| YouTube Channel

शाखी (zAkhI)

 
Wordnet
Sanskrit
Synonyms:
वृक्षः, तरुः, द्रुमः, पादपः, द्रुः, महीरुहः, शाखी, विटपी, अमोकहः, कुटः, सालः, पलाशी, आगमः, अगच्छः, विष्टरः, महीरुट्, कुचिः, स्थिरः, कारस्करः, नगः, अगः, कुटारः, विटपः, कुजः, अद्रिः, शिखरी, कुठः, कुञ्जः, क्षितिरुहः, अङ्गघ्रिपः, भूरुहः, भूजः, महीजः, धरणीरुहः, क्षितिजः, शालः
noun
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
"वृक्षाणां रक्षणं कर्तव्यम्।"
Synonyms:
शाखी
noun
एकः राजा
"शाखिनः उल्लेखः कोषे अस्ति"
शब्दकल्पद्रुमः
Sanskrit
शाखी, [न्]
पुं,
(शाखास्त्यस्येति शाखा +इनिः ।) वृक्षः इत्यमरः
(यथा, --“सीताया हृदि यच्छिरीषकुसुमप्राये पफालो-च्चकैःपौलस्त्यस्य नितान्तकुण्ठकुलिशे वज्राधिकेवक्षसि ।आपुङ्खं निममज्ज मन्मथशरस्तन्नैव जानीमहेकः शाखी सखि ! यस्य पुष्पमभवत् पुष्पायुध-स्यायुधम्
”इत्युद्भटः
)वेदः तुरुष्काख्यजनः इति मेदिनी
राज-भेदः इति हेमचन्द्रः