| YouTube Channel

शस्त्रहतचतुर्द्दशी (zastrahatacaturddazI)

 
शब्दकल्पद्रुमः
Sanskrit
शस्त्रहतचतुर्द्दशी,
स्त्री,
(शस्त्रहतानां चतुर्द्दशी ।युद्धादिहतानां श्राद्धादिकर्म्मणि प्रशस्ततया-स्यास्तथात्वम् ।) गौणाश्विनकृष्णचतुर्द्दशी ।गौणकार्त्तिककृष्णचतुर्द्दशी यथा, लिङ्ग-पुराणम् ।“दीपमालां तथा कृष्णचतुर्द्दश्यां शिवाग्रतः ।चतुष्पथे नद्याञ्च चत्वरेषु गृहेषु ।एकविंशकुलोपेतो वसेच्छिवपुरे नरः
”अत्र शस्त्रहतानामुल्कादानं अन्येषान्तु दर्शे ।इति संवत्सरकौमुदी
*
अन्यच्च अथशस्त्रहतचतुर्द्दशी तत्र विष्णुः युद्धहतानांश्राद्धकर्म्मणि चतुर्द्दशी प्रशस्ता युद्धहताना-मेवेति नियमार्थमिदम् ब्रह्मपुराणे ।“प्रायोऽनशनशस्त्राग्निविषाद्युद्बन्धिनान्तथा ।चतुर्द्दश्यान्तु कर्त्तव्यं तृप्त्यर्थमिति निश्चयः
”प्रायो महापथगमनम् वायुपुराणे ।“युवानस्तु गृहे यस्य मृषास्तेषान्तु दापयेत् ।शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्द्दशीम्
”युवान एव पित्रादयो मृता इत्यर्थः मरीचिः ।“विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् ।चतुर्द्दश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता
”ब्राह्मणकृतघातोऽस्यास्तीति ब्राह्मणघाती ये चवै ब्राह्मणैर्हता इति ब्रह्मपुराणवचनात् तुकृतब्राह्मणघातः तस्य पतितत्वात् अन्येषाम-शस्त्रादिहतानाम् एतच्च शस्त्रहतश्राद्धंविष्ण्वादिभिः सामान्यप्रकरणलिखनात् सकल-कृष्णपक्षसाधारणं पित्रादीनामेव पार्व्वणविधि-प्रकरणात् पार्व्वणविधिना कार्य्यम् ।“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते ।तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि
”इति शङ्खवचनाच्च
*
ननु अन्येषान्तु विगहिता इति श्रवणात् कथंत्रैपुरुषिकपार्व्वणविधिः यस्य पुरुषास्त्रयएव शस्त्रहतास्तस्य त्रैपुरुषिकविधिरुपपद्यते ।एवं यस्य द्वौ शस्त्रहतावेको वा तेनापि द्वैपुरु-षिकैकपुरुषिकं पार्व्वणं कर्त्तव्यम् यथा, मनुः ।“पिता यस्य तु वृत्तः स्यात् जीवेच्चापि पिता-महः ।पितुः सनामसङ्कीर्त्त्य कीर्त्तयेत् प्रपितामहम्
”तथा हारीतः ।“पितामहेऽपि जीवे वै पितर्य्येव समापयेत्
”नन्वेकोद्दिष्टमेव श्रूयते यथा शङ्खः ।“सपिण्डीकरणादूर्द्ध्वमृते कृष्णचतुर्द्दशीम् ।प्रतिसंवत्सरादन्यदेकोद्दिष्टं कारयेत्
”यमः ।“सपिण्डीकरणादूर्द्ध्वं यत् पितृभ्यः प्रदीयते ।एकोद्दिष्टविधानेन तत् कार्य्यं शस्त्रघातिने
”भविष्यपुराणे ।“समत्वमागतस्यापि पितुः शस्त्रहतस्य ।चतुर्दश्यान्तु कर्त्तव्यमेकोद्दिष्टं पार्व्वणम्
चतुर्द्दश्यान्तु यच्छ्राद्धं सपिण्डीकरणे कृते ।एकोद्दिष्टविधानेन तत्कार्य्यं शस्त्रघातिने
*
उच्यते एषां वचनानाममूलकत्वात् समूलत्वे-ऽपि पार्व्वणाशक्तविषयाण्येतानि विष्ण्वादिवच-नेषु पार्व्वणावगतेः भ्रात्रादीनान्तु शस्त्रहता-नामेकोद्दिष्टविधिना कार्य्यम् ।“अपुत्त्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्चये ।तेषामपि देयं स्यादेकोद्दिष्टं पार्व्वणम्
”इत्यापस्तम्बवचनेन पार्व्वणनिषेधात् तच्च नसकलकृष्णपक्षसाधारणं विष्ण्वादिवचनेषु श्राद्ध-शब्दस्य पार्व्वणपरत्वोक्तेः किन्त्वाश्विनमासीय-कृष्णपक्षविषयम् ब्रह्मपुराणे प्रायोऽनशने-त्यादिना सकलकृष्णपक्षसाधारणं श्राद्धमभि-धाय आश्विने तर्पणीयाश्चतुर्द्दश्यां लुप्तपिण्डो-दकक्रिया इति यत् पुनरभिधानं तच्छस्त्र-हतभ्रात्रादिविषयं अतएव तत्रैवामावास्यायांपितरः पूज्या नान्दीमुखा अपीति वृद्धप्रपिता-महादीनामपि श्राद्धं दर्शितम् इत्यञ्च चतु-र्द्दश्यामशस्त्रहतश्राद्धनिन्दा आश्विनमासीय-पक्षश्राद्धादिकल्पव्यतिरिक्तसामान्यकृष्णपक्षवि-हितश्राद्धकाम्यश्राद्धविषया प्रकरणभेदेन श्राद्ध-कर्म्मभेदात् सामान्यविशेषन्यायात् इतरथा चतु-र्द्दश्यां संक्रान्तिश्राद्धेऽशस्त्रहतनिन्दा स्यात् ।अतएव कृष्णपक्षे दशम्यादौ वर्ज्जयित्वा चतुर्द्दशीमिति मनुवचनेऽपि चतुर्द्दशीवर्ज्जनं पक्ष-श्राद्धादिव्यतिरिक्तश्राद्धविषयम्
*
ननुशस्त्रादिहतानां श्राद्धनिषेधः श्रुयते तथाछागलेयः ।“शस्त्रविप्रहतानाञ्च शृङ्गिदंष्ट्रिसरीसृपैः ।आत्मनस्त्यागिनाञ्चैव श्राद्धमेषां कारयेत्
”सत्यं बुद्धिपूर्व्वहतानामेव प्रमादमृतानान्तुश्राद्धादिकमाहाङ्गिराः ।“अथ कश्चित् प्रमादेन म्रियतेऽग्न्युदकादिभिः ।अशौचं तस्य कर्त्तव्यं कर्त्तव्या चोदकक्रिया
”अबुद्धिपूर्व्वमपि शृङ्ग्यादिभिः क्रीडां कुर्व्वतांमृतानां कर्त्तव्यम् यथा, ब्रह्मपुराणम् ।“शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः ।आदरात् परिहर्त्तव्यः कुर्व्वन् क्रीडां मृतस्तु यः
”परिहर्त्तव्यः श्राद्धादौ शास्त्रानुमत्या बुद्धिपूर्व्व-मृतानामपि कर्त्तव्यम् यथाह वृद्धगार्ग्यः ।“वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः ।आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनादिभिः
अस्य त्रिरात्रमशौचं द्बितीये त्वस्थिसञ्चयः ।तृतोये तूदकं कृत्वा चतुर्थ श्राद्धमिष्यते
”एवं क्रीडाव्यतिरेकेणाबुद्धिपूर्व्वं मृताः शास्त्रानु-मत्या बुद्धिपूर्व्वकमृता अपि श्राद्धार्हाः कथंलुप्तपिण्डोदकत्वमिति चेत् गौणमिति ब्रूमः ।बुद्धिपूर्व्वे पिण्डोदकक्रियालोपादिति इतिश्राद्धविवेकः