| YouTube Channel

शान्तिः (zAntiH)

 
Apte
English
शान्तिः [śāntiḥ],
f.
[शम्-क्तिन्]
Pacification, allayment, alleviation, removal
अध्वरविघातशान्तये
R.*
11.1, 62.
Calmness, tranquillity, quiet, ease, rest, repose
स्मर संस्मृत्य शान्तिरस्ति मे
Ku.*
4.17
शान्तिः कुतस्तस्य भुजङ्गशत्रोः
Māl.
6.1
यत् किंचिद् वस्तु संप्राप्य स्वल्पं वा यदि वा वहु या तुष्टि- र्जायते चित्ते सा शान्तिः कथ्यते बुधैः Padma
P.
Cessation of hostility
सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ हि दृष्टपूर्वा
Bv.*
1.125.
Cessation, stop.
Absence of passion, quietism, complete indifference to all worldly enjoyments
तदुपहितकुटुम्बः शांन्तिमार्गोत्सुको$भूत्
R.*
7.71.
Consolation, solace.
Settlement of differences, reconciliation.
Satisfaction of hunger.
An expiatory rite, a propitiatory rite for averting evil
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि
Rām.*
1.8.16.
Good fortune, felicity, auspiciousness.
Exculpation or absolution from blame.
Preservation.
N.
of Durgā.
Destruction, end, death.
Comp.
-उदम्, -उदकम्, -जलम् soothing or propitiatory water
अहमपि वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि
Ś.*
3. -कर, -कारिन्
a.
soothing, pacifying. -कर्मन् any action of averting evil. -गृहम् a room for rest or retirement. -मार्गः the life peaceful and leading to मोक्ष
तदुपहितकुटुम्बः शान्तिमार्गोत्सुको$भूत्
R.*
7.71. -वाचनम् reciting of a text for averting evil. -सलिलम् propitiatory water. -होमः a sacrifice or burnt offering to avert or remove an evil
सावित्राञ्छान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः
Ms.*
4.15.
Apte Hindi
Hindi
शान्तिः
स्त्री*
- शम् + क्तिन्
"प्रशमन, निराकरण, सान्तवना, हटाव"
शान्तिः
स्त्री*
- शम् + क्तिन्
"धैर्य, प्रशान्तता, नि:शब्दता, अमन-चैन, विश्राम"
शान्तिः
स्त्री*
- शम् + क्तिन्
वैरनिरोध
शान्तिः
स्त्री*
- शम् + क्तिन्
"विराम, निवृत्ति"
शान्तिः
स्त्री*
- शम् + क्तिन्
"आवेश का अभाव, मौनभाव, सभी सांसारिक भोगों के प्रति पूर्ण उदासीनता"
शान्तिः
स्त्री*
- शम् + क्तिन्
"सान्तवना, ढाढस"
शान्तिः
स्त्री*
- शम् + क्तिन्
"सामञ्जस्यविधान, विरोधोपशमन"
शान्तिः
स्त्री*
- शम् + क्तिन्
भूख की तृप्ति
शान्तिः
स्त्री*
- शम् + क्तिन्
"प्रायश्चित अनुष्ठान, पाप को दूर करने के लिए तुष्टिप्रद अनुष्ठान"
शान्तिः
स्त्री*
- शम् + क्तिन्
"सौभाग्य, बधाई, आशीर्वाद, माङ्गलिकता"
शान्तिः
स्त्री*
- शम् + क्तिन्
"दोषमार्जन, कलंक से मुक्ति, परिरक्षण "
शान्तिः
स्त्री*
- शम्+क्तिन्
"विनाश, अन्त"
Wordnet
Sanskrit
Synonyms:
शान्तिः, शान्तः, स्थिरता, स्थैर्यम्, एकोतिभावः, क्षेमः, निर्व्याकुलता, प्रशमः, प्रशान्तिः, प्रशामः, शमः, शमथः
noun
युद्धोपद्रवादिविरहितावस्था।
"युद्धस्य पश्चात् देशे शान्तिः अस्ति।"
Synonyms:
शान्तिः
noun
देवहूतिकर्दमयोः नवसु कन्यासु कनिष्ठा कन्या।
"शान्तेः विवाहः अथर्वमुनिना सह जातः।"
Synonyms:
नीरवता, निःस्तब्धता, शान्तिः, शान्तता, नीरवत्वम्
noun
ध्वनिहीना अवस्था भावो वा।
"तमोमयी निशा नीरवतया युक्ता आसीत्।"
Synonyms:
शान्तिः, विश्रामः, निवृत्तिः, विश्रान्तिः, शमः, उपशमः, प्रशान्तिः, निर्वृत्तिः, सुखः, सौख्यम्, स्वस्थता, स्वास्थ्यम्, समाधानम्, निरुद्वेगः
noun
क्रोधदुःखादीनां चित्तवृत्तीनां निरोधेन मनसः शमनम्।
"शान्तेन मनसा योगः कर्तव्यः।"
Tamil
Tamil
சா’ந்தி: : அமைதி, பொறுமை, மௌனம், சப்தம் இன்மை, பசி அடங்குதல், பகை தீருதல்.
शब्दकल्पद्रुमः
Sanskrit
शान्तिः,
स्त्री,
(शम + क्तिन् ।) कामक्रोधादि-प्रशमः चित्तोपशमः इति भरतः
विषयेभ्यइन्द्रियोपरमः इति चण्डीटीकायां नागोजी-भट्टः
तत्पर्य्यायः शमथः शमः इत्य-मरः
प्रशमः उपशमः प्रशान्तिः ।इति शब्दरत्नावली
तृष्णाक्षयः इतिहेमचन्द्रः
तल्लक्षणं यथा, --“यत्किञ्चिद्वस्तु संप्राप्य स्वल्पं वा यदि वा बहु ।या तुष्टिर्जायते चित्ते शान्तिः सा गद्यते बुधैः
”इति पद्मपुराणे क्रियायोगसारे १५ अध्यायः
भद्रम् इति हेमचन्द्रः
गोपीविशेषः यथा, राधिकोवाच ।“शान्त्या गोप्या युतस्त्वञ्च दृष्टोऽहं रासमण्डले ।वसन्तपुष्पशय्यायां माल्यवान् चन्दनोक्षितः
रत्नप्रदीपैर्युक्तश्च रत्ननिर्म्माणमन्दिरे ।रत्नभूषितभूषाढ्यो रत्नभूषितया सह
तया दत्तञ्च ताम्बूलं भुक्तवांश्च पुरा विभो ।सद्यो मच्छब्दमात्रेण तिरोधानं कृतं तया
शान्तिर्देहं परित्यज्य भयाद्दीना त्वयि प्रभो ।ततस्तस्याः शरीरञ्च गुणश्रेष्ठं बभूव
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ।विश्वे विषयिणे किञ्चित् सत्त्वरूपाय विष्णवे
शुद्धसत्त्वस्वरूपायै महालक्ष्म्यै पुरा विभो ।त्वन्मन्त्रोपासकेभ्यश्च वैष्णवेभ्यश्च किञ्चन ।तपस्विभ्यश्च धर्म्माय धर्म्मिष्ठेभ्यश्च किञ्चन
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे अध्यायः
*
दुर्गा यथा, --“उत्पत्तिस्थितिनाशेषु रजादित्रिगुणा मता ।सर्व्वज्ञा सर्व्ववेत्तृत्वाच्छान्तित्वाच्छान्तिरुच्यते
”इति देवीपुराणे देवीनिरुक्ताध्यायः
*
धर्म्मद्बारा ग्रहदौःस्थ्यदुःस्वप्नादिसूचितैहिका-निष्टहेतुदुरितनिवृत्तिः यथा, --“यथा शस्त्रप्रहाराणां कवचं विनिवारकम् ।तथा दैवोपघातानां शान्तिर्भवति वारणम्
”वालग्रहभूतग्रहनराधिपप्रबलतरशत्रुदुःसह-रोगाभिभवाद्भुतदुःस्वप्नग्रहदौःस्थ्यादिनिमित्तकंशान्तिकर्म्मापि मलमासे कर्त्तव्यम् शुद्धकाल-प्रतीक्षायामसहत्वेनानन्यगतिकत्वात् अत-एवात्मानं सततं गोपायीत इति श्रुतौ सतत-मत्युक्तम् इति मलमासतत्त्वम्
*
उप-सर्गशान्तिगाथा यथा, --“एषामिन्द्रो महावीर्य्यस्त्रैलोक्यस्येश्वरोऽभवत् ।शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः
तस्योपसर्गनाशाय नामाक्षरविभूषिता ।अद्यापि मानवैर्गाथा गीयतेऽत्र महीतले
सशान्तिर्देवराट् शान्तः सुशान्तिं प्रयच्छति ।सहितः शिवसत्याद्यैस्तथैव वशवर्त्तिभिः
”इति मार्कण्डेयपुराणे उत्तममन्वन्तरसमाप्ता-ध्यायः
*
अथाद्भुतशान्तिः तत्राद्भुतनिरूपणम् अद्-भुतसागरे आथर्व्वणाद्भुतवचनम् प्रकृति-विरुद्धमद्भुतमापदः प्राक्प्रबोधाय देवाः सृज-न्तीति तेनापज्ज्ञानाय भूम्यादीनां पूर्व्वंस्वभावप्रच्यवो देवकर्त्तृकोऽद्भुत इति एवञ्चबुधोदयपर्व्वणि ग्रहादीनां गणितागणितत्वेनप्रकृतानामपि यदुत्पातत्वं तद्भाक्तम् तत्कार-णञ्च गर्गसंहिताबार्हस्पत्ययोः ।“अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः ।नरापचारान्नियतमुपसर्गः प्रवर्त्तते
ततोऽपचारान्नियतमपवर्ज्जन्ति देवताः ।ताः सृजन्त्यद्भुतांस्तांस्तु दिव्यनाभसभूमिजान्
एव त्रिविधा लोके उत्पाता देवनिर्म्मिताः ।विचरन्ति विनाशाय रूपैः सम्बोधयन्ति
”तांश्च परं दर्शयेदित्याह विष्णुः नोत्पातंदर्शयेदिति तत्र वेलानक्षत्रमण्डलनिरूपणम् ।यथा, दीपिकायाम् ।“प्राग्द्वित्रिचतुर्भागैर्द्यूनिशोरद्भुतेषु सर्व्वेषु ।अनिलाग्निशक्रवरुणा मण्डलपतयः शुभा-शुभैश्च
”वेलामण्डलः ।“अर्य्यम्णादिचतुष्कचन्द्रतुरगादित्येषु वायु-र्भवेत्देवेज्याजविशाखयाम्ययुगले पित्र्यद्बयेचानलः ।विश्वादित्रयधातृमैत्रयुगलेष्विन्द्रो भवेन्मण्डलःसर्पोपान्त्यशतान्त्यमूलयुगलेशानेष्वपामीश्वरः
पवनदहनौ नेष्टौ योगस्तयोरतिदोषदः ।सुरपतिवरुणौ शस्तौ योगस्तयोरतिशोभनः
सवरुणमरुन्मिश्रः शक्रस्तथाग्निसमायुतः ।फलविरहितः सेन्द्रो वायुस्तथाग्नियुतोऽम्बुपः
यन्मण्डलेऽद्भुतं जातं शान्तिस्तद्देवताश्रया ।तथा शान्तिद्वयं कार्य्यं मण्डलद्वयजाद्भुते
*
विष्णुधर्म्मोत्तरे ।“ग्रहर्क्षवैकृतं दिव्यं आन्तरीक्षं निबोध मे ।उल्कापातो दिशां दाहः परिवेशस्तथैव
गन्धर्व्वनगरञ्चैव वृष्टिश्च विकृता तथा ।एवमादीनि लोकेऽस्मिन् नाभसानि विनिर्द्दि-शेत्
चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् ।जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितम्
भौमं चाल्पफलं ज्ञेयं चिरेण परिपच्यते ।नाभसं मध्यफलदं मध्यकालफलप्रदम् ।दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारी तथैव
*
शीतोष्णताविपर्य्यासः ऋतूतां रिपुजं भयम् ।पुष्पे फले विकृते राज्ञो मृत्युं तथा दिशेत्
अकालप्रभवा नार्य्यः कालातीताः प्रजास्तथा ।विकृताः प्रसवाश्चैव युग्मप्रसवनं तथा
हीनाङ्गाः अधिकाङ्गाश्च जायन्ते यदि वा त्रयः ।पशवः पक्षिणश्चैव तथैव सरीसृपाः
विनाशं तस्य देहस्य कुलस्य विनिर्द्दिशेत्
प्रदोषे कुक्कुटारावो हेमन्ते चापि कोकिलाः ।अर्कोदयेऽर्काभिमुखः श्वारावो नृभयं दिशेत्
उलूको वसते यत्र निपतेद्वा तथा गृहे ।ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव
गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव ।चिल्लश्च चर्म्मचिल्लश्च भासः पाण्डर एव
गृहे यस्य पतन्त्येते गेहं तस्य विपद्यते ।पक्षान्मासात्तथा वर्षान्मृत्युः स्याद्गृहमेधिनः ।पत्न्याः पुत्त्रस्य वा मृत्युर्द्रव्यञ्चापि विनश्यति
ब्राह्मणाय गृहं दत्त्वा दत्त्वा तन्मूल्यमेव वा ।गृह्णीयाद्यदि रोचेत शान्तिञ्चेमां प्रयोजयेत्
”इमां वक्ष्यमाणाम्
*
“मांसास्थीनि समादाय श्मशानाद्गृध्रवायसाः ।श्वा शृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत्
विकिरन्ति गृहादौ श्मशानं सा मही भवेत् ।चौरेण हन्यते लोकः परचक्रसमागमः
संग्रामश्च महाघोरो दुर्भिक्षं मरकं तथा ।अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः
अकाले फलपुष्पाणि देशविद्रवकारणम्
”मत्स्यपुराणे ।“अतिवृष्टिरनावृष्टिर्दुर्भिक्षादिभयं मतम् ।अनृतौ तु दिनादूर्द्ध्वं वृष्टिर्ज्ञेया भयाय
निरभ्रे वाथ रात्रौ वा श्वेतं यस्योत्तरेण तु ।इन्द्रायुधं ततो दृष्ट्वा उल्कापातं तथैव
दिग्दाहपरिवेशौ गन्धर्व्वनगरं तथा ।परचक्रभयं विद्याद्देशोपद्रवमेव
”भासो वनकुक्कुटः
*
कंसनिधनसूचने हरि-वंशः ।“वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः ।चलत्यपर्व्वणि मही गिरीणां शिखराणि
”वाणोत्पाते एव ।“दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् ।वक्रमङ्गारकश्चक्रे कृत्तिकासु भयङ्करः
*
कृत्यचिन्तामणौ ।“त्यक्ताशौचविवेकतत्त्ववसुधा लोकाः क्षुधा-पीडिताःविप्रा वेदहतास्तथा प्रचलिता बह्वाशिनोदुःखिताः ।क्षौणीमन्दफला नृपाश्च विकलाः संग्रामघोरामहीप्रेताघातदुरन्तपीडिततरा देवेज्यराह्वोर्युतौ
रक्ते शस्त्रोद्योगो मांसास्थिवशादिभिर्मरकः ।धान्यहिरण्यत्वक्फलकुसुमाद्ये वर्षिते भयंविद्यात् ।अङ्गारपांशुवर्षे विनाशमुपयाति तन्नगरम्
उपलं विना जलधरैर्विकृता वा यदा प्राणिनोवृष्ट्या ।छिद्रं वाप्यतिवृष्टिं शस्यानामीतिसंजननम्
”बुधकौशिकसंवादे ।“वल्ल्याः प्रपाते फलं शरटस्य प्ररोहणे ।शीर्षे राजश्रियोऽवाप्तिर्भाले चैश्वर्य्यमेव
कर्णयोर्भूषणावाप्तिर्नेत्रयोर्व्वन्धुदर्शनम् ।नासिकायाञ्च सौगन्ध्यं वक्त्रे मिष्टान्नभोजनम्
कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत् ।धनलाभो बाहुमूले करयोर्धनवृद्धिदः
स्तनमूले सौभाग्यं हृदि सौख्यविवर्द्धनम् ।पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनम्
कटिद्वये वस्त्रलाभो गुह्ये मृत्युसमागमः ।जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत्
उर्व्वोस्तु वाहनावाप्तिर्ज्जानुजङ्घेऽर्थसंक्षयः ।वामदक्षिणयोः पादे भ्रमणं नियतं भवेत्
वल्ल्याः प्ररोहणे चैव पतने शरटस्य ।व्यत्यासाच्च फलञ्चैव तद्वदेव प्रजायते
वल्ल्याः प्ररोहणं रात्रौ शरटस्य प्रपातनम् ।निधनार्थाय भवति व्याधिपीडा विपर्य्यये
पतनानन्तरं चैवारोहणं यदि जायते ।पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत्
आरोहणञ्चोर्द्ध्ववक्त्रे अधोवक्त्रे पातनम्
भवेदिष्टफलं तस्य तत्काले जायते ध्रुवम्
*
स्पृष्टमात्रे तयोः सद्यः सचेलं जलमाविशेत् ।पञ्चगव्यप्राशनञ्च कुर्य्यादर्कावलोकनम्
वल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत् ।पूजयेद्गन्धपुष्पाद्यैस्तदग्रे पूर्णकुम्भके
पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवम् ।पञ्चवृक्षकषायञ्च निक्षिप्यावाहयेत्ततः
पूजयेद्गन्धपुष्पाद्यैर्लोकपालांस्तथा ग्रहान् ।मृत्युञ्जयेन मन्त्रेण समिद्भिः खदिरैः शुभैः ।तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकम्
”वल्ली गृहगोधिका मृत्युञ्जयमन्त्रस्त्य्रम्बकमन्त्रःइति विद्याकरः
*
गर्गसंहिताबार्हस्पत्ययोः ।“ये तेषु शान्तिं कुर्व्वन्ति ते यान्ति परा-भवम् ।ये तु प्रतिकुर्व्वन्ति क्रियया श्रद्धयान्विताः ।दाम्भिक्याद्बा विमोहाद्वा विनश्यन्त्येव तेऽचि-रात्
*
अत्र निमित्तनिश्चयवतोऽधिकारोऽन्यथा दोषइत्याह मत्स्यपुराणम् ।“भिन्नमण्डलवेलायां ये भवन्त्यद्भुताः क्वचित् ।तत्र शान्तिद्बयं कार्य्यं निमित्त सति नान्यथा ।निर्निमित्तकृता शान्तिर्निमित्तमुपपादयेत्
”एतच्च तत्तद्विशेषविहितशान्तिविषयम् ।अन्यथा वेलामण्डलसन्देहे शान्तिर्न स्यात्
*
अतएवोक्तं योगियाज्ञवल्क्येन ।“यत्र यत्र संकीर्णमात्मानं मन्यते द्विजः ।तत्र तत्र तिलैर्होमो गायत्त्र्या समुदाहृतः
गायत्त्र्या प्रयतः शुद्धः सर्व्वपापैः प्रमुच्यते ।शान्तिकामश्च जुहुयात् गायत्त्रीमक्षतैःशुचिः
हन्तुकामश्च नृपतेर्घृतेन जुहुयात् शुचिः ।सावित्र्या शान्तिहोमांश्च कुर्य्यात् पर्व्वसुनित्यशः
प्रणवव्याहृतिभ्याञ्च स्वाहान्तो होमकर्म्मणि ।प्रतिलोमा प्रयोक्तव्या फट्कारान्ताभिचारिके
मार्कण्डेयपुराणम् ।“दिग्देशजनसामान्यं नृपसामान्यमात्मनि ।नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम् ।परस्पराभिरक्षा ग्रहदोषेषु जायते
”तथा ।“तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ।लोकवादांश्च शान्तीश्च ग्रहपोडासु कारयेत्
भूदोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् ।कुर्य्यात् होमं तथा दानं श्राद्धं क्रोधविवर्ज्ज-नम्
अद्रोहं सर्व्वभूतेषु मैत्रीं कुर्व्वन्ति पण्डिताः ।वर्ज्जयेदुषतीं वाचमतिवादांस्तथैव
ग्रहपूजाञ्च कुर्व्वीत सर्व्वपीडासु मानवः ।एवं शाम्यन्त्यशेषाणि घोराणि द्बिजसत्तम ।प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यनेकशः
*
लोकवादाश्च तत्रैवोक्ता यथा, --“आकाशाद्देवतानाञ्च देव्यादीनाञ्च सौहृदात् ।पृथिव्यां प्रतिलोके लोकवादा इति स्मृताः
”ते सर्व्वभूतडाकिन्याद्यभिभवशान्त्यर्थं लौकि-कौषधमन्त्रादयः विषहरीमङ्गलचण्डिका-गीतादयः चैत्यवृक्षादौ क्षेत्रपालकुलदेवता-पूजा
*
तथा चापस्तम्बः स्त्रीभ्योऽवर-वर्णेभ्यो धर्म्मशेषान् प्रतीयादित्येक इति धर्म्म-शेषात् श्रुतिस्मृतिसदाचारेष्वप्रसिद्धान् इतिनारायणोपाध्यायाः
भूदोहश्च पात्रं विनाभूमौ गोस्तनं निष्पीड्य दुग्धोत्सर्गः चैत्यःपूज्यत्वेन ख्यातो ग्रामप्रधानवृक्षः तथा चबाणोत्पाते हरिवंशः ।“अनेकशाखश्चैत्यश्च निपपात महीतले ।अर्च्चितः सर्व्वकन्याभिर्दानवानां महात्मनाम्
”उषतीं अकल्याणीम् अतिवादश्च पूज्यमति-क्रम्य भाषणम्
*
मत्स्यपुराणम् ।“काकस्यैकरवश्रावः प्रभाते दुःखदायकः ।काको मैथुनकासक्तः श्वेतो वा यदि दृश्यते
उलूको वसते यत्र निपतेत् वा तथा गृहे ।ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव
*
वराहसंहितायाम् ।“क्रीडानुरक्तो रतिमांसलुब्धोभीतो रुजार्त्तः पतितो विहङ्गः ।नासौ गृहस्थस्य विनाशहेतु-र्दोषः समुत्पाद्यत आहुरार्य्याः
गृहे पक्षिविकारेषु कुर्य्याच्चामरतर्पणम् ।देवाः कपोता इति वा जप्तव्यं सप्तभिर्द्विजैः
गावश्च देया विविधा द्बिजानांसकाञ्चना वस्त्रयुगोत्तरीयाः ।एवं कृते पापमुपैति शान्तिंमृगैर्द्विजैर्वापि निवेदितं तत्
”द्विजैः पक्षिभिः अपिना अन्यैरपि
*
भुजबलभीमे ।“एको वृषस्त्रयो गावः सप्ताश्वा नव दन्तिनः ।सिंहप्रसूतिकाश्चैव कथिताः स्वामिघातिकाः
”सिंहप्रसूतिका गावः
*
मत्स्यपुराणे ।“अङ्गे दक्षिणभागे तु शस्तं विस्फुरणं भवेत् ।अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य
लाञ्छनं पिटकञ्चैव ज्ञेयं विस्फुर्ज्जितं तथा ।विपर्य्ययेण विहितं सर्व्वं स्त्रीणां फलं तथा
”“अनिष्टचिह्नोपगमे द्बिजानां कार्य्यं सुवर्णेन चतर्पणं स्यात् ।” शङ्खः दुःस्वप्नानिष्टदर्शनादौ घृतंहिरण्यञ्च दद्यादिति
*
मात्स्ये ।“नमस्ते सर्व्वलोकेश नमस्ते भृगुनन्दन ।कवे सर्व्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तु तेएवं शुक्रोदये कुर्व्वन् यात्रादिषु भारत ।सर्व्वान् कामानवाप्नोति विष्णुलोके महीयतेनमस्तेऽङ्गिरसां नाथ वाक्पतेऽथ बृहस्पते ।क्रूरग्रहैः पीडितानाममृताय नमो नमः
संक्रान्तावपि कौन्तेय यात्रास्वभ्युदयेषु ।कुर्व्वन् बृहस्पतेः पूजां सर्व्वान् कामान् सम-श्नुते
*
वैष्णवामृते व्यासः ।“ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति नराद्विज ।महाशान्तिकरः श्रीमान् तुलस्या पूजितो हरिःउत्पादान् दारुणान् पुंसां दुर्निमित्ताननेकशः ।तुलस्या पूजितो भक्त्या महाशान्तिकरोहरिः
”अत्र ब्रह्मपुराणीयो मन्त्रः ।“नमस्ते बहुरूपाय विष्णवे परमात्मनेस्वाहेति
*
”छन्दोगपरिशिष्टम् अथातो रजस्वलाभिगमनेगोऽश्वभार्य्यासु गमने यमजजनने विजातीय-जनने वा काककङ्कगृध्रवकश्येनभासचिल्लकपोता-नां गृहप्रवेशे मानुषस्योपरिविश्रामणे एषा-मेव क्रियमाणे गृहद्वारारोहणे अन्येषु चाद्-भुतेषु कल्पदृष्टेन विधिनाग्निमुपसमाधाय प्राय-श्चित्ताज्याहुतीर्ज्जुहोति अद्भुताय अग्नये स्वाहासोमाय विष्णवे रुद्राय वांयवे सूर्य्याय मृत्यवेविश्वेभ्यो देवेभ्यः स्वाहेति स्थालीपाकावृतान्य-दिति
*
कपोतं विशेषयति शौनकः ।“रक्तपादः कपोताख्यो अरण्यौकाः शुकच्छविः ।स चेच्छालां विशेच्छालासमीपञ्च व्रजेद्यदि ।अन्येषु गृहमध्ये वा वल्मीकस्योद्गमादिषु
”कल्पदृष्टेन विधिना गृह्योक्तेन प्रायश्चित्ताज्या-हुतीः अद्भुतदोषप्रशमनार्थाः सप्ताज्याहुतीःअद्भुतायाग्नये स्वाहा इत्यादिमन्त्रैः तत्स्थाली-पाकेति कर्त्तव्यतया पायसचरुभिरेतेभ्यो देवेभ्योजुहुयात् छन्दोगपरिशिष्टम् पश्चात् घृत-पायसेन ब्राह्मणान् भोजयित्वा गोवरं दत्त्वाशान्तिर्भवतीति गोवरं गोश्रेष्ठम् दक्षिणांतां गां कृत्वा दोषशान्तिर्भवतीति तथाचोक्तम् ।“गोर्विशिष्टतमा लोके वेदेष्वपि निगद्यते ।न ततोऽन्यद्वरं यस्मात् तस्माद्गौर्वरमुच्यते
”छन्दोगपरिशिष्टम् यस्त्वेषामन्यतममापन्नः प्राय-श्चित्तं कुर्य्यात्तस्य गृहपतेर्मरणं सर्व्वस्वनाशोवा भवति तस्मात् प्रायश्चित्तं कर्त्तव्यं कर्म्माप-वर्गे वामदेव्यगानं शान्तिः शान्तिरिति अप-वर्गे समाप्तौ वामदेव्यगानं शान्तिः कार्य्या ।आवृत्तिः प्रकरणसमाप्त्यर्था बार्हस्पत्ये ।“शमयन्त्यासप्ताहात् कम्पादिकृतं निमित्त-माश्वेव ।अतिवर्षणोपवासव्रतदीक्षाजप्यहवनानि
*
”वराहः ।“ये दोषं जनयन्त्युत्पातान् तानृतुस्वभाव-कृतान् ।ऋषिपुत्त्रकृतैः श्लोकैर्विद्यादेभिः समासोक्तैः
”तथा मत्स्यपुराणम् ।“वज्राशनिमहीकम्पसन्ध्यानिर्घातनिस्वनाः ।परिवेशरजोधूमरक्तार्कास्तमयोदयाः
द्रुमेभ्योऽथ रसस्नेहमधुपुष्पफलोद्गमाः ।गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे
*
तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् ।अनग्निज्वंलनं स्फोटं धूमरेणुनिराकुलम्
रक्तपद्मारुणा सन्ध्या नभः क्षुब्धार्णवोपमम् ।सरिताञ्चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत्
*
शक्रायुधपरीवेशौ विद्युच्छुष्कविरोहणम् ।कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः
नद्युदपानसरसां वृष्ट्यृद्ध्या भवनप्लवाः ।पतनञ्चाद्रिगेहानां वर्षासु भयावहम्
”हरिवंशे वर्षावर्णनायाम् ।“क्वचित् कन्दरहासाढ्यं शिलीन्ध्राभरणंक्वचित् ।”इति दर्शनात् वर्षासु शिलीन्ध्रोद्गमो भयावहः
“दिव्यस्त्रीभूतगन्धर्व्वविमानाद्भुतदर्शनम् ।ग्रहनक्षत्रताराणां दर्शनञ्च दिवाम्बरे
गीतवादित्रनिर्घोषो वनपर्व्वतसानुषु ।शस्यवृद्धी रसोत्पत्तिरपापाः शरदि स्मृताः
*
शीतानिलतुषारत्वं नर्द्दनं मृगपक्षिणाम् ।रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी
दिशो धूमान्धकाराश्च शलभा वनपर्व्वताः ।उच्चैः सूर्य्योदयास्तत्वं हेमन्ते शोभना मताः
*
हिमपातानिलोत्पपातविरूपाद्भुतदर्शनम् ।दृष्ट्वाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम्
चित्रा गर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिणाम् ।पत्राङ्कुरलतानाञ्च विकाराः शिशिरे शुभाः
*ऋतुस्वभावजा ह्येते दृष्टाः स्वर्त्तौ शुभावहाः ।ऋतावन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः
*उन्मत्तानाञ्च या गाथा शिशूनां चेष्टितञ्च यत् ।स्त्रियो यच्च प्रभाषन्ते तत्र नास्ति व्यतिक्रमः
पूर्व्वञ्चरति देवेषु पश्चाद्गच्छति मानुषान् ।नादेशिता वाग्वदति सत्या ह्येषा सरस्वती
”बृहस्पतिः ।“ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तु ये नृणाम् ।श्रावयन्त्यर्थलोभेन विनेयास्तेऽपि यत्नतः
”विनेया दण्डनीयाः इति ज्योतिस्तत्त्वम्
*
भौमदिव्यान्तरीक्षोत्पातशान्तिर्मात्स्ये २०२अध्यायावधि २१२ अध्यायपर्य्यन्तं द्रष्टव्या ।तथा देवीपुराणे महाभ्युदयपादे सर्व्वदैवकी-सर्व्वोत्पातशान्तिसमाप्ताध्याये चण्डीशब्दे चद्रष्टव्या तन्त्रोक्ता शान्तिः षट्कर्म्मशब्देद्रष्टव्या
*
अथ शान्तिकपौष्टिककर्म्मदिनम् ।तत्र वारा रविसोमबुधबृहस्पतिशुक्राणां तत्रनक्षत्राणि उत्तराषाढा उत्तरफल्गुणी उत्तर-भाद्रपत् रोहिणी चित्रा अनुराधा मृगशिरःरेवती पुष्या अश्विनी हस्ता तत्र चन्द्रःशोभनः लग्नं शोभनम् इति ज्योतिषतत्त्वम्
शान्तिः,
पुं,
वृत्तार्हद्विशेषः जिनचक्रवर्त्तिविशेषः ।इति हेमचन्द्रः
दशमन्वन्तरीयेन्द्रः यथा, --“धर्म्मपुत्त्रस्य पुत्त्रांस्तु दशमस्य मनोः शृणु ।सुक्षेत्रश्चोत्तमौजाश्च भूमिश्रेण्यश्च वीर्य्यवान्
शतानीको निरमित्रो वृषसेनो जयद्रथः ।भूरिद्युम्नः सुवर्च्चाश्च शान्तिरिन्द्रः प्रतापवान्
आपो मूर्त्तिर्हविष्मांश्च स्वकृतिश्चाव्ययस्तथा ।नाभागोऽप्रतिमश्चैव सौरभा ऋषयस्तथा
प्राणाख्याः शतसंख्याश्च देवतानां गणास्तथा ।वालिशत्रुस्तं हरिश्च गदया धातयिष्यति
”इति गारुडे ८७ अध्यायः