| YouTube Channel

शाठयिता-त्री (zAThayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शठ शाठ्ये कैतवे च”@} 2 ‘कैतवे शठतीति स्यात् श्लाघायां शाठयेत णौ।’ 3 इति देवः।
‘शठ कैतवे च’ चकारात्--4 ‘हिंसासंक्लेशनयोः’ इत्युक्तावर्थौ गृह्येते।’ इति पुरुषकारः।
धातुवृत्तावपि एवमेव।
क्षीरस्वामिशाकटा- यनादयः पुनश्चकारं नैव पठन्ति।
काशकृत्स्नधातुपाठे तु ‘-- कैतवे -- द्यूते स्पर्धायां च’ इति दृश्यते।
‘-- हिंसायां कैतवे च’ इति चन्द्रः।
‘-- वधक्लेशकैतवे’ इति वोपदेवः।
शाठकः-ठिका, शाठकः-ठिका, शिशठिषकः-षिका, शाशठकः-ठिका
शठिता-त्री, शाठयिता-त्री, शिशठिषिता-त्री, शाशठिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककठतिवत् 5 ऊह्यानि।
शठः = नैकृतिकः।
प्रासङ्गिक्यः
01
=>
(१६७५)
02
=>
(तः१#}-भ्वादिः-३४०। अक। सेट्। पर।)
03
=>
(श्लो। ८२)
04
=>
(पूर्वधात्वर्थभूतौ)
05
=>
(१४८)
1 {@“शठ असंस्कारगत्योः”@} 2 ‘गत्यसंस्कारधात्वर्थे शाठयेच्छ्वाठयेदिति।।’ 3 इति देवः।
‘-- संस्कारगत्योः’ इति मैत्रेय-काशकृत्स्न-कातन्त्रादयः।
‘-- संस्कारगत्योः--अनृतभाषणे गतौ च’ इति काशकृत्स्नः।
‘-- आलस्ये च’ इति धा।
का।
व्याख्यायाम् 4 ‘-- आलस्ये गत्यसंस्कृतसंस्कृते’ इति वोपदेवः।
शाठकः-ठिका, शिशाठयिषकः-षिका
शाठयिता-त्री, शिशाठयिषिता-त्री
शाठयन्-न्ती, शिशाठयिषन्-न्ती, शाठयिष्यन्-न्ती-ती, शिशाठयिषिष्यन्-न्ती-ती
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककाणयतिवत् 5 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१६७६)
02
=>
(१०-चुरादिः-१५६४। सक। सेट्। उभ।)
03
=>
(श्लो। ८१)
04
=>
(३-१६)
05
=>
(१५९)
1 {@“शठ श्लाघायाम्”@} 2 आकुस्मीयः।
3 ‘… श्लाघायां शाठयेत णौ।’ 4 इति देवः।
‘शल--’ इति कौशिकः इति क्षीरतरङ्गिण्याम्।
शाठकः-ठिका, शिशाठयिषकः-षिका
शाठयिता-त्री, शिशाठयिषिता-त्री
इत्यादीनि रूपाणि सर्वाणि चौरादिककाणयतिवत् 5 ऊह्यानि।
यत्प्रत्यये 6 शाठ्यम्।
प्रासङ्गिक्यः
01
=>
(१६७७)
02
=>
(१०-चुरादिः-१६९२। सक। सेट्। आत्म।)
03
=>
[पृष्ठम्१२८३+ २५]
04
=>
(श्लो। ८२)
05
=>
(१५९)
06
=>
[[आ। ‘आकूणिताक्षमपि स्मिततूणितास्यं भ्रूणस्य शाठ्यजनयक्ष्यमवेक्ष्य गात्रम्।’ धा। का। ३-३५।]]