| YouTube Channel

शाणः (zANaH)

 
Wordnet
Sanskrit
Synonyms:
शाणः, शाणी, शानः, शाणाश्म, भ्रमः, झामरः, वागरः, सामकः
noun
अश्मविशेषः-यस्योपरि घर्षणं कृत्वा शस्त्रास्राणि तीक्ष्णीकरोति।
"रामः शाणे घर्षित्वा शस्त्रीं तीक्ष्णीकरोति।"
Synonyms:
निकषः, शाणः, शानः, कसः, आकषः, कषः, निकसः, हेमलः
noun
प्रस्तरभेदः येन स्वर्णादीनां गुणाः ज्ञायते
"स्वर्णकारः निकषेन सुवर्णपरीक्षा करोति"
Tamil
Tamil
சா’ண: : உரைகல், சாணைக்கல், ரம்பம்.
शब्दकल्पद्रुमः
Sanskrit
शाणः,
पुं,
(शण्यते ज्ञायते गुणादिरत्रेति ।शण + घञ् ।) कषपट्टिका कष्टिपातर इतिभाषा तत्पर्य्यायः निकषः कषः इत्य-मरः
शानः निकसः कसः इतिभरतः
आकषः इति शब्दरत्नावली
माषचतुष्टयम् चारि माषा इति भाषा ।तत्पर्य्यायः निष्कः टङ्कः इति वैद्यक-परिभाषा
यथा, --“माषैश्चतुर्भिः शाणः स्यात् वरणः निगद्यते ।टङ्कः एव कथितस्तद्द्बयं कोल उच्यते
”इति भावप्रकाशः
लौहादीनां निकषः शानपातर इति भाषा ।इति मेदिनी
करपत्रम् करात् इति भाषा ।इति विश्वः
कृदन्तरूपमाला
Sanskrit
1 {@“शण दाने”@} 2 घटादिः।
‘दाने च’ इति पठित्वा चकारात् गतौ इति मा।
धा।
वृत्तिः।
क्षीरतरङ्गिण्याम् अयं धातुः दृश्यते।
‘-- गतौ इत्येके इति मैत्रेयः’ इति धा।
का।
व्याख्यायाम् 3।
‘-- दाने इत्यपि दुर्गः’ इति क्षीरस्वामी।
4 शाणकः-णिका, शणकः-णिका, शिशणिषकः-षिका, शंशणकः-णिका
शणिता-त्री, शणयिता-त्री, शिशणिषिता-त्री, शंशणिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि ण्यन्तं विना भौवादिककणतिवत् 5 ज्ञेयानि।
ण्यन्ते तु 6 ऊह्यानि।
शतरि- 7 शणन्, 8 शणः, शाणः, शाणा, शाणिः-बुद्धिमान्, शाणी 9, शणिः-शनिः, शणुः-पत्रम्
इमानि रूपाणि विशेषेण भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६८०)
02
=>
(१-भ्वादिः-७९७। सक। सेट्। पर।)
03
=>
(२-९७)
04
=>
[पृष्ठम्१२८४+ २६]
05
=>
(१५७)
06
=>
(१५८ धातुवत्)
07
=>
[[आ। ‘चणन् विषादं विशणन् विचिन्तां श्रणन् विमोहं श्रथितोऽस्तु सद्यः।।’ धा। का। २-९।]]
08
=>
[[१। संज्ञायां घप्रत्ययः। शणः = रज्जुसाधनीभूत ओषधिविशेषः। घञि शाणः = घर्षणशिला।]]
09
=>
[[B। ‘वस्त्राणां प्रवरा शाणी…’ म। भारते ३-१२०-२७।]]