| YouTube Channel

शाकः (zAkaH)

 
Apte
English
शाकः [śākḥ] कम् [kam], कम् [शक्-घञ्] A vegetable, pot-herb, herb, any edible leaf, fruit or root used as a vegetable
दिल्लीश्वरो वा जगदीश्वरो वा मनोरथान् पूरयितुं समर्थः अन्यैर्नृपालैः परिदीयमानं शाकाय वा स्याल्लवणाय वा स्यात् Jag.
वेत्रशाककुजे शैले
Ki.*
15.18.
कः Power, strength, energy.
The teak tree.
The Śirīṣa tree
यस्मिन् शाको नाम महीरुहः
Bhāg.*
5.2.24.
N.
of a people
see शक.
An era
especially the era of Śālivāhana.
N.
of the sixth Dvīpa.
Comp.
-अङ्गम् pepper. -अम्लम् hogplum. ˚भेदनम् sorrel. -अष्टमी the 8th day of the dark half of फाल्गुन (on which vegetables are offered to पितृs). -आख्यः the teak tree. (-ख्यम्) a vegetable.-आहारः a vegetarian (living only on herbs
&c.
).-कलम्बकः leek, garlic. -चुक्रिका the tamarind. -तरुः the teak tree.
पणः a measure equal to a handful.
a handful of vegetables. -पत्रः the Śigru tree (Mar. शेवगा). -पात्रम् a vegetable dish. -पार्थिवः a king fond of an era
see मध्यमपदलोपिन् -प्रति
ind.
a little of herbs. -योग्यः coriander. -रसः edible vegetable juice. -राज्, -राजः Chenododium (Mar. चाकवत)
also शाकवीर. -विन्दकः see बिल्व. -वृक्षः the teak tree.-व्रतम् a vow of abstinence from vegetables. -शाकटम्, -शाकिनम् a field of vegetables, a kitchen-garden. -श्रेष्ठा the egg-plant (Mar. वांगें).
Apte 1890
English
शाकः
कं [शक्-घञ्] 1 A vegetable, pot-herb, herb, any edible leaf, fruit or root used as a vegetable
दिल्लीश्वरो वा जगदीश्वरो वा मनोरथान् पूरयितुं समर्थः अन्यैर्नृपालैः परिदीयमानं शाकाय वा स्याल्लवणाय वा स्यात् Jag.
कः {1} Power, strength, energy.
2 The teak tree.
3 The Śirīṣa tree.
4 N. of a people
see शक.
5 An era
especially the era of Sālivāhana.
6 N. of the sixth Dvīpa.
Comp.
अंगं pepper.
अम्लं hog-plum. °भेदनं sorrel.
आखयः the teak tree. (
खयं) a vegetable.
आहारः a vegetarian (living only on herbs &c.)
चुक्रिका the tamarind.
तरुः the teak tree.
पणः {1} a measure equal to a handful. {2} a handful of vegetables.
पत्रः the Śigru tree.
पार्थिवः a king fond of an era
see मध्यमपदलोपिन्.
प्रति ind. a little of herbs.
योग्यः coriander.
वृक्षः the teak tree.
शाकटं, शाकितं a field of vegetables, a kitchen-garden.
Wordnet
Sanskrit
Synonyms:
क्षुपः, उद्भिद्, ओषधिः, ओषधी, औषधी, औषधिः, उद्भिजम्, उद्भिदम्, पल्लवः, पल्लवम्, अङ्कुरः, प्ररोहः, रोहः, शाकः
noun
क्षुद्रवृक्षः।
"श्यामस्य उद्याने नैके क्षुपाः सन्ति।"
Synonyms:
ओषधिः, ओषधी, शाकः, तृणम्, हरितकम्, अर्भः, कन्दः
noun
क्षुपविशेषः दण्डहीनः क्षुपः।
"कुस्तुम्बरादयाः शाकाः।"
Synonyms:
ओषधिः, ओषधी, उद्भिदः, उद्भिजम्, उद्भिदम्, पल्लवः, पल्लवम्, अङ्कुरः, प्ररोह, रोहः, शाकः
noun
सः गतिहीनः सजीवः यः स्वस्य पोषणं सूर्यप्रकाशेन तथा भूम्यान्तर्गतरसेन करोति।
"वने विविधाः ओषधयः सन्ति।"
Synonyms:
अर्णः, शाकः, शाकाख्यः, करच्छदः, खरपत्रः, अर्जुनोपमः, अलीनः, महापत्रः
noun
वृक्षविशेषः यस्य दारुः अतीव दृढः वर्तते।
"एतद् अर्णस्य आसन्दम् अस्ति।"
वैजयन्तीकोषः
Sanskrit
Word: शाकः
Root: शाक
Gender: पुं
Number: all
अर्थः
Meaning(s):
Teak tree
Tectona grandis
Tamil Tēkku
Shloka(s):
3|3|76|1 पिचुले झावुकः शाके पृथुच्छदहलीमकौ। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|76|1 शाकः (शाक) (पुं) Teak tree
Tectona grandis
Tamil Tēkku
3|3|76|1 पृथुच्छदः (पृथुच्छद) (पुं) Teak tree
Tectona grandis
Tamil Tēkku
3|3|76|1 हलीमकः (हलीमक) (पुं) Teak tree
Tectona grandis
Tamil Tēkku
Related word(s):
Tamil
Tamil
சா’க: : சா’கம் = காய்கறி, கிழங்கு.
शब्दकल्पद्रुमः
Sanskrit
शाकः,
पुं,
वृक्षविशेषः सेगोन् इति भाषा ।तत्पर्य्यायः शाकवृक्षः शाकाख्यः खर-पत्रः अर्जुनोपमः इति रत्नमाला
क्रकचपत्रः शरपत्रः अतिपत्रः अही-रुहः श्रेष्ठकाष्ठः १० स्थिरसारः ११ गृह-द्रुमः १२ अस्य गुणाः सारकत्वम् पित्त-दाहश्रमापहत्वञ्च अस्य वल्कलगुणाः कफ-नाशित्वम् मधुरत्वम् रूक्षत्वम् कषाय-त्वञ्च इति राजनिर्घण्टः
*
शक्तिः इतिमेदिनी
शिरीषवृक्षः इति शब्दरत्नावली
नृपभेदः इति विश्वः
द्बीपविशेषः तस्यविवरणं यथा, --सूत उवाच ।“शाकद्बीपस्य वक्ष्यामि यथावदिह निश्चयम् ।कथ्यमानं निबोधध्वं शाकद्बीपं द्विजोत्तमाः
जम्बुद्वीपस्य विस्तराद्द्विगुणस्तस्य विस्तरः ।विस्ताराद्द्विगुणश्चापि परिणाहः समन्ततः
तेनावृतः समुद्रोऽयं द्वीपेन लवणोदधिः ।तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः
कुत एव दुर्भिक्षं क्षमातेजोयुतेष्विह ।तत्रापि पर्व्वताः शुभ्राः सप्तैव मणिभूषिताः
शाकद्वीपादिद्वीपेषु सप्त सप्त नगास्त्रिषु ।ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्व्वताः
रत्नाकराद्रिनामानः शोभावन्तो महाचिताः ।समाचिताः प्रतिदिशं द्वीपविस्तरमानतः
उभयत्रावगाढाश्च लवणक्षीरसागरौ ।शाकद्वीपे तु वक्ष्यामि सप्त दिव्यान् महाचलान्
देवर्षिगन्धर्व्वयुतः प्रथमो मेरुरुच्यते ।प्रागायतः सौवर्ण उदयो नाम पर्व्वतः
तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्ति यान्ति ।तस्यापरेण सुमहान् जलधारो महागिरिः
सैव चन्द्रः समाख्यातः सर्व्वौषधिसमन्वितः ।तस्मान्नित्यमुपादत्ते वासवः परमं जलम्
नारदो नाम सैवोक्तो दुर्गशैलो महाचितः ।तत्राचले समुत्पन्नौ पूर्व्वं नारदपर्व्वतौ
तस्यापरेण सुमहान् श्यामो नाम महागिरिःयत्र श्यामत्वमापन्नाः प्रजाः पूर्व्वमिमाः किल
एव दुन्दुभिर्नाम श्यामः पर्व्वतसत्तमः ।शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः
वज्रज्वालान्तरमयः शाल्मलश्चान्तरालकृत् ।तस्यापरेण रजतो महानम्भो गिरिः स्मृतः
सैव सोमक इत्युक्तो देवैर्यत्रामृतं पुरा ।सम्भृतञ्च हृतञ्चैव मातुरर्थे गरुत्मता
तस्यापरे चाम्बिकेयः सुमनाश्चैव स्मृतः ।हिरण्याक्षो वराहेण तस्मिन् शैले निसूदितः
आम्बिकेयात् परो रम्यः सर्व्वौषधिसमन्वितः ।विभ्राजस्तु समाख्यातः स्फाटिकः महा-गिरिः
यस्माद्विभाजते नित्यं विभ्राजस्तन स्मृतः ।सैवेह केशवेत्युक्तो यतो वायुः प्रवायति
तेषां वर्षाणि वक्ष्यामि पर्व्वतानां द्बिजोत्तमाः ।शृणुध्वं नामतस्तानि यथावदनुपूर्व्वशः
द्विनामान्येव वर्षाणि यथैव गिरयस्तथा ।उदयस्योदयं वर्षं जलघारेति विश्रुतम्
नाम्ना सान्तभयन्नाम वर्षं तत् प्रथमं स्मृतम्
द्बितीये जलधारस्य सुकुमारमिति स्मृतम् ।तदेव शैशिरं नाम वर्षं संपरिकीर्त्तितम्
रैवतस्य तु कौमारं तथैव सुखोदयम् ।श्यामपर्व्वतवर्षन्तु मणीचकमिति स्मृतम्
आनन्दकमिति प्रोक्तं तदेव मुनिभिः शुभम् ।सोमकस्य शुभं वर्षं विज्ञेयं कुसुमोत्तरम्
तदेव शिवमित्युक्तं वर्षं सोमकसंज्ञितम् ।आम्बिकेयस्य मेदाकिं क्षेमकञ्चैव तत् स्मृतम्
सेतुपर्व्वतकस्यापि महाद्रुममिति स्मृतम् ।तदेव ध्रुवमित्युक्तं वर्षं बिभ्राजसंज्ञितम्
द्वीपस्य परिणाहञ्च ह्रस्वदीर्घत्वमेव ।जम्वुद्वीपेन संख्यातस्तस्य मध्ये वनस्पतिः
शाको नाम महावृक्षस्तस्य प्रजा महानुगाः ।एतेषु देवगन्धर्व्वाः सिद्धाश्च सह चारणैः
विहरन्ति रमन्ते दृश्यमानाश्च तैः सह ।तत्र पुण्या जनपदाश्चातुर्व्वर्ण्यसमन्विताः
तेषु नद्यस्तु वै सप्त प्रतिवर्षे समुद्रगाः ।द्बिनाम्नश्चैव ताः सर्व्वा गङ्गाः सप्तविधाः स्मृताः
प्रथमा सुकुमारीति गङ्गा शिवजला शुभा ।अनुतप्ता नाम्नैषा नदी संपरिकीर्त्तिता
सुकुमारी तपःसिद्धा द्वितीया नामतः सती ।नन्दा पावनी चैव तृतीया परिकीर्त्तिता
शिवलोका चतुर्थी स्यात् त्रिविधा पुनःस्मृता ।इक्षुश्च पञ्चमी ज्ञेया तथैव पुनः कसू
धेनुका मृता चैव षष्ठी संपरिकीर्त्तिता ।सुकृता गभस्ती सप्तमी परिकीर्त्तिता
एताः सप्त महाभागा प्रतिवर्षं शिवोदकाः ।पावयन्ति जनं सर्व्वं शाकद्वीपनिवासिनम्
अभिगच्छन्ति ताश्चान्या नदीर्नद्यः सरांसि ।बहूदकपरिस्रावा यतो वर्षति वासवः
आसान्तु नामधेयानि परिमाणं तथैव ।न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः
ताः पिबन्ति महाहृष्टा नदीर्जनपदास्तु ते ।ये ते शान्ततया प्रोक्ताः प्रमोदाश्चेति वैशिवाः
आनन्दाश्रुमुखाश्चैव क्षेमकैश्च ध्रुवैः सह ।बर्णाश्रमाचारयुक्ता देशास्ते सप्त विश्रुताः
अरोगा बलिनश्चैव सर्व्वे मरणवर्ज्जिताः ।अवसर्पिणी तेष्वस्ति तथैवोत्सर्पिणी पुनः
तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् ।त्रेतायुगसमः कालस्तथा तत्र प्रवर्त्तते
शाकद्बीपादिषु ज्ञेयं पञ्चस्वेतेषु सर्व्वशः ।देशस्य तु विचारेण कालः खाभाविकः स्मृतः
तेषु शङ्करः कश्चिद्बर्णाश्रमकृतः क्वचित् ।धर्म्मस्याव्यभिचारेण एकान्तसुखिताः प्रजाः
तेषु माया लोभो वा ईर्ष्यासूया भयं तथा ।विपर्य्ययो तेष्वस्ति तद्वै स्वाभाविकं स्मृतम्
कालो चव तेष्वस्ति दण्डो दाण्डिकः ।स्वधर्म्मेण धर्म्मज्ञास्ते रक्षन्ति परस्परम्
”इति मात्स्ये १०२ अध्यायः
*
अपि एवं परस्तात् क्षीरोदात् परितउपवेशितः शाकद्वोपो द्वात्रिंशल्लक्षयोजनायामःसमानेन दधिमण्डोदेन परीतः यस्मिन् हिशाको नाम महीरुहः स्वक्षेत्रव्यपदेशकः ।यस्य हि महासुरभिगन्धस्तद्बीपमनुवायति ।तस्यापि प्रैयव्रत एवाधिपतिनाम्ना मेधातिथिः ।सोऽपि विभज्य सप्त वर्षाणि पुत्त्रनामानि तेषुस्वात्मजान् पुरोजवमनोजववेपमानधूम्रानीक-चित्ररेफबहुरूपविश्वाधारसंज्ञान् निधाप्याधि-पतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनंप्रविवेश एतेषां वर्षमर्य्यादागिरयो नद्यश्चसप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शत-केशरः सहस्रस्रोता देवपालो महानस इति ।अनघा आयूर्दा उभयस्पृष्टिरपराजिता पञ्चपदीसहस्रश्रुतिर्निजधृतिरिति तद्वर्षपुरुषा ऋत-व्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वा-त्मकं प्राणायामविधूतरजस्तमसः परमसमा-धिना यजन्ते इति श्रीभागवते स्कन्धे २०अध्यायः
*
युधिष्ठिरविक्रमादित्यशालि-वाहनादिशकनरपतीनामतीताब्दः तस्यप्रमाणं दिनपञ्जिकायां द्रष्टव्यम्
(शक्तिः ।कर्म्म यथा, ऋग्वेदे २४ ।“शचीवतस्ते पुरुशाक शाकागवामिव श्रुतयः सञ्चरणीः
”“हे पुरुशाक बहुकर्म्मन्निन्द्र शचीवतः प्रज्ञा-वतस्ते त्वदीयाः शाकाः शक्तयः कर्म्माणि वा ।”इति तद्भाष्ये सायणः
*
समर्थे, त्रि यथा, ऋग्वेदे ३० १० ।“सन्ता इन्द्रो असृजदस्य शाकै-र्यदीं सोमासः सुषुता अमन्दन्
”“शाकैः शक्तैर्म्मरुद्भिः सह ।” इति तद्भाष्येसायणः
)