| YouTube Channel

शाकं (zAkaM)

 
शब्दकल्पद्रुमः
Sanskrit
शाकं,
क्ली,
पुं,
(शक्यते भोक्तुमिति शक + घञ् ।)पत्रपुष्पादि साग इति हिन्दीभाषा तत्-पर्य्यायः हरितकम् शिग्रुः इत्यमरः
सिग्रुः इति तट्टीका
हारितकम् इतिशब्दरत्नावली
अथ शाकवर्गः तत्र शाक-निरूपणम् ।“पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा ।शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम्
”अथ शाकानां गुणाः ।“प्रायः शाकानि सर्व्वाणि विष्टम्भीनि गुरूणि ।रूक्षाणि बहुवर्च्चांसि सृष्टविण्मारुतानि
शाकं भिनत्ति वपुरस्थि निहन्ति नेत्रंवर्णं विनाशयति रक्तमथापि शुक्रम् ।प्रज्ञाक्षयञ्च कुरुते पलितञ्च नूनंहन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः
शाकेषु सर्व्वे निवसन्ति रोगाःसहेतवो देहविनाशनाय ।तस्माद्बुधः शाकविवर्जनञ्चकुर्य्यात्तथाम्लेषु एव दोषः
”इति भावप्रकाशः
अपि ।“सर्व्वशाकमचाक्षुष्यमलङ्घेयममैथुनम् ।ऋते पटोलवास्तूककाकमाचीपुनर्नवाः
”इति राजवल्लभः