| YouTube Channel

शाता-त्री (zAtA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शौ पाके”@} 2 पाकः = विक्लित्तिः।
धातुममुं क्षीरस्वामि-मैत्रेय-लीलाशुक-शाकटायन-का- शकृत्स्न-कातन्त्र-हेमचन्द्रादयः पठन्ति।
अत्र ‘स्रै’ इति क्षीरतरङ्गिण्यां दृश्यते।
3 शायकः-यिका, शापकः-पिका, शिशासकः-सिका, शाशायकः-यिका
शाता-त्री, शापयिता-त्री, शिशासिता-त्री, शाशायिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककायतिवत् 4 ज्ञेयानि।
निष्ठायाम् शातम्-तः, क्तिनि-शातिः, क्त्वायाम्-शात्वा इति विशेषः।
‘शाच्छोरन्यतरस्याम्’ 5 इत्यत्र नास्य ग्रहणमिति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१७५४)
02
=>
(१-भ्वादिः-९१८। सक। अनि। पर।)
03
=>
[पृष्ठम्१३१७+ ३०]
04
=>
(२६३)
05
=>
(७-४-४१)
1 {@“शो तनूकरणे”@} 2 ‘-- तक्षणे’ इति हेमचन्द्रः।
‘--निशाने’ इति वोपदेवः।
अन्ये सर्वेऽपि ‘-- तनूकरणे’ इत्येव पठन्ति।
शायकः-यिका, 3 शायकः-यिका, शिंशासकः-सिका, शाशायकः-यिका
शाता-त्री, शाययिता-त्री, शिशासिता-त्री, शाशायिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकच्छेदनार्थकछ्यति 4 वत् ऊह्यानि।
शाययन्, निष्ठायाम् 5 निशितम् 6 -निशातम्- 7 तः, संशितो ब्राह्मणः, संशितव्रतः, निशा, क्तिनि-निशितिः-निशातिः, ल्यपि 8 -प्रशाय, क्त्वायाम्-शित्वा-शात्वा, 9 शिशुः, 10 शादः इत्यादीनि रूपाणि अस्य धातोः विशेषः।
शतरि-श्यन् 11 इति।
प्रासङ्गिक्यः
01
=>
(१७५५)
02
=>
(४-दिवादिः-११४५। सक। अनि। पर।)
03
=>
[[१। ‘शाच्छासह्वा--’ (७-३-३७) इत्यादिना णिजन्ते युगागमः। आदन्तलक्षणपुको- ऽपवादः।]]
04
=>
(५७७)
05
=>
[[२। ‘शाच्छोः--’ (७-४-४१) इति प्रकृतेरिकारः। एष व्यवस्थितविभाषया व्रतार्थे नित्यः। तनूकरणार्थे इति ‘मिथस्ते विभाष्यन्ते गवाक्षः संशितव्रतः।।’ (भाष्यम् ७-४-४१) इति वचनाज्ज्ञेयम्। ‘श्यतेरित्वं व्रते नित्यं’ (वा। ७-४-४१) इति चात्र ज्ञेयम्।]]
06
=>
[[आ। ‘आरक्षमग्रमवतत्य सृणिं शिताग्रमेकः पलायत जवेन कृतार्तनादः।’ शि। व। ५-५।]]
07
=>
[[B। ‘पुराणि दुर्गाणि निशातमायुथं बलानि शूराणि घनाश्च कञ्चुकाः।’ शि। व। १-४५।]]
08
=>
[[३। ‘अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते’ (परिभाषा-५५) इति न्यायेन ‘शाच्छोरन्यतरस्याम्’ (७-४-४१) इति इत्वं ल्यपि प्रवर्तते।]]
09
=>
[[४। औणादिके (द। उ। १-१०५) उप्रत्यये रूपमेवम्। श्यति मातुः स्तनं पीत्वेति शिशुः = बालः।]]
10
=>
[[५। ‘शाशपिभ्यां ददनौ’ (द। उ। ६-४८) इति दप्रत्यये रूपमेवम्। शादः = मृदुः।]]
11
=>
[[C। ‘… प्रीतिं श्यतोऽस्य करेण शिरोधिमच्छात्।’ धा। का। २-५९।]]