| YouTube Channel

शाब्दबोध (zAbdabodha)

 
Monier Williams Cologne
English
शाब्द—बोध
m.
‘verbal knowledge’, apprehension of the meaning of words, perception of the verbal or literal sense (of a sentence
&c.
)
Apte Hindi
Hindi
शाब्दबोध:
पुं*
शाब्द-बोध: -
शब्दों के अर्थ का अवबोध या प्रत्यक्षीकरण
L R Vaidya
English
SAbda-boDa {% m. %} apprehension of the meaning of words.
Abhyankara Grammar
English
शाब्दबोध verbal interpretation
the term is generally used with refe- rence to the verbal interpretation of a sentence as arising from that of the words which are all conne- cted directly or indirectly with the verb-activity. It is defined as पदजन्यपदार्थोपस्थितिजन्यबोध:. According to the grammarians, verbal activity is the chief thing in a sentence and all the other words (excepting the one which expresses verbal activity) are subordinated to the verbal activity and hence are connected with it
cf. पदज्ञानं तु करणं द्वारे तत्र पदार्थधीः | शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी | मुक्तावली III.81.
शब्दकल्पद्रुमः
Sanskrit
शाब्दबोधः,
पुं,
(शाब्दः शब्दसम्बन्धी बोधः ।)शब्दार्थज्ञानम् न्यायमते पदार्थज्ञानजन्य-ज्ञानम् तस्य करणं पदज्ञानम् तस्य कारणंपदशक्तिज्ञानम् कदाचित् लक्षणाज्ञानम् ।एवं आकाङ्क्षायोग्यतासत्तितात्पर्य्यज्ञानञ्च ।यथा, --“पदज्ञानन्तु करणं द्वारं तत्र पदार्थधीः ।शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी
”इति भाषापरिच्छेदः
*
शाब्दबोधप्रकारं दर्शयति पदज्ञानन्त्विति ।न तु ज्ञायमानं पदं करणं पदाभावेऽपि मौनि-श्लोकादौ शाब्दबोधात् पदार्थधीरिति पद-जन्यपदार्थस्मरणं व्यापारः अन्यथा पदज्ञान-वतः प्रत्यक्षादिना पदार्थोपस्थितावपि शाब्द-बोधापत्तेः तत्रापि वृत्त्या पदजन्यत्वं बोध्यंअन्यथा घटादिपदात् समवायसम्बन्धेन आकाश-स्मरणे जाते आकाशस्यापि शाब्दबोधापत्तेः ।वृत्तिः शक्तिलक्षणान्यतरसम्बन्धः अत्रैव शक्ति-ज्ञानस्य उपयोगः पूर्व्वं शक्तिग्रहाभावेपदज्ञानेऽपि तत्सम्बन्धेन स्मरणानुपपत्तेः ।पदज्ञानस्य हि सम्बन्धिज्ञानविधेयार्थस्मार-कत्वम् * शक्तिश्च पदेन सह पदार्थस्यसम्बन्धः अस्माच्छब्दादयमर्थो बोद्धव्य इती-श्वरेच्छारूपा आधुनिके नाम्नि शक्तिरस्त्येवएकादशेऽहनि पिता नाम कुर्य्यादितीश्वरे-च्छायाः सत्त्वात् आधुनिके तु सङ्केते शक्ति-रिति सम्प्रदायः नव्यास्तु ईश्वरेच्छा शक्तिःकिन्त्विच्छैव तेनाधुनिकसङ्केतेऽपि शक्तिरस्तीतिवदन्ति * शक्तिग्रहश्च व्याकरणादितः ।तथा हि ।“शक्तिग्रहं व्याकरणोपमान-कोषाप्तवाक्याद्ब्यवहारतश्च ।वाक्यस्य शेषाद्बिवृतेर्व्वदन्तिसान्निध्यतः सिद्धपदस्य वृद्धाः
”धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद्-भवति क्वचित्तु सति बाधके त्यज्यतेऽपि यथा, वैयाकरणैराख्यातस्य कर्त्तरि शक्तिरुच्यते ।चैत्रः पचतीत्यादौ कर्त्रा सह चैत्रस्याभेदान्वय-स्तत्र गौरवान्न जन्यते किन्तु कृतौ शक्तिग्रहोलाघवात् कृतिश्चैत्रादौ प्रकारीभूय भासते ।न कर्त्तुरनभिधानाच्चैत्रादिपदानन्तरं तृतीयास्यादिति वाच्यं कर्त्तृसंख्यानभिधानस्य तत्रतन्त्रत्वात् संख्याभिधानयोग्यश्च कर्म्मत्वाद्यन-वरुद्धः प्रथमान्तपदोपस्थाप्यकर्म्मत्वादीत्यस्यविशेषणत्वतात्पर्य्याविषयत्वमर्थः तेन चैत्र इवगच्छतीत्यादौ चैत्रे संख्यान्वयः यत्रकर्म्मादौ विशेषणत्वतात्पर्य्यं तद्वारणायप्रथमान्तेति यद्वा धात्वर्थातिरिक्ताविशे-षणत्वं प्रथमदलार्थः तेन चैत्र इव गच्छ-तीत्यत्र चैत्रादेर्व्वारणं स्तोकं पचतीत्यादौस्तोकादेर्व्वारणाय द्वितीयदलम् तस्यद्वितीयान्तोपस्थाप्यत्वाद्बारणम् एवं व्यापारे-ऽपि शक्तिर्गौरवात् रथो गच्छति इत्यादौतु स्वव्यापारे आश्रयत्वे वा लक्षणा जानातिइत्यादौ तु आश्रयत्वे नश्यतीत्यादौ प्रतियोगित्वेनिरूढलक्षणा उपमानाद्यथा शक्तिग्रह-स्तथोक्तम्
*
एवं कोषादपि शक्तिग्रहःसति बाधके क्वचित्त्यज्यते यथा नीलादि-पदानां नीलरूपादौ नीलादिविशिष्टे शक्तिःकोषे व्युत्पादिता तथापि लाघवात् नीलादौशक्तिः नीलादिविशिष्टे लक्षणेति
*
एव-माप्तवाक्यादपि यथा, कोकिलः पिकपद-वाच्यः इत्यादिशब्दात् पिकादिशक्तिग्रहः
*
एवं व्यवहारादपि यथा, प्रयोजकवृद्धेन घट-मानयेत्युक्तं तत् श्रुत्वा प्रयोज्यवृद्धेन घट आनीत-स्तदवधार्य्य पार्श्वस्थो बालो घटानयनरूपंकार्य्यम् घटमानय इति शब्दप्रयोज्यं अव-धारयति ततश्च घटमपसारय गामानय इत्यादौआवापोद्बापाभ्यां घटादिपदानां कार्य्यान्वित-घटादौ शक्तिं गृह्णाति
*
एवं वाक्यशेषा-दपि शक्तिग्रहः यथा यवमयश्चरुर्भवतीत्यत्रयवपदस्य दीर्घशूकविशिष्टे आर्य्याणां प्रयोगःकङ्गौ म्लेच्छानाम् तत्र हि यथान्या ओष-धयो म्लायन्ते तथैते मोदमाना इवोत्तिष्ठन्ति
“वसन्ते सर्व्वशस्यानां जायते पत्रशातनम् ।मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः
”इति वाक्यशेषात् दीर्घशूके शक्तिर्निर्णीयतेकङ्गौ तु शक्तिभ्रमात् प्रयोगः नानाशक्ति-कल्पने गौरवात् हरिपदादौ तु विनिगमका-भावान्नानाशक्तिकल्पनम्
*
एवं विवरणा-दपि शक्तिग्रहः विवरणन्तु तत्समानार्थ-पदान्तरेण तदर्थकथनम् यथा घटोऽस्तिइत्यस्य कलसोऽस्तीत्यनेन विवरणाद्वटपदस्यकलसे शक्तिग्रहः एवं पचति इत्यस्य पाकंकरोति इत्यनेन विवरणादाख्यातस्य यत्नार्थकत्वंकल्प्यते
*
एवं प्रसिद्धपदसान्निध्यादपिशक्तिग्रहः यथा इह सहकारतरौ मधुरंपिको रौति इत्यादौ पिकपदस्य शक्तिग्रहइति तत्र जातावेव शक्तिर्न तु व्यक्तौ व्यभि-चारादानन्त्याच्च
*
शक्तं पदन्तु क्वचिद्-यौगिकं क्वचिद्रूढं क्वचिद्योगरूढं क्वचिद्-यौगिकरूढम् यत्रावयवार्थ एव बुध्यते तद्-यौगिकं यथा पाचकादिपदम् यत्रावयव-शक्तिनैरपेक्षेण समुदायशक्तिमात्रेण बुध्यतेतद्रूढं यथा गोपदमण्डपादि पदम् यत्र तुअवयवशक्तिविषये समुदायशक्तिरप्यस्ति तद्-योगरूढं यथा पङ्कजादिपदम् तथा हिपङ्कजपदमवयवशक्त्या पङ्कजनिकर्त्तृरूपमर्थंबोधयति समुदायशक्त्या पद्मत्वेन रूपेण पद्मंबोधयति यत्र अवयवार्थरूढ्यर्थयोः स्वात-न्त्र्येण बोधस्तद्यौगिकरूढं यथोद्भिदादिपदम् ।तत्र हि ऊर्द्ध्वभेदनकर्त्ता तरुगुल्मादिरपिबुध्यते इति सिद्धान्तमुक्तावली
वाचस्पत्यम्
Sanskrit
शाब्दबोध
पु०
शब्देन निर्वृत्तः अण् कर्म० अन्वयबोधे शब्द-ज्ञानजन्ये पदार्थस्मृतिद्बारके ज्ञानभेदे न्यायमतम् शा-ब्दत्वं त्वनुभवत्वव्याप्यं जातिभेदः तद्बोधप्रकारादिभाषा० उक्तं यथा “पदज्ञानन्तु करणं द्वारं तत्र पदा-र्षधीः शाब्दबोधः फलं तत्र शक्तिधोः सहकारिणी ।लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः आसत्तियो-ग्यताकाङ्क्षातात्पर्य्यज्ञानमिष्यते” भाषा० सि० मु० विवृत-मेतत् यथा“शाब्दबोधप्रकारं दर्शयति पदज्ञानन्त्विते तुज्ञायमानं पदं करणम् पदाभावेऽपि मौनिश्लोकादौशाब्दवोधात् पदार्थधीरिति पदजन्यपदार्थस्मरणंव्यापारः अन्यथा पदज्ञानवतः प्रत्यक्षादिना पदार्थो-पस्थितावपि शब्दबोधापत्तेः तत्रापि वृत्त्या पद-जन्यत्वं बोध्यम् अन्यथा घटादिपदात् समवायसम्ब-न्धेन यत्राकाशस्मरणं जायते तत्राकाशस्यापि शाब्द-मोधापत्तेः वृत्तिः शक्तिलक्षणान्यतरः सम्बन्घः ।अत्रैव शक्तिज्ञानस्योषयोगः पूर्वं शक्तिग्रहाभावे पद-ज्ञानेऽपि तत्सम्बन्धेन स्मरणानुपपत्तेः पदज्ञानस्यसम्बन्धिज्ञानविधयार्थस्मारकत्वम् शक्तिश्च पदेन सहपदार्थस्य सम्बन्धः सा चास्माच्छब्दादयमर्थो बोद्धव्यइतीश्वरेच्छारूपा आधुनिके नाम्नि शक्तिरस्त्येव ।“एकादशेऽहनि पिता नाम कुर्य्यात्” इतीश्वरेच्छायाःसत्त्वात् आधुनिके तु सङ्केते शक्तिरिति सम्प्रदायः ।नघ्यास्तु ईश्वरेच्छा शक्तिः किन्त्विच्छैव तेन आधु-निकसङ्केतेऽपि शक्तिरस्तीति वदन्ति”