| YouTube Channel

शाकुनः (zAkunaH)

 
शब्दकल्पद्रुमः
Sanskrit
शाकुनः,
पुं,
(शकुनमधिकृत्य कृतो ग्रन्थः शकुन+ अण् ।) पशुपक्ष्यादिरूपशकुनद्वारा मनुष्य-शुभाशुभनिश्चायकग्रन्थः तस्येमौ श्लोकौ ।“शुभाशुभज्ञानविनिर्णयायहेतुर्नृणां यः शकुनः उक्तः ।गतिः स्वरालोकनभावचेष्टांसंकीर्त्तयामो द्बिपदादिकानाम्
लोकोऽमुना शाकुनसंज्ञकेनज्ञानेन विज्ञातसमस्तकार्य्यः ।नापायकूपे पतति प्रसर्पन्शास्त्रं हि दिव्या दृगतीन्द्रियेषु
”इति वसन्तराजशाकुने सर्गः
(शकुनस्यायमिति शकुन + “तस्येदम् ।” ।३ १२० इति अण् पक्षिसम्बन्धी यथा, मनुः २६८ ।“द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु ।औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै
”)