहती नाम तत्र शोणि-तातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते । पृष्ठोपरिपृष्ठवंशमुभयतस्त्रिकसम्बद्धे अंसफलके नाम तत्रबाह्वोः स्वापः शोषो वा । बाहुमूर्द्ध्वग्रीवामध्ये-ऽंसपीठस्कन्धनिबन्धनावंसौ नाम तत्र स्तब्ध-बाहुता । एवमेतानि चतुर्द्दश पृष्ठमर्म्माणिव्याख्यातानि ॥
* ॥
अत ऊर्द्ध्वं जत्रुगतानिव्याख्यास्यामः । तत्र कण्ठनाडीमुभयतश्चतस्रोधमन्यो द्बे नीले द्बे च मन्ये व्यत्यासेन तत्रमूकता स्वरवैकृतमरसग्राहिता च । ग्रीवाया-मुभयतश्चतस्रःसिरामातृकास्तत्र सद्योमरणम् ।शिरोग्रीवयोः सन्धाने कृकाटिके नाम तत्रचलमूर्द्ध्वता । कर्णपृष्ठतोऽधःसंश्रिते विधुरे नामतत्र व्याधिर्य्यम् । घ्राणमार्गमुभयतः स्रोतोमार्ग-प्रतिबद्धे अभ्यन्तरतः फणे नाम तत्र गन्धा-ज्ञानम् । भ्रूपुच्छान्तयोरधोऽक्ष्णोर्वाह्यतोऽपाङ्गौनाम तत्रान्ध्यं दृष्ट्युपघातो वा । भ्रुवोरुपरि-निम्नयोरावर्त्तौ नाम तत्रान्ध्यं दृष्ट्युपघातश्च ।भ्रवोः पुच्छान्तयोरुपरि कर्णललाटयोर्मध्ये शङ्खौनाम तत्र सद्योमरणम् । शङ्खयोरुपरि केशान्तउत्क्षेपौ नाम तत्र सशल्यो जीवति पाकात्पतितशल्यो वा नोद्धृतशल्यः । भ्रुवोर्मध्ये स्थपनीनाम तत्रोत्क्षेपवत् । पञ्च सन्धयः शिरसिविभक्ताः सीमन्ता नाम तत्रोन्मादभयचित्त-नाशैर्मरणम् । घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनांसिराणां मध्ये सिरासन्निपातः शृङ्गाटकानितानि चत्वारि मर्म्माणि तत्रापि सद्योमरणम् ।मस्तकाभ्यन्तरोपरिष्टात् सिरासन्धिसन्निपातोरोमावर्त्तः अधिपतिस्तत्रापि सद्योमरणम् ।एवमेतानि सप्तत्रिंशदूर्द्ध्वजत्रुगतानि मर्म्माणिव्याख्यातानि ॥
* ॥
भवन्ति चात्र ।“ऊर्व्व्यः शिरांसि विटपे च सकक्षपार्श्वेएकैकमङ्गुलमिता स्तनपूर्व्वमूलम् ।विद्ध्यङ्गुलद्बयमितं मणिबन्धगुल्कंत्रीण्येव जानु सपरं सह कुर्पराभ्याम् ॥
हृद्बस्थिकूर्च्चगुदनाभि वदन्ति मूर्द्ध्निचत्वारि पञ्च च गले दश यानि च द्बे ।तानि स्वपाणितलकुञ्चितसंमितानिशेषाण्यवेहि परिविस्तरतोऽङ्गुलार्द्धम् ॥
एतत् प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाःशस्त्रेण कर्म्मकरणं परिहृत्य मर्म्म ।पार्श्वाभिघातितमपीह निहन्ति मर्म्मतस्माद्धि मर्म्मसदनं परिवर्ज्जनीयम् ॥
छिन्नेषु पाणिचरणेषु शिरा नराणांसङ्कोचमीयुरसृगल्पमतो निरेति ।प्राप्यामितव्यसनमुग्रमतो मनुष्याःसंछिन्नशाखतरुवन्निधनं न यान्ति ॥
क्षिप्रेषु तत्र सतलेषु हतेषु रक्तंगच्छत्यतीव पवनश्च रुजं करोति ।एवं विनाशमुपयान्ति हि तत्र विद्धावृक्षा इवायुधविघातनिकृत्तमूलाः ॥
तस्मात्तयोरभिहतस्य तु पाणिपादंछेत्तव्यमाशु मणिबन्धनगुल्फदेशे ।मर्म्माणि शल्यविषयार्द्धमुदाहरन्तियस्माच्च मर्म्मसु हता न भवन्ति सद्यः ॥
जीवन्ति तत्र यदि वैद्यमुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि ।सम्भिन्नजर्ज्जरितकोष्ठशिरःकपालाजीवन्ति शस्त्रविहतैश्च शरीरदेशैः ।छिन्नैश्च सक्थिभुजपादकरैरशेषै-र्येषां न मर्म्मपतिता विविधाः प्रहाराः ॥
सोममारुततेजांसि रजःसत्त्वतमांसि च ।मर्म्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ॥
मर्म्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः ।इन्द्रियार्थेष्वसंप्राप्तिर्मनोबुद्धिविपर्य्ययः ॥
रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते ।हते कालान्तरघ्ने तु ध्रुवो धातुक्षयो नृणाम् ॥
ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति ।हते वैकल्यजनने केवलं वैद्यनैपुणात् ॥
शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात् ।विशल्यघ्नेषु विज्ञेयं पूर्व्वोक्तं यच्च कारणम् ॥
रुजाकराणि मर्म्माणि क्षतानि विविधा रुजः ।कुर्व्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ॥
छेदभेदाभिघातेभ्यो दहनाद्दारणादपि ।उपघातं विजानीयान्मर्म्मणान्तुल्यलक्षणम् ॥
मर्म्माभिघातश्च न कश्चिदस्तियोऽल्पात्ययो वापि निरत्ययो वा ।प्रायेण मर्म्मस्वभिताडितास्तुवैकल्यमृच्छन्त्यथवा म्रियन्ते ॥
मर्म्माण्यधिष्ठाय हि ये विकारामूर्च्छन्ति काये विविधा नराणाम् ।प्रायेण ते कृच्छ्रतमा भवन्तिनरस्य यत्नैरपि साध्यमानाः ॥
” * ॥
सप्तमोऽध्यायः ।अथातः सिरावर्णनविभक्तिनाम शारीरं व्याख्या-स्यामः । सप्त सिराशतानि भवन्ति । याभिरिदंशरीरमाराम इव जलहारिणीभिः केदार इवच कुल्याभिरुपस्निह्यते अनुगृह्यते चाकुञ्चन-प्रसारणादिभिर्व्विशेषैः । द्रुमपत्रसेवनीनामिवच तासां प्रतानास्तासां नाभिर्मूलं ततश्चप्रसरन्त्यूर्द्ध्वमधस्तिर्य्यक् च ॥
* ॥
भवतश्चात्र ।“यावत्यस्तु सिराः काये सम्भवन्ति शरीरिणाम् ।नाभ्यां सर्व्वा निबद्धास्ता प्रतन्वन्ति समन्ततः ॥
नाभिस्थाः प्राणिनां प्राणा प्राणान्नाभिर्व्युपा-श्रिता ।सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ॥
”तासां मूलसिराश्चत्वारिंशत् । तासां वात-वाहिन्यो दश । पित्तवाहिन्यो दश । कफ-वाहिन्यो दश । दश रक्तवाहिन्यः । तासान्तुवातवाहिनीनां वातस्थानगतानां पञ्चसप्तति-शतं भवति । तावत्य एव पित्तवाहिन्यः । पित्त-स्थाने कफवाहिन्यश्च । कफस्थाने रक्तवाहि-न्यश्च । यकृत्प्लीह्नोरेवमेतानि सप्तसिराशतानि ।तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थ्नि पञ्च-विंशतिः । एतनेतरसक्थिबाहू च व्याख्यातौ ।विशेषतस्तु कोष्ठे चतुस्त्रिंशत्तासां गुदमेढ्रा-श्रिताः । श्रोण्यामष्टौ । द्वे द्बे पार्श्वयोः । षट्पृष्ठे । तावत्य एव चोदरे । दश वक्षसि ।एकचत्वारिंशज्जत्रुण ऊर्द्ध्वम् । तासां चतुर्दशग्रीवायाम् । कर्णयोश्चतस्रः । नव जिह्वायाम् ।षट् नासिकायाम् । अष्टौ नेत्रयोः । एवमेतत्पञ्चसप्तत्यधिकशतं वातवहानां सिराणांव्याख्यातम् । एष एव विभागः शेषाणामपि ।विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश । कर्ण-योर्द्वे । एवं रक्तवहा कफवहाश्च । एवमेतानिसप्त सिराशतानि सविभागानि व्याख्यातानि ॥
* ॥
भवन्ति चात्र ।“क्रियानामप्रतीघातममीहं बुद्धिकर्म्मणाम् ।करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्चरन् ॥
यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते ।तदास्य विविधा रोगा जायन्ते वातसम्भवाः ॥
भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम् ।संसर्पत् स्वाः सिराः पित्तं कुर्य्याच्चान्यान् गुणा-नपि ॥
यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः ।तदास्य विविधा रोगा जायन्ते पित्तसम्भवाः ॥
स्नेहमङ्गेषु सन्धीनां स्थैर्य्यं बलमुदीर्णताम् ।करोत्यन्यान् गुणांश्चापि बलासः स्वाः शिरा-श्चरन् ॥
यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते ।तदास्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः ॥
धातूणां पूरणं वर्णं स्पर्शज्ञानमसंशयम् ।स्वाः सिराः सञ्चरद्रक्तं कुर्य्याच्चान्यान् गुणानपि ॥
यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः ।तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः ॥
न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा ।श्लेष्माणं वा वहन्त्येता अतः सर्व्ववहाः स्मृताः ॥
प्रदुष्टानां हि दोषाणामुच्छ्रितानां प्रधावताम् ।ध्रुवमुन्मार्गगमनमतः सर्व्ववहाः स्मृताः ॥
तत्रारुणा वातवहाः पूर्य्यन्ते वायुना सिराः ।पित्ता दुष्टाश्च नीलाश्च शीता गौर्य्यः स्थिराःकफात् ।असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः ॥
अत ऊर्द्ध्वं प्रवक्ष्यामि न विध्येद्याः सिराभिषक् ।वैकल्यं मरणञ्चापि व्यधात्तासां ध्रुवं भवेत् ॥
सिराशतानि चत्वारि विद्याच्छाखासु बुद्धि-मान् ।षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टिञ्च मूर्द्धनि ॥
शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु ।पञ्चाशज्जानुनश्चोर्द्ध्वमवेध्याः परिकीर्त्तिताः ॥
”तत्र सिराशतमेकैकस्मिन् सक्थ्नि भवति तासांजालधरा त्वेका तिस्रश्चाभ्यन्तराः । तत्रोर्व्वी-संज्ञे द्बे लोहिताक्षसंज्ञा चैकैतास्त्ववेध्याः ।एतेनेतरसक्थिबाहू च व्याख्यातावेवमशस्त्र-कृत्याः षोडश शाखासु । द्वात्रिंशत् श्रोण्यांतासामष्टावशस्त्रकृत्याः । द्बे द्वे विटपयोः कटीक-तरुणयोश्च । अष्टावष्टावेकैकस्मिन् पार्श्वेतासामेकैकामूद्ध्वगां परिहरेत् । पार्श्वसन्धिगतेच द्वे । चतस्रो विंशतिश्च पृष्ठवंशमुभयतस्तासा-मूर्द्ध्वगामिन्यौ द्बे द्वे परिहरेद्वृहती सिरे ।तावत्य एवोदरे तासां मेढ्रोपरि रोमराजी-मुभयतो द्वे द्बे परिहरेत् । चत्वारिंशद्वक्षसितासां चतुर्दशाशस्त्रकृत्या । हृदये द्वे द्वे ।द्वे स्तनमूले । स्तनरोहितापलापस्तम्बेषूभयतोऽष्टौ । एवं द्बात्रिंशदशस्त्रकृत्याः पृष्ठोदरोरःसुभवन्ति । चतुःषष्टिशिराशतं जत्रुण ऊर्द्ध्वं भवतितत्र षट्पञ्चाशच्छिरोधरायां तासामष्टौ चत-स्रश्च मर्म्मसंज्ञाः परिहरेत् । द्बे कृकाटिकयोः ।द्वे विधुरयोः । एवं ग्रीवायां शोडशाव्यध्याः ।हन्वोरुभयतोऽष्टावष्टौ तासान्तु सन्धिधमन्यौद्बे द्बे परिहरेत् । षट्त्रिंशज्जिह्वायां तासा-मधः षोडशाशस्त्रकृत्याः रसवहे द्वे वाग्वहे चद्वे । द्बिर्द्वादश नासायां तासामौपनासिक्य-श्चतस्रः परिहरेत् । तासामेव च तालुन्येकांमृदावद्देशे । अष्टात्रिंशदुभयोर्नेत्रयोस्तासामे-कैकामपाङ्गयोः परिहरेत् । कर्णयोर्दश तासांशब्दवाहिनीनामैकैकां परिहरेत् । नासानेत्र-गतास्तु ललाटे षष्टिस्तासां केशान्तानुगता-श्चतस्रः । आवर्त्तयोरेकैका स्थपन्याश्चैका परि-हर्त्तव्या । शङ्खयोर्दश तासां शङ्खसन्धिगता-मेकैकां परिहरेत् । द्वादश मूर्द्ध्नि तासामुत्-क्षेपयोर्द्बे परिहरेत् । सीमन्तेष्वेकैकामधिपता-विति । एवमशस्त्रकृत्याः पञ्चाशज्जत्रुण ऊर्द्ध्व-मिति । भवति चात्र ।“व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः ।प्रतानाः पद्मिनीकन्दाद्विसादीनां यथा जलम् ॥
”अष्टमोऽध्यायः ।अथातः सिराव्यधविधिशारीरंव्याख्यास्यामः ।बालस्थविररूक्षक्षतक्षीणभीरुपरिश्रान्तस्त्रीम-द्याध्वकर्षितमत्तवान्तविरिक्तास्थापितानुवासित-जागरितक्लीवकृशगर्भिणीनां कासश्वासशोषप्र-वृद्धज्वराक्षेपकपक्षाघातोपवासपिपासामूर्च्छा-प्रपीडितानाञ्च सिरां न विध्येत् । याश्चाव्यध्याव्यध्याश्चादृष्टा दृष्टाश्चायन्त्रिता यन्त्रिताश्चानु-त्थिता इति । शोणितावसेकसाध्याश्च विकाराःप्रागभिहितास्तेषु चापक्वेष्वन्येषु चानुक्तेषुयथाभ्यासं यथान्यायञ्च सिरां विध्येत् । प्रति-षिद्धानामपि च विषोपसर्ग आत्ययिकेषुसिराव्यधनमप्रतिषिद्धम् । तत्र स्निग्धस्विन्न-मातुरं यथादोषप्रत्यनीकद्रवप्रायमन्नं भुक्तवन्तंयवागूं पीतवन्तं वा यथाकालमुपस्थाप्यासीनंस्थितं वा प्राणानवाधमानो वस्त्रपट्टचर्म्मान्त-र्व्वल्कललतानामन्यतमेन यन्त्रयित्वा नातिगाढंनातिशिथिलं शरीरप्रदेशमासाद्य यथोक्तं शस्त्रंगृहीत्वा सिरां विध्येत् ॥
* ॥
“नैवातिशीते नात्युष्णे न प्रवाते न चाब्भ्रिते ।सिराणां व्यधनं कार्य्यमरोगे वा कदाचन ॥
”तत्र व्यध्यसिरं पुरुषं प्रत्यादित्यमुखमरत्निमात्रो-च्छ्रिते उपवेश्यासने सक्थ्नोराकुञ्चितयो-र्निवेश्य कुर्परसन्धिद्बयस्योपरि हस्तावन्तर्गूढा-ङ्गुष्ठकृतमुष्टीमन्ययोः स्थापयित्वा यन्त्रणशाटकंग्रीवामुष्ट्योरुपरि परिक्षिप्यान्येन पुरुषेणपश्चात् स्थितेन वामहस्तेनोत्तानेन शाटकान्त-र्द्वयं ग्राहयित्वा ततो वैद्यो ब्रूयाद्दक्षिणहस्तेनसिरोत्थापनार्थं नात्यायतशिथिलं यन्त्रमावेष्ट-यत्यसृक्स्रावणार्थं यन्त्रं पृष्ठमध्ये च पीडयेदितिकर्म्म पुरुषञ्च वायुपूर्णमुखं स्थापयेदेष उत्त-माङ्गगतानामन्तर्मुखवर्ज्यानां सिराणां व्यधेनयन्त्रणविधिः । तत्र पादव्यध्यसिरस्य पादं समेस्थाने सुस्थिरं स्थापयित्वान्यं पादमीषत्सङ्कु-चितमुच्चैः कृत्वा व्यध्यपादं जानुसन्धेरधः शाट-केनावेष्ट्य हस्ताभ्यां प्रपीड्य गुल्फं व्यध्यप्रदेश-स्योपरि चतुरङ्गुलं प्लोतादीनामन्यतमेन बद्धांपादसिरां विध्येत् । अथोपरिष्टाद्धस्तौ गूढा-ङ्गुष्ठकृतमुष्टी सम्यगासने स्थापयित्वा सुखोप-विष्टस्य पूर्व्ववद्यन्त्रं बद्ध्वा हस्तसिरां विध्येत् ।गृध्रसीविश्वाच्योः सङ्कुचितजानुकुर्परः स्यात् ।श्रोणीपृष्ठस्कन्धेषून्नामितपृष्ठस्यावाक्शिरस्कस्यउपविष्टस्य विस्फूजितपृष्ठस्य विध्येत् । उदरो-रसोः प्रसारितोरस्कस्योन्नमितशिरस्कस्यविस्फूर्ज्जितदेहस्य बाहुभ्यामवलम्ब्यमानदेहस्यपार्श्वयोः । अवनामितमेढ्रस्य मेढ्रे । उन्ना-मितविदष्टजिह्वाग्रस्याधोजिह्वायाम् । अति-व्यत्ताननस्य तालुनि दन्तमूलेषु च । एवं यन्त्रो-पायानन्यांश्च सिरोत्थापनहेतून् बुद्ध्यावेक्ष्यशरीरवशेन व्याधिवशेन च विदध्यात् । मांस-लेष्ववकाशेषु यवमात्रं शस्त्रं निदध्यादतोऽन्ये-ष्वर्द्धयवमात्रं व्रीहिमात्रं वा व्रीहिमुखेन ।अस्थ्नामुपरि कुठारिकया विध्येदर्द्धयवमात्रम् ॥
भवन्ति चात्र ।“व्यब्भ्रे वर्षासु विध्येत ग्रीष्मकाले तु शीतले ।हेमन्तकाले मध्याह्ने शस्त्रकालास्त्रयः स्मृताः ॥
सम्यक् शस्त्रनिपातेन धारया या स्रवेदसृक् ।मुहूर्त्तं रुद्ध्वा तिष्ठेच्च सुबिद्धान्तां विनिर्द्दिशेत् ॥
यथा कुसुम्भपुष्पेभ्यः पूर्व्वं स्रवति पीतिका ।तथा सिरासु विद्धासु दुष्टमग्रे प्रवर्त्तते ॥
मूर्च्छितस्यातिभीतस्य श्रान्तस्य तृषितस्य च ।न वहन्ति सिरा विद्धास्तथानुत्थितयन्त्रिताः ॥
क्षीणस्य बहुदोषस्य मूर्च्छया विद्रुतस्य च ।भूयोऽपराह्णे विस्राव्या सापरेद्युस्त्र्यहेऽपि वा ॥
रक्तं सशेषदोषन्तु कुर्य्यादपि विचक्षणः ।न चातिप्रस्रुतं कुर्य्याच्छेषं संशमनैर्जयेत् ॥
बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः ।परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ॥
”तत्र पाददाहपादहर्षाववाहुकटिप्यविसर्पवात-शोणितवातकण्टकविचर्च्चिकापाददारीप्रभृतिषुक्षिप्रमर्म्मण उपरिष्टात् द्ब्यङ्गुले व्रीहिमुखेनसिरां विध्येत् । श्लीपदें तच्चिकित्सिते यथावक्ष्यते । क्रोष्टुकशिरःखञ्जपङ्गुलवातवेदनासुजङ्घायां गुल्फस्योपरि चतुरङ्गुले । अपच्या-मिन्द्रवस्तेरधस्ताद्द्व्यङ्गुले । जानुसन्धेरुपर्य्यधोवा चतुरङ्गुले गृध्रस्याम् । ऊरुमूलसंश्रितान्तुगलगण्डे । एतेनेतरसक्थिबाहू च व्याख्यातौ ॥
विशेषतस्तु वामबाहौ कुर्परसन्धेरभ्यन्तरतोबाहुमध्ये प्लीह्नि कनिष्ठिकानामिकयोर्मध्ये वा ।एवं दक्षिणबाहौ यकृद्दाल्ये कफोदरे चैतामेवच कासश्वासयोरप्यादिशन्ति । गृध्रस्यामिवविश्वाच्याम् । श्रोणिप्रति समन्तात् द्व्यङ्गुलेप्रवाहिकायां शूलिन्यां परिकर्त्तिकोपदंशशूक-दोषशुक्रव्यापत्सु मेढ्रमध्ये । वृषणयोः पार्श्वेमूत्रवृद्ध्याम् । नाभेरधश्चतुररङ्गुले सेवन्या वामपार्श्वे दकोदरे । वामपार्श्वे कक्षास्तनयोरन्तरे-ऽन्तर्व्विद्रधौ पार्श्वशूले च । बाहुशोषावबाहु-कयोरप्येके वदन्त्यंशयोरन्तरे । त्रिकसन्धिमध्य-गतां तृतीयके अधःस्कन्धसन्धिगतामन्यतर-पार्श्वसंस्थिताञ्चतुर्थके । हनुसन्धिमध्यगतामप-स्मारे । शङ्खकेशान्तसन्धिगतामुरोऽपाङ्गलला-टेषु चोन्मादेऽपस्मारे च । जिह्वारोगेष्वधो-जिह्वायां दन्तव्याधिषु च तालुनि तालव्येषु ।कर्णयोरुपरि समन्तात् कर्णशूले तद्रोगेषु च ।गन्धाग्रहणे नासारोगेषु च नासाग्रे तिमिरा-क्षिपाकप्रभृतिष्वामयेषूपनासिके । लालाट्या-मपाङ्ग्याञ्चैता एव शिरोरोगाधिमन्थप्रभृतिषुरोगेष्विति ॥
* ॥
अत ऊर्द्ध्वं दुष्टव्यधनं अनु-व्याख्यास्यामः । तत्र दुर्व्विद्धातिविद्धा कुञ्चितापिच्चिता कुट्टिता प्रस्रुता अत्युदीर्णा अन्तेऽभि-हता परिशुष्का कूणिता वेपिता अनुत्थितविद्धाशस्त्रहता तिर्य्यग्विद्धा अविद्धा अव्याध्या विद्रुताधेनुका पुनः पुनर्विद्धा शिरास्नाय्वग्निसन्धिमर्म्मसुचेति विंशतिर्दुष्टव्यधाः । तत्र या सूक्ष्मशस्त्र-विद्धा न व्यक्तमसृक् स्रवति रुजा शोफवती चसा दुर्व्विद्धा । प्रमाणातिरिक्तविद्धायामन्तःप्रविशति शोणितं शोणितातिप्रवृत्तिर्व्वा साति-विद्धा । कुञ्चितायामप्येवम् । कुण्ठशस्त्रप्रम-थिता पृथुलीभावमापन्ना पिच्चिता । अनासा-दिता पुनःपुनरन्तयोश्च बहुशः शस्त्राभिहताकुट्टिता । शीतभयमूर्च्छाभिरप्रवृत्तशोणिताअप्रस्रुता । तीक्ष्णा महामुखशस्त्रविद्धा अत्यु-दीर्णा । अल्परक्तस्राविण्यन्ते विद्धा अन्तेऽभि-हता । क्षीणशोणितस्यानिलपूर्णा परिशुष्का ।चतुर्भागावसादिता किञ्चित्प्रवृत्तशोणिताकूणिता । दुःस्थानबन्धनाद्वेपमानायाः शोणित-सम्मोहो भवति सा वेपिता । अनुत्थितविद्धा-यामप्येवम् । छिन्नातिप्रवृत्तशोणिता क्रिया-सङ्गकरी शस्त्रहता । तिर्य्यक् प्रणिहतशस्त्राकिञ्चिच्छेषा तिर्य्यग्विद्धा । बहुशः क्षता हीन-शस्त्रप्रणिधानेनाविद्धा । अशस्त्रकृत्या अव्याध्याअनवस्थितविद्धा विद्रुता । प्रदेशस्य बहुशोऽव-घट्टनादारोयव्यधा मुहुर्मुहुःशोणितस्रवाधेनुका । सूक्ष्मशस्त्रव्यधनाद्बहुशो विच्छिन्नापुनःपुनर्विद्धा । स्नाय्वस्थिशिरासन्धिमर्म्मसुविद्धा वा रुजां शोषं वैकल्यं मरणं वापाद-यति ॥
* ॥
भवन्ति चात्र ।“सिरासु शिक्षितो नास्ति चला ह्येताः स्वभा-वतः ।मत्स्यवत् परि वर्त्तन्ते तस्माद्यत्नेन ताडयेत् ॥
अजानता गृहीते तु शस्त्रे कायनिपातिते ।भवन्ति व्यापदश्चैता बहवश्चाप्युपद्रवाः ॥
स्नेहादिभिः क्रियायोगैर्न तथा लेपनैरपि ।यान्त्याशु व्याधयः शान्तिं यथा सम्यक् सिरा-अधात् ॥
सिराव्यधश्चिकित्सार्द्धं शल्यतन्त्रे प्रकीर्त्तितः ।यथा प्रणिहितः सम्यक् वस्तिः कायचिकित्-सिते ॥
”तत्र स्निग्धस्विन्नवान्तावारक्तास्थापतानुवासित-सिराविद्धैः परिहर्त्तव्यानि । क्रोधायासमैथुन-दिवास्वप्नवाग् व्यायामयानोत्थानासनचंक्रमण-शीतवातातपविरुद्धा सात्म्याजीर्णान्यावललाभा-न्मासमेके मन्यन्ते ॥
* ॥
एतेषां विस्तरमुपरिष्टा-द्वक्ष्यामः । भवतश्चात्र ।“सिराविषाणतुम्बैस्तु जलौकाभिः पदस्तथा ।अवगाढं यथापूर्व्वं निर्हरेद्दुष्टशोणितम् ॥
अवगाढे जलौका स्यात् प्रच्छन्नं पिण्डिते हितम् ।सिराङ्गव्यापके रक्ते शृङ्गालावुत्वचि स्थिते ॥
” * ॥
नवमोऽध्यायः ।अथातो धमनीव्याकरणं शारीरं व्याख्या-स्यामः । चतुर्व्विंशतिर्धमन्यो नाभिप्रभवाअभिहिताः । तत्र केचिदाहुः सिराधमनी-स्रोतसामविभागः सिराविकारा एव धमन्यःस्रोतांसि चेति । तत्तु न सम्यक् । अन्या एव हिधमन्यः स्रोतांसि च सिराभ्यः कस्माद्ध्यञ्जनान्य-त्वान्मूलसन्नियमात् कर्म्मवैशेष्यादागमाच्च केव-लन्तु परस्परसन्निकर्षात् सदृशागमकर्म्मत्वात्सौक्ष्म्याच्च विभक्तकर्म्मणामप्यविभाग इव कर्म्मसुभवति । तासान्तु नाभिप्रभवाणां धमनीना-मूर्द्ध्वगा दश दश चाधोगामिन्यश्चतस्रस्तिर्य्य-ग्गाः । ऊर्द्ध्वगाः शब्दस्पर्शरूपरसगन्धप्रश्वा-सोच्छ्वासजृ म्भितक्षुद्धसितकथितरुदितादीन्विशे-षानभिवहन्त्यः शरीरं धारयन्ति । तास्तु हृदय-मभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिंशत् । तासान्तुवातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दशशब्दरूपरसगन्धानष्टाभिर्गृहीते । द्बाभ्यां भाषतेच द्बाभ्यां घोषं करोति द्बाभ्यां स्वपिति द्बाभ्यांप्रतिबुध्यते । द्वे चाश्रुवाहिन्यौ । द्वे स्तन्यं स्त्रियावहतस्तेन संश्रिते ते एव शुक्रं नरस्य स्तनाभ्या-मभिवहतः । तास्त्वेतास्त्रिंशत् सविभागाव्याख्याताः । एताभिरूर्द्ध्वं नाभेरुदरपार्श्व-पृष्ठोरःस्कन्धग्रीवाबाहवो धार्य्यन्ते याप्यन्तेच ॥
* ॥
भवति चात्र ।“ऊर्द्ध्वं गतास्तु कुर्व्वन्ति कर्म्माण्येतानि सर्व्वशः ।अधोगमास्तु वक्ष्यामि कर्म्म तासां यथायथम् ॥
”अधोगमास्तु वातमूत्रपुरीषशुक्रार्त्तवादीन्यधोवहन्ति । तास्तु पित्ताशयमभिप्रतिपन्नास्तत्रस्थ-मेवान्नपानरसं विपक्वमौष्ण्याद्विरेचयन्त्योऽभि-वहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति चोर्द्ध्वगतानांतिर्य्यग्गतानां रसस्थानञ्चाभिपूरयन्ति मूत्र-पुरीषस्वेदांच्च विरेचयन्त्यामपक्वाशयान्तरे चत्रिधा जायन्ते तास्त्रिंशत् । तासान्तु वातपित्त-कफशोणितरसान् द्वे द्वे वहतः ता दश द्बे अन्न-वाहिन्यावन्त्राश्रिते तोयवहे द्वे मूत्रवस्तिमभि-प्रपन्ने मूत्रवहे द्वे शुक्रवहे द्बे शुक्रप्रादुर्भावायद्बे विसर्गाय ते एव रक्तमभिवहतो नारीणा-मार्त्तवसंज्ञम् । द्बे वर्च्चोनिरसन्यौ स्थूलान्त्र-प्रतिवद्धे । अष्टावन्यास्तिर्य्यग्गानां धमनीनांस्वेदमर्पयन्ति । तास्त्वेतास्त्रिंशत् सविभागाव्याख्याताः । एताभिरधोनाभेः पक्वाशयकटी-मूत्रपुरीषगुदवस्तिमेढ्रसक्थीनि धार्य्यन्ते याप्यन्तेच ॥
* ॥
भववि चात्र ।“अधोगमास्तु कुर्व्वन्ति कर्म्माण्येतानि सर्व्वशः ।तिर्य्यग्गाः संप्रवक्ष्यामि कर्म्म तासां यथा-यथम् ॥
”तिर्य्यग्गानान्तु चतसृणां धमनीनामेकैका शतधासहस्रधा चोत्तरोत्तरं विभज्यन्ते तास्त्वसंख्ये-यास्ताभिरिदं शरीरं गवाक्षितं विवद्धमात-तञ्च । तासां मुखानि रोमकूपप्रतिबद्धानि यैःस्वेदमभिवहन्ति रसञ्चापि सन्तर्पयन्त्यन्तर्व्वहिश्चतैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्य्याण्यन्तःशरीरमभिपद्यन्ते त्यचि विपक्वानि । तैरेवस्पर्शसुखमसुखं वा गृह्णाति । तास्त्वेताश्चतस्रोधमन्यः सर्व्वाङ्गगताः सविभागा व्याख्याताः ।भवतश्चात्र ।“यथा स्वभावतः खानि मृणालेषु विसेषु च ।धमनीनां तथा खानि रसो यैरुपचीयते ॥
पञ्चाभिभूतास्त्वथ पञ्चकृत्वःपञ्चेन्द्रियं पञ्चसु भावयन्ति ।पञ्चेन्द्रियं पञ्चसु भावयित्वापञ्चत्वमायान्ति विनाशकाले ॥
” * ॥
अत ऊर्द्ध्वं स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः ।तानि तु प्राणान्नोदकरसरक्तमांसमेदोमूत्र-पुरीषशुक्रार्त्तववहानि येष्वधिकार एतेषांबहूनि । एतेषां विशेषा बहवः । तत्र प्राण-वहे द्वे तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः ।तत्र विद्धस्य क्रोशनविनमनमोहनभ्रमणवेपनानिमरणं वा भवति । अन्नवहे द्वे तयोर्मूलमामा-शयोऽन्नवाहिन्यश्च धमन्यस्तत्र विद्धस्याध्मानंशूलान्नद्वेषौ छर्द्दिः पिपासान्ध्यं मरणं वा ।उदकवहे द्वे तयोर्मूलं तालुक्लोम च । तत्रविद्धस्य पिपासा सद्योमरणञ्च । रसवहे द्वेतयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यस्तत्रविद्धस्य शोषः प्राणवहविद्धवच्च मरणं तल्लि-ङ्गानि च । रक्तवहे द्बे तयोर्मूलं यकृत्-प्लीहानौ रक्तवाहिन्यश्च धमन्यस्तत्र विद्धस्यश्यावाङ्गता ज्वरो दाहः पाण्डुता शोणिताति-गमनं रक्तनेत्रता चेति । मांसवहे द्वे तयो-र्मूलं स्नायुत्वचं रक्तवहाश्च धमन्यस्तत्र विद्धस्यश्वयथुर्मांसशोषः सिराग्रन्थयो मरणम् । मेदो-वहे द्बे तयोर्मूलं कटीवृक्कौ च तत्र विद्धस्यस्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशोफतापिपासा च । मूत्रवहे द्वे तयोर्मूलं वस्ति-र्मेढ्रञ्च तत्र विद्धस्यानद्धवस्तिता मूत्रनिरोधःस्तब्धमेढ्रता च । पुरीषवहे द्बे तयोर्मूलं पक्वा-शयो गुदञ्च तत्र विद्धस्यानाहो दुर्गन्धता ग्रथि-तान्त्रता च । शुक्रवहे द्वे तयोर्म्मूलं स्तनौवृषणौ च तत्र विद्धस्य क्लीवता चिरात् प्रसेकोरक्तशुक्रता च । आर्त्तववहे द्वे तयोर्म्मूलंगर्भाशयः आर्त्तववाहिन्यश्च धमन्यस्तत्र विद्धायांवन्ध्यात्वं मैथुनासहिष्णुत्वमार्त्तवनाशश्च । सेवनी-च्छेदाद्रुजाप्रादुर्भावः । वस्तिगुदविद्धलक्षणंप्रागुक्तमिति । स्रोतोविद्धन्तु प्रत्याख्यायोपचरे-दुद्धृतशल्यन्तु क्षतविधानेनोपचरेत् ।“मूलात् खादन्तरं देहे प्रसृतन्त्वभिवाहि यत् ।स्रोतस्तदिति विज्ञेयं सिराधमनिवर्ज्जितम् ॥
” * ॥
दशमोऽध्यायः ।अथातो गर्भिणीव्याकरणं शारीरं व्याख्या-स्यामः । गर्भिणी प्रथमदिवसात् प्रभृति नित्यंप्रहृष्टा शुच्यलङ्कृता शुक्लवसना शान्ति-मङ्गलदेवताब्राह्मणगुरुपरा च भवेन्मलिन-विकृतहीनगात्राणि न स्पशेद्दर्गन्धदुर्दर्शनानिपरिहरेदुद्वेजनीयाश्च कथाः शुष्कं पर्य्युषितंकुथितं क्लिन्नं चान्नं नोपभुञ्जीत । वहि-र्निष्क्रमणं शून्यागारचैत्यश्मशानवृक्षाश्रयान्क्रोधभयसङ्करांश्च भारानुच्चैर्भाष्यादिकं परि-हरेद्यानि च गर्भं व्यापादयन्ति । न चाभीक्ष्णंतैलाभ्यङ्गोत्सादनादीनि निषेवेत । न चाया-सयेच्छरीरं पूर्व्वोक्तानि च परिहरेत् । शयना-सनं मृद्वास्तरणं नात्युच्चमपाश्रयोपेतमसम्बाधंविदध्यात् । हृद्यं द्रवं मधुरप्रायं स्निग्धं दीप-नीयसंस्कृतञ्च भोजनं भोजयेत् सामान्यमेतदा-प्रसवात् ॥
* ॥
विशेषतस्तु गर्भिणी प्रथमद्वितीय-तृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसे-वेत । विशेषतस्तु तृतीये षष्टिकौदनं पयसाभोजयेच्चतुर्थे दध्ना पञ्चमे पयसा षष्ठे सर्पिषाचेत्येके । चतुर्थे पयोनवनीतसंसृष्टमाहारये-ज्जाङ्गलमांससहितं हृद्यमन्नं भोजयेत् । पञ्चमेक्षीरसर्पिःसंसृष्टम् । षष्ठे श्वदंष्ट्रासिद्धस्य सर्पिषोमात्रां पाययेद्यवागूं वा । सप्तमे सर्पिः पृथक्पर्ण्यादिसिद्धमेवमाप्याय्यते गर्भः । अष्टमे वदरो-दकेन बलातिबलाशतपुष्पपललपयोदधिमस्तु-तैललवणमदनफलमधुघृतमिश्रेणास्थापयेत् ।पुराणपुरीषशुद्ध्यर्थमनुलोमनार्थञ्च वायोः ।ततः पयोमधुरकषायसिद्धेन तैलेनानुवासयेदनु-लोमे हि वायौ सुखं प्रसूयते निरुपद्रवा चभवति । अत ऊर्द्ध्वं स्निग्धाभिर्यवागूभिर्जाङ्गल-रसैश्चोपक्रमेदाप्रसवकालादेवमुपक्रान्ता स्निग्धाबलवती सुखमनुपद्रवा प्रसूयते । नवमे मासिसूतिकागारमेनां प्रवेशयेत् प्रशस्ततिथ्यादौ ।तत्रारिष्टं ब्राह्मणक्षत्त्रियवैश्यशूद्राणां श्वेतरक्त-पीतकृष्णेषु भूमिप्रदेशेषु विल्वन्यग्रोधतिन्दुक-भल्लातकनिर्म्मितं सर्व्वागारं यथासंख्यं तन्मय-पर्य्यङ्कमुपलिप्तभित्तिं सुविभक्तपरिच्छदं प्राग्-द्वारमुदग्द्बारं दक्षिणद्वारं वाष्टहस्तायतञ्चतु-र्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम् ॥
* ॥
“जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने ।सशूले जघने नारी ज्ञेया सा तु प्रजायिनी ॥
”तत्रोपस्थितप्रसवायाः कटीपृष्ठं प्रति समन्ता-द्बेदना भवत्यभीक्ष्णं पुरीषप्रवृत्तिर्मूत्रं प्रसि-च्यते योनिमुखात् श्लेष्मा च । प्रजनयिष्यमाणांकृतमङ्गलस्वस्तिवाचनां कुमारपरिवृतां पुन्नाम-फलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनांसघृतां यवागूमाकण्ठात् पाययेत् । ततः कृतोप-धाने मृदुविस्तीर्णे शयने स्थितामाभुग्नसक्थी-मुत्तानामशङ्कनीयाश्चतस्रः स्त्रियः परिणत-वयसः प्रजननकुशलाः कर्त्तितनखाः परिचरेयु-रिति ॥
* ॥
अथास्या विशिखान्तरमनुलोममनु-मुखमभ्यज्यात् ब्रूयाच्चैनामेका सुभगे प्रवाह-स्वेति न चाप्राप्तावी प्रवाहस्व विशिखान्तर-मपत्यमार्गम् । ततो विमुक्ते गर्भनाडीप्रबन्धेसशूलेषु श्रोणिवङ्क्षणवस्तिशिरःसु प्रवाहेथाःशनैः शनैः । ततो गर्मनिर्गमे प्रगाढं ततो गर्भेयोनिमुखं प्रपन्ने गाढतरमाविशल्यभावात् ॥
* ॥
अकालप्रवाहणात् वधिरं मूकं व्यस्तहनुमूर्द्धाभिघातिनं कासश्वासशोषोपद्रुतं कुब्जंविकटं वा जनयति । तत्र प्रतिलोममनुलोमयेत् ।गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्म्मोकेणपिण्डीतकेन वा । बध्नीयाद्धिरण्यपुष्पीमूलं हस्त-पादयोर्द्धारयेत् सुवर्च्चलां विशल्यां वा ॥
* ॥
अथ जातस्योल्वं मुखञ्च सैन्धवसर्पिषा विशोध्यघृताक्तं मूर्द्ध्नि पिचुं दद्यात् ततो नाभिनाडी-मष्टाङ्गुलमायम्य सूत्रेण बद्ध्वा छेदयेत् तत्सूत्रैक-देशञ्च कुमारस्य ग्रीवायां सम्यग्वध्नीयात् ॥
* ॥
अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्म्मणिकृते मधुसर्पिरनन्ताब्राह्मीरसेन सुवर्णचूर्ण-मङ्गुल्यानामिकया लेहयेत्ततो बलातैलेनाभ्यज्यक्षीरवृक्षकषायेण सर्व्वगन्धोदकेन वा रूप्य-हेमप्रतप्तेन वा वारिणा स्नापयेदेनं कपित्थपत्र-कषायेण वा कोष्णेन यथाकालं यथादेशंयथाविभवं च ।“धमनीनां हृदिस्थानां विवृतत्वादनन्तरम् ।चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्त्तते ॥
”तस्मात् प्रथमेऽह्नि मधुसर्पिरनन्तामिश्रं मन्त्र-पूतं त्रिकालं पाययेद्द्वितीये लक्ष्मणासिद्धं सर्पि-स्तृतीये च । ततः प्राङ्निवारितस्तन्यं मधु-सर्पिः स्वपाणितलसम्मितं द्विकलं पाययेत् ॥
* ॥
अथ सूतिकां बलातैलाभ्यक्तां वातहरौषधनिः-क्वाथेनोपचरेत् सशेषदोषान्तु तदहः पिप्पली-पिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेरचव्यचूर्णंगुडोदकेनोष्णेन पाययेत् । एवं द्विरात्रंत्रिरात्रं वा कुर्य्यादादुष्टशोणितात् । विशुद्धेततो विदारिगन्धादिसिद्धां स्नेहयवागूं क्षीर-यवागूं वा पाययेत् त्रिरात्रम् । ततो यव-कोलकुलत्थसिद्धेन जाङ्गुलरसेन शाल्योदनंभोजयेद्बलमग्निबलञ्चावेक्ष्य । अनेन विधिनाअध्यर्द्धमानमुपसंस्कृता विमुक्ताहाराचाराविगतसूतिकाभिधाना स्यात् । पुनरार्त्तवदर्श-नादित्येके । धन्वभूमिजातां सूतिकां घृततैलयो-रन्यतरस्य मात्रां पाययेत् । पिप्पल्यादिकषा-यानुपाना स्नेहनित्या च स्यात्रिरात्रं पञ्चरात्रंवा बलवती । अबलां यवागूं पाययेत्त्रिरात्रंपञ्चरात्रं वा । अत ऊर्द्ध्वं सिग्धेनान्नसंसर्गेणोप-चरेत् । प्रायशश्चैनां प्रभतेनोष्णोदकेन परि-षिञ्चेत् । क्रोधायासमैथुनादीन् परिहरेत् ॥
* ॥
भवतश्चात्र ।“मिथ्याचारात् सूतिकाया यो व्याधिरुप-जायते ।स कृच्छ्रसाध्योऽसाध्यो वा भवेदत्ययतर्पणात् ॥
तस्मात्तां देशकालौ च व्याधिसात्स्येन कर्म्मणा ।परीक्ष्योपचरेदेवं नेयमत्ययमाप्नुयात् ॥
” * ॥
अथापरापतन्त्यानाहाध्मानौ कुरुते तस्मात्कण्ठमस्याः केशवेष्टितयाङ्गुल्या प्रमृजेत् । कटु-कालाबुकृतवेधनसर्षपसर्प्पनिर्म्मोकैर्वा कटतैल-विमिश्रैर्योनिमुखं धूपयेत् । लाङ्गलीमूलकल्केनवास्याः पाणिपादतलमालिम्पेत् । मूर्द्ध्नि वास्यामहावृक्षक्षीरमनुषेचयेत् । कुष्ठलाङ्गलीमूल-कल्कं वा मद्यमूत्रयोरन्यतरेण पाययेत् ।शालिमूलकल्कं वा पिप्पल्यादिं वा मद्येनसिद्धार्थककुष्ठलाङ्गलीमहावृक्षक्षीरमिश्रेण सुरामण्डेन वा स्थापयेत् । एतैरेव सिद्धेन सिद्धा-र्थकतैलेनोत्तरवस्त्रिं दद्यात् । स्निग्धेन वा कॢप्त-नखेन हस्तेनापहरेत् । प्रजातायाश्च नार्य्यारूक्षशरीरायास्तीक्ष्णैरविशोधितं रक्तं वायुनातद्देशगेनातिसंरुद्धं नाभेरधःपार्श्वयोर्व्वस्तौ वाअस्थ्नि वा शिरसि वा ग्रन्थिं करोति । ततश्चनाभिवस्त्युदरपृष्ठशूलानि भवन्ति । सूचीभिरिवनिस्तुद्यते भिद्यते दीर्य्यत इव च पक्वाशयः ।समन्तादाध्मानमुदरे मूत्रसङ्गश्च भवतीतिमक्कल्ललक्षणम् । तत्र वीरतर्व्वादिसिद्धं जल-भूषकादिप्रतीवापं पाययेत् । यवक्षारचूर्णं वासर्पिषा सुखोदकेन वा लवणचूर्णं वा पिप्पल्या-दिक्वाथेन पिप्पल्यादिचूर्णं वा सुरामण्डेनवरुणादिक्वाथं वा पञ्चकोलैलाप्रतीवापं पृथक्पर्ण्यादिक्वाथं वा भद्रदारुमरिचसंसृष्टं पुराण-गुडं वा त्रिकटुकचतुर्जातककुस्तुम्बुरुमिश्रंखादेदच्छं वा पिबेदरिष्टमिति ॥
* ॥
अथ बालंक्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायांशाययेत् । पीलुवदरीनिम्बपरूषकशाखाभिश्चैनंवीजयेत् । मूर्द्ध्नि चास्याहरहस्तैलपिचुमवचा-रयेत् । धूपयेच्चैनं रक्षोघ्नैर्धूपैः । रक्षोघ्नानिचास्य पाणिपादशिरोग्री वास्ववसृजेत् । तिला-तसीसर्षपकणांश्चात्र प्रकिरेत् । अधिष्ठाने चाग्निंप्रज्वालयेत् । व्रणितोपासनीयञ्चावेक्षेत । ततोदशमेऽहनि मातापितरौ कृतमङ्गलकौतुकौस्वस्तिवाचनं कृत्वा नाम कुर्य्यातां यदभिप्रेतंनक्षत्रनाम वा ॥
* ॥
ततो यथावर्णान्धात्री-मुपेयान्मध्यमप्रमाणां मध्यमवयसामरोगां शील-वतीमचपलामलोलुपामकृशामस्थूलां प्रसन्न-क्षीरां अलम्बौष्ठीमलम्बोर्द्ध्वस्तनीमव्यङ्गामव्यस-निनीं जीवद्वत्सां दोग्ध्रीं वत्सलामक्षुद्रकर्म्मिणींकुले जातामतो भूयिष्ठैश्च गुणैरन्वितां श्यामा-मारोग्यबलवृद्धये बालस्य । तत्रोर्द्ध्वस्तनीकरालं कुर्य्यात् । लम्बस्तनी नासिकामुखंछादयित्वा मरणमापादयेत् । ततः प्रशस्तायांतिथौ शिरःस्नातामहतवाससमुदङ्मुखं शिशु-मुपवेश्य धात्रीं प्राङ्मुखीमुपवेश्य दक्षिणं स्तनंधौतमीषत्परिसुतमभिमन्त्र्य मन्त्रेणानेन पाय-येत् ॥
* ॥
“चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः ।भवन्तु सुभगे नित्यं बालस्य बलवृद्धये ॥
पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने ।दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ॥
”अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्याद्व्याधि-जन्म भवति । अपरिस्रुतेऽप्यतिस्तब्धस्तन्यपूर्णस्तन-पानादुत्स्नुहितस्रोतसः शिशोः कासश्वासवमी-प्रादुर्भावः । तस्मादेवं विधानं स्तन्यं न पाययेत् ।क्रोधशोकावात्सल्यादिभिश्च स्त्रियाः स्तन्यनाशोभवति ॥
* ॥
अथास्याः क्षीरजननार्थं सौम-नस्यमुत्पाद्य यवगोधूमशालिषष्टिकमांसरस-सुरासौवीरकपिण्याकलशुनमत्स्य-कसेरुकशृङ्गा-टक-विसविदारिकन्द-मधुक-शतावरी-नालिका-लावूकालशाकप्रभृतीनि विदध्यात् ॥
* ॥
अथास्याः स्तन्यमप्सु परीक्षेत । तच्चेच्छीतल-ममलं तनु शङ्खावभासमप्मु न्यस्तमेकीभावंगच्छत्यफेनिलमतन्तुमन्नोत्प्लवते न सीदति वातच्छुद्धमिति विद्यात्तेन कुमारस्यारोग्यं शरीरो-पचयो बलवृद्धिश्च भवति । न च क्षुधित-शोकार्त्त-श्रान्तप्रदुष्टधातुगर्भिणीज्वरितातिक्षी-णातिस्थूल-विदग्ध-भक्षविरुद्धाहार-तर्पितायाःस्तन्यं पाययेन्नाजीर्णौषधञ्च बालं दोषौषध-मलानां तीव्रवेगोत्पत्तिभयात् ॥
* ॥
भवन्तिचात्र ।“धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा ।दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ॥
मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः ।दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः ॥
भवन्ति कुशलस्तांश्च भिषक् सम्यग्विभावयेत् ।अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते ॥
मुहुर्मुहुः स्पृशति तं स्पृश्यमाने च रोदिति ।निमीलिताक्षो मूर्द्धस्थे शिरोरोगे न धारयेत् ॥
वस्तिस्थे मूत्रसङ्गार्त्तो रुजा तृष्यति मूर्च्छति ।विण्मूत्रसङ्गवैवर्ण्यच्छर्द्याध्मानान्त्रकूजनैः ।कोष्ठे दोषान् विजानीयात् सर्व्वत्रस्थांश्चरोदनैः ॥
”तेषु च यथाभिहितं मृदुच्छेदनीयमौषधंमात्रया क्षीरपस्य जीरसर्पिषा धात्र्याश्चकेवलमेव विदध्यात् । क्षीरान्नादस्यात्मनिधात्र्याश्चान्नादस्य कषायादीनात्मन्येव नधात्र्याः । तत्र मासादूर्द्ध्वं क्षीरपायाङ्गुलि-पर्वद्वयग्रहणसम्मितामौषधमात्रां विदध्यात्कोलास्थिसम्मितां कल्कमात्रां क्षीरान्नादायकोलसम्मितामन्नादायेति ॥
* ॥
“येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः ।तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ ॥
एकं द्बे त्रीणि चाहानि वातपित्तकफज्वरे ।स्तन्यपायाहितं सर्पिरितराभ्यां यथार्थतः ॥
न च तृष्णाभयादत्र पाययेत शिशुं स्तनौ ।विरेकवस्तिवमनान्यृते कुर्य्याच्च नात्ययात् ॥
मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत् ।तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम् ॥
पानाभ्यञ्जनयोर्योज्यं शीताम्बूद्वेजनं तथा ।वातेनाध्मापितां नाभिं सरुजां तुण्डिसंज्ञिताम् ॥
मारुतघ्नैः प्रशमयेत् स्नेहस्वेदोपनाहनैः ।गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम् ।रसाञ्जनं विशेषेण पानालेपनयोर्हितम् ॥
”क्षीराहाराय सर्पिः पाययेत् सिद्धार्थकवचा-मांसी-पयस्यापामार्गशतावरीशारिवाब्राह्मीपि-प्पलीहरिद्राकुष्टसैन्धवसिद्धम् । क्षीरान्नादायमधुकवचापिप्पलीचित्रकत्रिफलासिद्धम् । अन्ना-दाय द्बिपञ्चमूलीक्षीरतगरभद्रदारुमरिचमधुविडङ्गद्राक्षाद्बिब्राह्मीसिद्धम् । तेनारोग्यबलमेधायूंषि शिशोर्भवन्ति ॥
* ॥
बालं पुनर्गात्रसुखं गृह्णीयान्न चैनं तर्जयेत् सहसा न प्रति-बोधयेद्बित्रासभयात् । सहसा नापहरेदुत्क्षि-पेद्वा वातादिविघातभयात् । नोपवेशयेत् कौब्ज्य-भयान्नित्यं चैनमनुवर्त्तेत प्रियशतैरजिघांसुः ।एवमनभिहतमनास्त्वभिवर्द्धते नित्यमुदग्रसत्त्व-सम्पन्नो नीरोगः सुप्रसन्नमनाश्च भवति । वाता-तपविद्युत्प्रभापादपलतादर्शनदीपावलोकनशून्या-गारनिम्नस्थानगृहच्छायादिभ्यो दुर्ग्रहोपसर्ग-तश्च बालं रक्षेत् ॥
* ॥
“नाशुचौ विसृजेद्बालं नाकाशे विषमे न च ।नोष्ममारुतवर्षेषु रजोधूमोदकेषु च ॥
क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा ।दद्यादास्तन्यपर्य्याप्तेर्बालानां वीक्ष्य मात्रया ॥
”षण्मासञ्चैनमन्नं प्राशयेल्लघु हितञ्च । नित्य-मवरोधरतश्च स्यात् कृतरक्ष उपसर्गभयात् ।प्रयत्नतश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति ॥
अथ कुमार उद्विजते त्रस्यति रोदिति नष्ट-संज्ञो भवति नखदशनैर्धात्रीमात्मानञ्च परि-णुदति दन्तान् खादति कूजति जृम्भते भ्रुवौविक्षिपत्यूर्द्ध्वं निरीक्षते फेनमुद्वमति सन्दष्टौष्ठःक्रूरो भिन्नामवर्च्चादीनार्त्तस्वरो निशि जागर्त्तिदुर्ब्बलो म्लानाङ्गो मत्स्यछुच्छुन्दरीमत्कुणगन्धोयथा पुरा धात्र्याः स्तन्यमभिलषति तथा नाभि-लषतीति सामान्येन ग्रहोपसृष्टलक्षणमुक्तंविस्तरेणोत्तरे वक्ष्यामः ॥
* ॥
शक्तिमन्तञ्चैनंज्ञात्वा यथावर्णं विद्यां ग्राहयेत् । अथास्मैपञ्चविंशतिवर्षाय द्वादशवर्षां पत्नीमावहेक्पित्र्यधर्म्मार्थकामप्रजाः प्राप्स्यतीति ॥
* ॥
“ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् ।यद्याधत्ते पुमान् गर्भं कुक्षिस्थः स विपद्यते ॥
जातो वा न चिरं जीवेत् जीवेद्बा दुर्ब्बलेन्द्रियः ।तस्मादत्यन्तबालायां गर्भाधानं न कारयेत् ॥
”अतिवृद्धायां दीर्घरोगिण्यामन्येन वा विकारे-णोपसृष्टायां गर्भाधानं नैव कुर्व्वीत । पुरुष-स्याप्येवंविधस्य त एव दोषाः संभवन्ति । तत्रपूर्व्वोक्तेः कारणैः पतिष्यति गर्भे गर्भाशयकटी-वङ्क्षणवस्तिशूलानि रक्तदर्शनञ्च । तत्र शीतैःपरिषेकावगाह-प्रदेहादिभि-रुपचरेज्जीवनीय-शृतशीतक्षीरपानैश्च । गर्भस्फुरणे मुहुर्मुहु-स्तत्सन्धारणार्थं क्षीरमुत्पलादिसिद्धं पाययेत् ।प्रसंसमाने सदाहपार्श्वपृष्ठशूलासृगुदरानाह-मूत्रसङ्गाः । स्थानात् स्थानञ्चोपक्रामति गर्भेकोष्ठे संरम्भस्तत्र स्निग्धाः शीताः क्रियाः वेद-नायां महासहाक्षुद्रसहामधुकश्वदंष्ट्राकण्ट-कारिकासिद्धं पयः शर्कराक्षौद्रमिश्रं पाययेत् ।मूत्रसङ्गे दर्भादिसिद्धम् । आनाहे हिङ्गुसौव-र्च्चललशुनवचासिद्धम् । अत्यर्थं स्रवति रक्तेकोष्ठागारिकागारमृत्पिण्डसमङ्गाधातकीकुसुम-नवमालिकागैरिकसर्ज्जरसरसाञ्जनचूर्णं मधुना-वलिह्यात् । यथालाभं न्यग्रोधादित्वक् प्रबाल-कल्कं वा पयसा पाययेदुत्पलादिकल्कं वाकशेरुशृङ्गाटकशालूककल्कं वा शृतेन पयसो-दुम्बरफलौदककन्दक्वाथेन वा शर्करामधुमधुरेणशालिपिष्टं न्यग्रोधादिस्वरसपरिपीतं वा वस्त्रा-वयवं योन्यां धारयेत् ॥
* ॥
अथादृष्टशोणित-वेदनायां मधुकदेवदारुपयस्यासिद्धं पयः पाय-येत् तदेवाश्मन्तकशतावरीपयस्यासिद्धं विदारि-गन्धादिसिद्धं वा वृहतीद्वयोत्पलशतावरीसारि-वापयस्यामधुकसिद्बं पयस्यार्कपुष्पीसिद्धं वापयः पाययेदिति । एवं क्षिप्रमुपक्रान्तायाउपावर्त्तन्ते रुजो गर्भश्चाप्यायते । व्यवस्थितेच गर्भे गव्येनोडुम्बरशलाटुसिद्धेन पयसा भोज-येत् । अतीते लवणस्नेहवर्ज्ज्याभिर्यवागूभिरु-द्दालकादीनां पाचनीयोपसंस्कृताभिरुपक्रमेतयावन्तो मासा गर्भस्य तावन्त्यहानि । वस्त्यु-दरशूलेषु पुराणगुडं दीपनीयसंयुक्तं पाययेद-रिष्टं वा वातोपद्रवगृहीतत्त्वात् । स्रोतसां लीयतेगर्भः सोऽतिकालमवतिष्ठमानो व्यापद्यते तंमृदुना स्नेहादिक्रमेणोपचरेत् । उत्क्रोशरस-संसिद्धामनल्पस्नेहां यवागूं पाययेत् । माष-तिलविल्वशलाटुसिद्धान् वा कुल्माषान्भक्षयेन्मधुमाध्वीकं चानुपिबेत् सप्तरात्रम् ।कालातीतस्थायिनि गर्भे विशेषतः सधान्य-मुदूखलं मुषलेनाभिहन्यात् विषमे वा याना-सने सेवेत । वाताभिपन्न एव शुष्यति गर्भः ।स मातुः कुक्षिं न पूरयति मन्दं स्पन्दते च तंवृंहणीयैः पयोभिर्मांसरसैश्चोपचरेत् । शुक्र-शोणितं वायुनाभिप्रपन्नमवक्रान्तजीवमाध्मा-पयत्युदरम् । तत् कदाचित् यदृच्छयोपशान्तंनैगमेयापहतमिति भाषन्ते । तमेव कदाचित्प्रलीयमानं नागोदरमित्याहुस्तत्रापि लीनवत्प्रतीकारः ॥
* ॥
अत ऊर्द्ध्वं मासानुमासिकंवक्ष्यामः ।“मधुकं शाकबीजञ्च पयस्या सुरदारु च ।अश्मन्तकस्तिलाः कृष्णास्ताम्रवल्ली शतावरी ॥
वृक्षादनी पयस्या च लता चोत्पलसारिवा ।अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ॥
बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचोघृतम् ।पृश्निपर्णी बला शिग्रु स्वदंष्ट्रा मधुपर्णिका ॥
शृङ्गाटकं विसं द्राक्षा कशेरु मधुकं सिताः ।वत्सैते सप्त योगाः स्युरर्द्धश्लोकसमापनाः ॥
यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुताः ।कपित्थबृहतीविल्वपटोलेक्षुनिदिग्धिकाः ॥
मूलानि क्षीरसिद्धानि पाययेद्भिषगष्टमे ।नवमे मधुकानन्तापयस्यासारिवाः पिबेत् ॥
क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम् ।सक्षीरा वा हिता शुण्ठी मधुकं सुरदारु च ।एवमाप्याय्यते गर्भस्तीव्रा रुक् चोपशाम्यति ॥
”निवृत्तप्रसवायास्तु पुनः षड्भ्यो वर्षेभ्य ऊर्द्ध्वंप्रसवमानाया नार्य्याः कुमारोऽल्पायुर्भवति ॥
* ॥
अथ गर्भिणीं व्याध्युत्पत्तावत्यये छर्द्दयेन्मधुरा-म्लेनान्नोपहितेनानुलोमयेच्च संशमनीयञ्च मृदुविदध्यादन्नपानयोरश्नीयाच्च मृदुवीर्य्यं मधुर-प्रायं गर्भाविरुद्धञ्च गर्भाविरुद्धाश्च क्रिया यथा-योगं विदधीत मृदुप्रायाः ॥
* ॥
भवन्ति चात्र ।“सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतञ्च वा ।मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ॥
अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा ।हेमचूर्णानि कैटर्य्यः श्वेता दूर्व्वा घृतं मधु ॥
चत्वारोऽभिहिताः प्राशाः श्लोकार्द्धेषु चतु-र्ष्वपि ।कुमाराणां वपुर्मेधाबलबुद्धिविवर्द्धनाः ॥
”इति सुश्रुत आयुर्व्वेदशास्त्रे तृतीयं शारीरस्थानंसमाप्तम् ॥
इङ्गेरेजीभाषायां एनाटोमीत्युक्त-मेतत् ॥
* ॥
शारीरं तपो यथा, --“देवद्बिजगुरुप्राज्ञपूजनं शौचमार्ज्जवम् ।ब्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते ॥
”इति भगवद्गीतायाम् १७ अध्यायः ॥
वाचस्पत्यम्
Sanskritशारीर शरीरस्येदम् अण् । १ देहसम्बद्धे सुखदुःखादौतत्सोढमस्य पुनः अण् । २ वृषे मेदि० । शरीरमात्म-त्वेनाभिमन्यते अण् । ३ जीवे । स्वार्थे क । तत्रार्थे ।शारीरं जीवं दुःखं वा अधिकृत्य कृतो ग्रन्थः कन् ।व्यासकृते वेदान्तसूत्रे चिकित्साङ्गे सुश्रुतग्रन्थाद्येकदेशे चशारीरञ्च दुःखं रोगादिकं यथोक्तं विष्णुपु० ६५ अ० ।“आध्यात्मिकोऽपि द्विविधः शारीरो मानसस्तथा ।शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः । शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयपुश्वासछर्द्यादिभिरनेकधा । तथाक्षिरोगातिसारकुष्ठाङ्गामय-संज्ञकैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि”सुश्रुतान्तर्गतशारीरकस्थानञ्च तत्र दृश्यम् ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
