| YouTube Channel

शान्तः (zAntaH)

 
Hindi
Hindi
शांतिपूर्ण
Wordnet
Sanskrit
Synonyms:
शान्तिः, शान्तः, स्थिरता, स्थैर्यम्, एकोतिभावः, क्षेमः, निर्व्याकुलता, प्रशमः, प्रशान्तिः, प्रशामः, शमः, शमथः
noun
युद्धोपद्रवादिविरहितावस्था।
"युद्धस्य पश्चात् देशे शान्तिः अस्ति।"
Synonyms:
शान्तः
noun
मनोः पुत्रविशेषः।
"शान्तस्य वर्णनं मनुस्मृतौ अस्ति।"
Synonyms:
तुष्टिः, तृप्तिः, परितुष्टिः, हार्दिः, तोषः, अलोभः, शान्तः, सौहित्यम्, तर्पणम्
noun
कस्यापि विषयस्य सन्तोषस्य भावः।
"मम कार्येण भवते तुष्टिः जाता वा वा।"
शब्दकल्पद्रुमः
Sanskrit
शान्तः, त्रि, (शम + क्तः “वा दान्तशान्तेति ।”७ २७ इति निपातितः ।) उपशमंप्रापितः प्राप्तोपशमः इति भरतः
तत्-पर्य्यायः शमितः इत्यमरः
श्रान्तः ३जितेन्द्रियः इति हेमचन्द्रः
शमान्वितः ।इति मेदिनी
शान्तः,
पुं,
अभियुक्तः रसभेदः इति मेदिनी
शान्तरसस्य लक्षणादि यथा, --“शान्तः शमः स्थायिभाव उत्तमप्रकृतिर्मतः ।कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः
अनित्यत्वादिनाशेषवस्तुनिःसारता तु या ।परमाथस्वरूपं वा तस्यालम्बनमिष्यते
पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ।महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः
रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ।निर्व्वेदहर्षस्मरणमतिभूतदयादयः
”यथा, --“रथ्यान्तश्चरतस्तथा धृतजरत्कन्था नवस्या-ध्वगैःसत्रासञ्च सकौतुकञ्च सदयं दृष्टस्य तैर्नागरैः ।निर्व्वीजीकृतचित्सुधारसमुदा निद्रायमाणस्यमेनिःशङ्कं करटः कदा करपुटी भिक्षां विलुण्ठि-ष्यति
”पुष्ठिस्तु महाभारतादौ द्रष्टव्या ।“निरहङ्काररूपत्वात् दयावीरादिरेष नो ।”दयावीरादौ हि जीमूतवाहनादौ अन्तरामलयवत्याद्यनुरागादेरन्ते विद्याधरचक्रवर्त्ति-त्वाद्याप्तेर्दर्शनादहङ्कारोपशमो दृश्यते ।शान्तस्तु सर्व्वप्रकारेणाहङ्कारप्रशमैकरूपत्वान्नतत्रान्तर्भावमर्हति अतश्च नागानन्दे शान्त-रसप्रधानत्वमपास्तम् ननु ।“न यत्र दुःखं सुखं चिन्तान द्वेषरागौ काचिदिच्छा ।रसः शान्तः कथितो मुनीन्द्रैःसर्व्वेषु भावेषु समप्रभाणः
”इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्म-स्वरूपापत्तिलक्षणायां प्रादुर्भावात् तत्रसञ्चार्य्यादीनामभावात् कथं रसत्वमित्युच्यतेयुक्तवियुक्तदशायामवस्थितो यः शमः एवयतः रसतामेति तदस्मिन् सञ्चार्य्यादेः स्थितिश्चन विरुद्धा यश्चास्मिन् सुखाभावोऽप्युक्तस्तस्यवैषयिकसुखपरत्वान्न विरोधः उक्तं हि ।“यच्च कामसुखं लोके यच्च दिव्यं महासुखम् ।तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्
सर्व्वाकारमहङ्काररहितत्वं व्रजन्ति चेत् ।अत्रान्तर्भावमर्हन्ति दयावीरादयस्तदा
”आदिशब्दात् धर्म्मवीरदानवीरदेवताविषय-रतिप्रभृतयः तत्र देवताविषया रतिर्यथा, --“कदा वाराणस्यामिह सुरधुनीरोधसि वसन्वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयनप्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्
”इति साहित्यदर्पणे परिच्छेदः