| YouTube Channel

शाडृ (zADR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शाड्
मूलधातुः:
शाडृ
धात्वर्थः:
श्लाघायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
शाडते
अनुबन्धादिविशेषः:
ऋदित्
धातुप्रदीपः
Sanskrit
शाडृँ शाडृ श्लाघायाम्
- शाडते शशाडे शाडः शालः रूपशाली शाडा शाला ।। 286 ।।
क्षीरतरङ्गिणी
Sanskrit
शाडृँ शाडृ श्लाघायाम्
- शाडते, शालते शाला शालिः गुणशाली शालूकमुत्पलादिकन्दः शलेर् (1328) वा शलिमण्डिभ्यामूकञ् (तु0 उ0 442) 283
धातुवृत्तिः
Sanskrit
शाडृँ शाडृ (अर्थः) श्लाघायाम्
शाडतइत्यादि लडयोरैक्यात् शालतइति काश्यपः अत एव मैत्रेये रूपशाली शालेत्युदाहृतं, "लस्य'' इत्यत्र भाष्यकैयटयोः शालेति श्यतेर्लप्रत्यये व्युत्पादनीयः ( शालीनः, अधृष्टः ) "शालीनकौपीने अधृष्टाकार्ययोः'' इति खञि निपातितः गवां शाला, ( गोशालं, गोशाला ) ( सूत्रम्) विभाषा सेनासुराच्छायाशालानिशानाम् (इति सूत्रम्) इति सेनाद्यन्तस्य तत्पुरुषस्य वा नपुंसकत्वं, गोशाले जातः गोशालः "तत्र जातः'' इत्यण्, "स्थानान्तगोशालखरशालाच्च'' इति लुक् लिङ्गविशिष्टपरिभाषया गोशालाशब्दादप्यणो लुग्भवति एवं खरशालः वत्सशालायां जातः, वत्सशालः वात्सशालो वा "वत्सशालाभिजिदश्वयुक्शतभिषजो वा'' इति अणो वा लुक् अट्टादय उदात्ता अनुदात्तेतः 286
कृदन्तरूपमाला
Sanskrit
1 {@“शाडृ श्लाघायाम्”@} 2 3 शाला, 4 रूपशाली, 5 शालिः, 6 शालूकम्।
सर्वाण्यपि रूपाणि भौवादिक- काशतिवत् 7 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७०१)
02
=>
(१-भ्वादिः-२८९। सक। सेट्। आत्म।)
03
=>
[[४। शालते (शाडते) इति शाला इति क्षीरस्वाम्यादिभिः उदाहृतम्। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययोऽत्रेति तेषामाशयः। भाष्यकैयटयोस्तु ‘लस्य’ (३-४-७७) इत्यत्र ‘शो तनूकरणे’ इत्यस्मात् औणादिके लन्प्रत्यये शाला- शब्दो निष्पन्न इति स्पष्टमेव प्रतिपादितम्। अतश्च ‘उपायस्य उपायान्तरादू- षकत्वम्’ इति न्यायेन साम्प्रतमस्माकमुभयमपि प्रमाणमेवेति बोध्यम्।]]
04
=>
[[५। डकारलकारयोरेकत्वस्मरणात् रूपेण शाडते = शालते, इत्यर्थे रूपशाली इति मैत्रेये- णात्रोदाहृतमिति माधवः। एवं काश्यपोऽपीति एवाह। अत्र णिनिप्रत्ययः।]]
05
=>
[[६। ‘इन्’ (द। उ। १-४६) इतीन्प्रत्यये रूपम्। शालिः = व्रीहिविशेषः। अत्रापि डल- योरेकत्वस्मरणात् लकारश्रवणम्।]]
06
=>
[[७। औणादिके (द। उ। ३-४७) ऊकण्प्रत्यये रूपम्। शालूकम् = उत्पलादीनां कन्दः। अत्रापि डलयोरेकत्वस्मरणात् लकारस्य श्रवणम्।]]
07
=>
(१८६)