| YouTube Channel

शारदीयमहापूजा (zAradIyamahApUjA)

 
Monier Williams Cologne
English
शारदीय—महा-पूजा
f.
the autumnal great worship (of Durgā),
Tithyād.
शब्दकल्पद्रुमः
Sanskrit
शारदीयमहापूजा,
स्त्री,
(शारदीया महापूजा ।)शरत्कालीनदुर्गामहापूजा यथा, --“शारदीया महापूजा चतुःकर्म्ममयी शुभा ।तां तिथित्रयमासाद्य कुर्य्यात् भक्त्या विधा-नतः
”इति तिथ्यादितत्त्वम्
अपि ।“हते घोरे महावीरे सुरासुरभयङ्करे ।देवीमुपासका देवाः प्रभुता राक्षसास्तथा
समेताः सर्व्वदेवास्ते देवीं भक्त्या तुतोषिरे ।वलिञ्च दद्युर्भूतानां महिषाजामिषेण
एवं तस्मिन् दिने वत्स प्रेतभूतसमाकुलम् ।कृतवान् सर्व्वदेवश्च पूजाश्च शाश्वतीर्महान्
जलदान्तेऽश्विने मासि महिषारिनिवर्हिणीम् ।देवीं संपूजयित्वा तु अष्टमीष्वर्द्धरात्रिषु
ये घातयन्ति सदा भक्त्या ते भवन्ति महाबलाः ।बलिञ्च ये प्रयच्छन्ति सर्व्वभूतविनाशनम्
तेषान्तु तुष्यते देवी यावत् कल्पन्तु शाङ्करम् ।क्रीडते विविधैर्भोगैर्देवलोके सुदुर्लभे
यावद्भूर्व्वायुराकाशं जलं वह्निशशिग्रहाः ।तावच्च चण्डिकापूजा भविष्यति सदा भुवि
प्रावृट्काले विशेषेण आश्विने ह्यष्टमीषु ।महाशब्दो नवम्याञ्च लोके ख्यातिं गमिष्यति
इन्द्र उवाच ।आश्विने घातिते घोरे नवमी प्रतिवत्सरम् ।श्रोतुमिच्छाम्यहं तात उपवामव्रतादिकम्
महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ।कर्त्तव्यं देवराजेन्द्र देवीभक्तिसमन्वितैः
कन्यासंस्थे रवौ शक्र शुक्लामारभ्य नन्दिकाम् ।अपाशी त्वथ वैकाशी नक्ताशी वाथ वाय्वदः
प्रातःस्नायी जितद्वन्द्बः त्रिकालं शिवपूजकः ।जपहोमसमायुक्तः कन्यकां भोजयेत् सदा
अष्टम्यां नवगेहानि दारुजानि शुभानि ।एवं वा चित्तभावेन कारयेत् सुरसत्तम
तस्मिन् देवी प्रकर्त्तव्या हैमी वा राजती वा ।मृद्वार्क्षी लवनोपेता खड्गे शूलेऽथ पूजयेत्
सर्व्वोपहारसम्पन्नो वस्त्ररत्नफलादिभिः ।कारयेद्रथदोलादीन् पूजाञ्च वलिदैवकीम्
पुष्पादिद्रोणविल्वाम्रजातीपुन्नागचम्पकैः ।विचित्रां कारयेत् पूजां अष्टम्यामुपवासयेत्
दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः सुभावितः ।तदर्द्धयामिनीशेषे विजयार्थे नृपोत्तमैः
पञ्चाब्दं लक्षणोपेतं गन्धधूपस्रगर्च्चितम् ।विधिवत कालि कालीति जप्त्वा खड्गेन घात-येत्
तस्योत्थं रुधिरं मांसं गृहीत्वा पूतनादिषु ।नैरृताय प्रदातव्या महाकौशिकमन्त्रितम्
तस्याग्रतो नृपः स्नायाच्छक्रं कृत्वा तु पिष्टजम् ।खड्गेन घातयित्वा तु दद्यात् स्कन्दविशा-खयोः
”ततो देवीं स्नापयेत् प्राज्ञः क्षीरसर्पिर्जला-दिभिः ।कुङ्कुमागुरुकर्पूरचन्दनैश्चारुधूपकैः
हैमानि पुष्परत्नानि वासांसि स्वाहतानि ।निवेद्यं सुप्रभूतन्तु देयं देव्याः सुभावितैः
अश्वमेधमवाप्नोति भक्तिमान् सुरसत्तम ।महानवम्यां पूजेयं सर्व्वकामप्रदायिका
सर्व्वेषु सर्व्ववर्णेषु तव भक्त्या प्रकीर्त्तिता ।कृत्वाप्नोति यशो राज्यं पुत्त्रायुर्धनसम्पदः
”इति देवीपुराणे २९ ३० अध्यायात् सङ्कलितंन तु सक्रमकम्