| YouTube Channel

शाक्यमुनिः (zAkyamuniH)

 
शब्दकल्पद्रुमः
Sanskrit
शाक्यमुनिः,
पुं,
शाक्यवंशावतीर्णबुद्धमुनिविशेषः ।इत्यमरः
अस्य सप्त पर्य्याया गोतमशब्देद्रष्टव्याः पर्य्यायान्तरं यथा खजित् श्वेत-केतुः धर्म्मकेतुः महामुनिः पञ्च-ज्ञानः सर्व्वदर्शी महाबोधिः महाबलः ९बहुक्षमः १० त्रिमूर्त्तिः ११ सिद्धार्थः १२शकः १३ इति शब्दरत्नावली
शाक्यवंश-त्वात् शाक्यः शाक्यश्चासौ मुनिश्चेति शाक्य-मुनिः तथा हि शाको वृक्षविशेषः तत्र भवाविद्यमानाः शाक्याः पितुः शापेन केचिदिक्ष्वा-कुवंश्या गौतमवंशजकपिलमुनेराश्रमे शाक-वृक्षे कृतवासाश्च शाक्या उच्यन्ते तदुक्तम् ।“शाकवृक्षप्रतिच्छन्नं वासं यस्मात् प्रचक्रिरे ।तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इतिश्रुताः
”इत्यमरटीकायां भरतः