| YouTube Channel

शाखृ (zAkhR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शाख्
मूलधातुः:
शाखृ
धात्वर्थः:
व्याप्तौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
शाखति
अनुबन्धादिविशेषः:
ऋदित्
धातुप्रदीपः
Sanskrit
शाखृँ शाखृ
मानकरूपान्तरम् - श्लाखृँ
श्लाखृ व्याप्तौ
- शाखति अशशाखत् शाखा श्लाखति ।। 125-126 ।।
क्षीरतरङ्गिणी
Sanskrit
शाखृँ शाखृ
मानकरूपान्तरम् - श्लाखृँ
श्लाखृ व्याप्तौ
शाखति, अशशाखत् शाखा शाखोटो वृक्षः 126, 127
धातुवृत्तिः
Sanskrit
शाखृँ शाखृ
मानकरूपान्तरम् - श्लाखृँ
श्लाखृ (अर्थः) व्याप्तौ
( शाखति श्लाखतीत्यादि शाखा ) "गुरोश्च'' इत्यकारः शाखेव शाख्यम् "शाखादिभ्यो यः'' इति इवार्थे यः ( प्रतिशाखं भवं प्रातिशाख्यतम् "अव्ययीभावाच्च'' इति भवार्थे ण्यः शाखा अस्य सन्तीति, शाखी "व्रीह्यादिभ्यश्च'' इति इनिः विशिष्टा शाखा विशाखा सा प्रयोजनं प्रयोजिका यस्य वैशाखो मन्धः "विशाखाषाढादण्मन्थदण्डयोः'' इति प्रयोजने णप्रत्ययः विशाखेति नक्षत्रं तत्र जातः "सन्धिवेलाद्यृतुनक्षत्रेभ्योण्'' इत्यण् तस्य "श्रविष्ठाफल्गुनी''इत्यादिना लुकि "लुक् तद्धितलुकि'' इति स्त्रीप्रत्यस्य लुकि विशाखो माणवकः 124
कृदन्तरूपमाला
Sanskrit
1 {@“शाखृ व्याप्तौ”@} 2 3 शाखा, विशाखा।
सर्वाण्यपि रूपाणि भौवादिकद्राखति 4 वत् बोध्यानि।
5 शाखोटकः = वृक्षविशेषः।
प्रासङ्गिक्यः
01
=>
(१७००)
02
=>
(१-भ्वादिः-१२६। अक। सेट्। पर।)
03
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः। विशिष्टा शाखा विशाखा = नक्षत्रविशेषः। शाखाशब्दादेव शाखी, प्रतिशाखं भवं प्रातिशाख्यं इत्यादीनि तद्धितरूपाणि भवन्तीति बोध्यम्।]]
04
=>
(८७९)
05
=>
[[३। औणादिकप्रत्ययविशेषनिष्पन्नोऽयं शब्दः।]]