शस्त्रहतचतुर्दशी (zastrahatacaturdazI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
Englishशब्दकल्पद्रुमः
Sanskritशस्त्रहतचतुर्द्दशी, (शस्त्रहतानां चतुर्द्दशी ।युद्धादिहतानां श्राद्धादिकर्म्मणि प्रशस्ततया-स्यास्तथात्वम् ।) गौणाश्विनकृष्णचतुर्द्दशी ।गौणकार्त्तिककृष्णचतुर्द्दशी च । यथा, लिङ्ग-पुराणम् ।“दीपमालां तथा कृष्णचतुर्द्दश्यां शिवाग्रतः ।चतुष्पथे च नद्याञ्च चत्वरेषु गृहेषु च ।एकविंशकुलोपेतो वसेच्छिवपुरे नरः ॥
”अत्र शस्त्रहतानामुल्कादानं अन्येषान्तु दर्शे ।इति संवत्सरकौमुदी ॥
* ॥
अन्यच्च । अथशस्त्रहतचतुर्द्दशी तत्र विष्णुः । युद्धहतानांश्राद्धकर्म्मणि चतुर्द्दशी प्रशस्ता । युद्धहताना-मेवेति न नियमार्थमिदम् । ब्रह्मपुराणे ।“प्रायोऽनशनशस्त्राग्निविषाद्युद्बन्धिनान्तथा ।चतुर्द्दश्यान्तु कर्त्तव्यं तृप्त्यर्थमिति निश्चयः ॥
”प्रायो महापथगमनम् । वायुपुराणे ।“युवानस्तु गृहे यस्य मृषास्तेषान्तु दापयेत् ।शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्द्दशीम् ॥
”युवान एव पित्रादयो मृता इत्यर्थः । मरीचिः ।“विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् ।चतुर्द्दश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता ॥
”ब्राह्मणकृतघातोऽस्यास्तीति ब्राह्मणघाती ये चवै ब्राह्मणैर्हता इति ब्रह्मपुराणवचनात् । न तुकृतब्राह्मणघातः तस्य पतितत्वात् अन्येषाम-शस्त्रादिहतानाम् । एतच्च शस्त्रहतश्राद्धंविष्ण्वादिभिः सामान्यप्रकरणलिखनात् सकल-कृष्णपक्षसाधारणं पित्रादीनामेव पार्व्वणविधि-प्रकरणात् पार्व्वणविधिना कार्य्यम् ।“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते ।तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि ॥
”इति शङ्खवचनाच्च ॥
* ॥
ननु अन्येषान्तु विगहिता इति श्रवणात् । कथंत्रैपुरुषिकपार्व्वणविधिः । न यस्य पुरुषास्त्रयएव शस्त्रहतास्तस्य त्रैपुरुषिकविधिरुपपद्यते ।एवं यस्य द्वौ शस्त्रहतावेको वा तेनापि द्वैपुरु-षिकैकपुरुषिकं पार्व्वणं कर्त्तव्यम् । यथा, मनुः ।“पिता यस्य तु वृत्तः स्यात् जीवेच्चापि पिता-महः ।पितुः सनामसङ्कीर्त्त्य कीर्त्तयेत् प्रपितामहम् ॥
”तथा हारीतः ।“पितामहेऽपि जीवे वै पितर्य्येव समापयेत् ॥
”नन्वेकोद्दिष्टमेव श्रूयते । यथा शङ्खः ।“सपिण्डीकरणादूर्द्ध्वमृते कृष्णचतुर्द्दशीम् ।प्रतिसंवत्सरादन्यदेकोद्दिष्टं न कारयेत् ॥
”यमः ।“सपिण्डीकरणादूर्द्ध्वं यत् पितृभ्यः प्रदीयते ।एकोद्दिष्टविधानेन तत् कार्य्यं शस्त्रघातिने ॥
”भविष्यपुराणे ।“समत्वमागतस्यापि पितुः शस्त्रहतस्य च ।चतुर्दश्यान्तु कर्त्तव्यमेकोद्दिष्टं न पार्व्वणम् ॥
चतुर्द्दश्यान्तु यच्छ्राद्धं सपिण्डीकरणे कृते ।एकोद्दिष्टविधानेन तत्कार्य्यं शस्त्रघातिने ॥
” * ॥
उच्यते । एषां वचनानाममूलकत्वात् समूलत्वे-ऽपि पार्व्वणाशक्तविषयाण्येतानि विष्ण्वादिवच-नेषु पार्व्वणावगतेः । भ्रात्रादीनान्तु शस्त्रहता-नामेकोद्दिष्टविधिना कार्य्यम् ।“अपुत्त्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्चये ।तेषामपि च देयं स्यादेकोद्दिष्टं न पार्व्वणम् ॥
”इत्यापस्तम्बवचनेन पार्व्वणनिषेधात् । तच्च नसकलकृष्णपक्षसाधारणं विष्ण्वादिवचनेषु श्राद्ध-शब्दस्य पार्व्वणपरत्वोक्तेः । किन्त्वाश्विनमासीय-कृष्णपक्षविषयम् । ब्रह्मपुराणे प्रायोऽनशने-त्यादिना सकलकृष्णपक्षसाधारणं श्राद्धमभि-धाय आश्विने । तर्पणीयाश्चतुर्द्दश्यां लुप्तपिण्डो-दकक्रिया । इति यत् पुनरभिधानं तच्छस्त्र-हतभ्रात्रादिविषयं अतएव तत्रैवामावास्यायांपितरः पूज्या नान्दीमुखा अपीति वृद्धप्रपिता-महादीनामपि श्राद्धं दर्शितम् । इत्यञ्च चतु-र्द्दश्यामशस्त्रहतश्राद्धनिन्दा आश्विनमासीय-पक्षश्राद्धादिकल्पव्यतिरिक्तसामान्यकृष्णपक्षवि-हितश्राद्धकाम्यश्राद्धविषया प्रकरणभेदेन श्राद्ध-कर्म्मभेदात् सामान्यविशेषन्यायात् इतरथा चतु-र्द्दश्यां संक्रान्तिश्राद्धेऽशस्त्रहतनिन्दा स्यात् ।अतएव कृष्णपक्षे दशम्यादौ वर्ज्जयित्वा चतुर्द्दशीमिति मनुवचनेऽपि चतुर्द्दशीवर्ज्जनं पक्ष-श्राद्धादिव्यतिरिक्तश्राद्धविषयम् ॥
* ॥
ननुशस्त्रादिहतानां श्राद्धनिषेधः श्रुयते । तथाछागलेयः ।“शस्त्रविप्रहतानाञ्च शृङ्गिदंष्ट्रिसरीसृपैः ।आत्मनस्त्यागिनाञ्चैव श्राद्धमेषां न कारयेत् ॥
”सत्यं बुद्धिपूर्व्वहतानामेव । प्रमादमृतानान्तुश्राद्धादिकमाहाङ्गिराः ।“अथ कश्चित् प्रमादेन म्रियतेऽग्न्युदकादिभिः ।अशौचं तस्य कर्त्तव्यं कर्त्तव्या चोदकक्रिया ॥
”अबुद्धिपूर्व्वमपि शृङ्ग्यादिभिः क्रीडां कुर्व्वतांमृतानां न कर्त्तव्यम् । यथा, ब्रह्मपुराणम् ।“शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः ।आदरात् परिहर्त्तव्यः कुर्व्वन् क्रीडां मृतस्तु यः ॥
”परिहर्त्तव्यः श्राद्धादौ शास्त्रानुमत्या बुद्धिपूर्व्व-मृतानामपि कर्त्तव्यम् । यथाह वृद्धगार्ग्यः ।“वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः ।आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनादिभिः ॥
अस्य त्रिरात्रमशौचं द्बितीये त्वस्थिसञ्चयः ।तृतोये तूदकं कृत्वा चतुर्थ श्राद्धमिष्यते ॥
”एवं क्रीडाव्यतिरेकेणाबुद्धिपूर्व्वं मृताः शास्त्रानु-मत्या बुद्धिपूर्व्वकमृता अपि श्राद्धार्हाः कथंलुप्तपिण्डोदकत्वमिति चेत् गौणमिति ब्रूमः ।बुद्धिपूर्व्वे पिण्डोदकक्रियालोपादिति । इतिश्राद्धविवेकः ॥
वाचस्पत्यम्
Sanskritशस्त्रहतचतुर्दशी स्त्री शस्त्रहतोद्देश्यकश्राद्धाङ्गं चतुर्दशी ।गौणाश्विनकृष्णपक्षचतुर्दश्यां तत्र कर्त्तव्यं आद्धवि०दर्शितं यथा“अथ शस्त्रहतचतुर्दशी । विष्णुः युद्धहतानां श्राद्ध-कर्मणि चतुर्दशी प्रशस्ता” ।शस्त्रयुद्धहतानामेवेति न नियमार्थम् ब्रह्मपुराणे“प्रायाऽनशनशस्त्राग्निबिषोद्वन्धनिनां तथा । चतुर्दश्यांतु कर्त्तव्यं तृप्त्यर्थमिति निश्चयः” प्रायोमहापथगम-नम् । वायुपुराणे “युवानस्तु गृहे यस्य मृतास्तेषान्तुदापयेत् । शस्त्रेण च हता ये वै तेषां दद्याच्चतुर्द-शीम्” । युवान एव पुत्रादयो मृता इत्यर्थः । मरीचिः“विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् । चतु-दैश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता” । ब्राह्म-णकृतघातोऽस्यास्तीति ब्राह्मणघाती तेषां, ये च ब्राह्म-णैर्हताः” इति ब्रह्मपुराणवचनात् न तु कृतव्राह्मणा-घातस्य पतितत्वात् । अन्येषाम् अशस्त्रादिहतानाम्एतच्च शस्त्रहतश्राद्धं विष्ण्वादिभिः सामान्यप्रकरण-लिखनात् सकलकृष्णपक्षसाधारणम् पित्रादीनामेयपार्वणविधिप्रकरणात् पार्वणविधिना कार्य्यं “सपि-ण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयंकुर्य्याद्वर्जयित्वा मृताहनि” इति शङ्खवचनाच्च ।मनु “अन्येषान्तु विगर्हिता” इति श्रवणात् कथं त्रैपुरु-षिकपार्वणविधिः न यस्य पुरुषास्त्रय एव शस्त्रहतास्तस्यत्रैपुरुषिकविधिरुपपद्यत एव यस्य द्वौ शस्त्रहतौ एकोवा तेनापि द्वैपुरुषिकैकपुरुषिकमेव पार्वणं कर्त्तव्यंयथा मनुः “पिता यस्य तु वृत्तः स्याज्जीवेद्वापि पिता-महः । पितुः स नाम संकीर्त्त्य कीर्त्तयेत् प्रपितामहम्”तथा हारोतः “पितामहोऽपि जीवेद्वै पितर्य्येव समा-पयेत्” । नन्वेकोद्दिष्टमात्रं श्रूयते यथाह गार्म्यः“सपिण्डीकरणादूर्द्ध्वं मृते कृष्णचतुर्दशीम् । प्रतिसंवत्-सरादन्यदेकोद्दिष्टं न कारयेत्” यमः “सपिण्डीकर-णादूर्द्ध्वं यत् पितृभ्यः प्रदीयते । एकोद्दिष्टविधानेनप्रदेयं शस्त्रघातिने” भविष्यपुराणे “समत्वमागतस्यापिपितुः शस्त्रहतस्य च । चतुर्दश्यां तु कर्त्तव्यमेकोद्दिष्टंन पार्वणम् । चतुर्दश्यां तु यत् श्राद्धं सपिण्डीकरणेकृते । एकोद्दिष्टविधानेन प्रदेयं शस्त्रघातिने” उच्यते ।एषां वचनानाममूलत्वात् समूलत्वेऽपि पार्वणाशक्तवि-षयकाण्येवैतानि विष्णादिवचनेषु पार्वणावगतेः । भ्रा-त्रादीबान्तु शस्त्रहतावाम् एकोद्दिष्टविधिना कार्य्यम् ।“अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये ।तेषामपि च देय स्यादेकोद्दिष्टं न पार्वणम्” इत्याप-स्तम्बवचने पार्वणनिषेधात् तच्च न सकलकृष्णपक्षसा-धारणं विष्ण्वादिवचने श्राद्धशब्दस्य पार्वणवरत्वोक्तेः ।किन्त्वाश्विनमासीयकृष्णपक्षविपयम् । ब्रह्मपुराणे “प्राया-मशनेत्यादिना सकलकृष्णपक्षसाधारणं श्राद्धमभिधाया-श्विने “तर्पणीयाश्चतुर्दश्यां लुप्तपिण्डोदकक्रियाः” इतिपुनरभिधानं तच्छस्त्रहतभ्रात्रादिविषयम् अतएव तत्रैव“अमाबास्यार्या पितरः पूज्या नान्दीमुखा अपीति” वृद्ध-प्रपिताम हादीनामपि श्राद्धं दर्शितम् । इयञ्च चतुर्दश्या-मशस्त्रहतश्राद्धनिन्दा आश्विनमासीयकृष्णयपक्षश्राद्धा-दिकल्पव्यतिरिक्तमामान्यकृष्णपक्षविहितश्राद्धकाम्यश्राद्धवि-घया प्रकरणभेदेन श्राद्धकर्मभेदात् सामान्यविशेषन्या-याच्च इतरथा चतुर्दश्यां संक्रान्तिश्राद्धेऽशस्त्रहतनिन्दा-स्यात् अतएव “कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशी-मिति” भनुवचनेऽपि चतुर्दशीवर्जनं पक्षश्राद्धादिव्यति-रिक्तविषयम् । ननु शस्त्रादिहतानां श्राद्धनिषेधः श्रू-यते यथा छागलेयः “शस्त्रविप्रहतानाञ्च शृङ्गिदंष्ट्रिसरीसृपैः । आत्यनस्त्यागिनाञ्चैव श्राद्धमेषां न कार-येत्” । सत्यं बुद्धिपूर्वकमृतानामेव । प्रमादमृतानाञ्चश्राद्धादिकमाह अङ्गिराः “अथ कश्चित् प्रभादेन म्रियतेऽग्न्युदकादिभिः । अशौचं तस्य कर्त्तव्यं कर्त्तव्या चोद-कक्रिया” । अबुद्धिपूर्वकमपि शृङ्ग्यादिमिः क्रीडांकुर्वतां मृतानां न कर्त्तव्यम् । ब्रह्मपुराणे “शृङ्गिदंष्ट्रि-नखिव्यालविषवह्निस्त्रिया जलैः । आदरात् परिहर्त्तव्यःकुर्वन् क्रीडां मृतस्तु यः” । परिहर्त्तव्यः श्राद्धादौ ।शास्त्रानुमत्या बुद्धिपूर्वकमृतानामपि कर्त्तव्यम् । गर्ग्यः“नष्टशौचस्मृतिर्लुप्तप्रत्याख्यतभिषक्क्रियः । आत्मानंघातयेद्यस्तु भृग्वग्न्यनशनादिभिः । तस्य त्रिरात्रमा-शौचं द्वितीये त्वस्थिसञ्चयः । तृतीये तूदकं कृत्वा चतुर्थेश्राद्धमिष्यते” । एवं क्रीडाव्यतिरेकेणाऽवुद्धिपूर्वमृताःशास्त्रानुमत्या च बुद्धिपूर्वकमृता अपि श्राद्धार्हाः । कथम्लुप्तपिण्डोदकत्वम् इति चेद्गौणमिति ब्रूमः बुद्धि-पूर्वकमृते पिण्डोदकक्रियालोपात्” ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
