| YouTube Channel

शानचि (zAnaci)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तप ऐश्वर्ये”@} 2 ‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत्।
अैश्वर्ये वा दिवादित्वात् तप्यते तपतीति च।।’ 3 इति देवः।
अयं धातुः ऐश्वर्येऽर्थे विकल्पेन तङ्श्यनौ लभते।
तदभावे शब्विकरणः पस्स्मैपदी बोद्धव्यः।
केचित्तु ‘वा’ इति पदं ‘वृतु वरणे’ इत्यनन्तरं पठिष्यमाणस्य धातोः आद्यावयवमिच्छन्ति।
अत एव ‘ततो वावृत्यमाना सा रामशालां न्यविक्षत।’ 4 इति भट्टिप्रयोगः संगच्छते।
तन्मते ऐश्वर्येऽर्थे अस्माद् धातोः तङ्श्यनौ नित्यमेव भवतः।
‘पत’ इति, अस्यैव पाठान्तरं केचिदिच्छन्ति।
अत एव ‘द्युतद्यामा नियुतः पत्यमानः’ इति प्रयोगस्योपपत्तिर्भवति।
निरुक्तेऽपि ‘इरज्यति पत्यते क्षयति राजतीति चत्वार ऐश्वर्यकर्माणः’ इत्युक्तम्।
तापकः-पिका, तापकः-पिका, तितप्सकः, प्सिका, तातपकः-पिका
तप्ता-त्री, तापयिता-त्री, तितप्सिता-त्री, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतपतिवत् 5 बोध्यानि।
दिवादिषु आत्मनेपदमध्ये पाठात् शानचि संतप्यमानः 6, तप्स्यमानः, तितप्समानः, तितप्सिष्यमाणः
इत्यादीनि रूपाणि भवन्तीति विशेषः।
7
प्रासङ्गिक्यः
01
=>
(७०४)
02
=>
(४-दिवादिः-११५९। अक। अनि। आत्म।)
03
=>
(श्लो। १३१)
04
=>
[भ। का। ४-२८]
05
=>
(७०३)
06
=>
[[आ। ‘गूर्णेऽस्मिन् बहुजन्तुघूरिणि खले जूर्णैः शशंसे नृभिः शौरिः शूरकगर्वचूरणपरः सन्तप्यमानः सताम्।’ धा। का। २। ६०।]]
07
=>
[पृष्ठम्०६५१+ २८]
1 {@“तिपृ क्षरणार्थः”@} 2 3 ‘क्षीरस्वामी तु, अयं 4 सेट् इति बभ्राम।’ इति सिद्धान्तकौमुदी।
यतस्तत्र 5 क्त्वायाम्--‘किति विशेषः--तिपित्वा, तेपित्वा’ इत्युक्तम्।]] तेपकः-पिका, तेपकः-पिका, तितिप्सकः-सिका, तेतिपकः-पिका
तेप्ता-त्री, तेपयिता-त्री, तितिप्सिता-त्री, तेतिपिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षिपधातुवत् 6 ज्ञेयानि।
अस्य धातोरात्मनेपदित्वात् शानचि -- तेपमानः, तेप्स्यमानः, तितिप्स्समानः, तितिप्सिष्यमाणः
इत्यादीनि रूपाणि भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(७२१)
02
=>
(१-भ्वादिः-३६२। अक। अनि। आत्म।)
03
=>
[[[अ]
04
=>
(धातुः)
05
=>
(क्षीरतरङ्गिण्यां)
06
=>
(३०६)